युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 241, कुल 278 में से
संदर्भ में पढ़ेंगजयुक्तिः । २०१ सुनन्दः सर्व्वतो भद्रः स्थिरो गम्भीरवेद्यपि । वरारोह इति प्रोक्ता गजा द्वादश सत्तमाः ॥ ८४ ॥ तद्यथाह भोजः । विभक्तावयवः पुष्टः सुदन्तः सुमहानपि । तेजस्वी रम्य इत्युक्तो गजः सम्पत्तिवर्द्धकः ॥ ८५ ॥ अङ्कुशादि-प्रहारेण यस्य भीतिर्न जायते । स भीमोऽयं गजः शुद्धो राज्ञः सर्व्वार्थ-साधनः ॥ ८६ ॥ शुण्डाग्रात् पुच्छपर्य्यन्तं रेखा यस्यैव दृश्यते । ध्वजः शुद्धो गजी नाम साम्राज्य प्राणदायकः ॥ ८७ ॥ समौ कुम्भौ खराकारौ आवत्तौ तत्र चोच्छ्रयौ (१) । अधीरोऽयं गजो नाम्ना राज्ञां विप्रविनाशनः ॥ ८८ ॥ आवर्त्तः पृष्ठतो यस्य स्वनाभिमभिविन्दति । पुष्टाङ्गो बलवान् वीरो राज्ञामभिमतप्रदः ॥ ८९ ॥ महाप्रमाणः पुष्टाङ्गः सुदन्तश्चारुगण्डकः । भक्षणे भक्षणे श्रान्तः शूरो लक्ष्मो-विवर्द्धनः ॥ ९० ॥ सितौ दन्तौ सितः पुच्छः सिता रेखा सिता नखाः । रक्तकुम्भाक्षिवौय्याङ्गेर्विज्ञेयः सोऽष्टमङ्गलः ॥ ९१ ॥ अयं गजेन्द्रो यस्यास्ते तस्य स्यात् सकला मही । नारिष्टानीतयस्तत्र यत्रास्तेऽयं गजेश्वरः ॥ ९२ ॥ आयोजनशतं यावदनर्थं कुरुते क्षयम् । नाल्पपुण्यैरयं प्राप्यो मनुजेन्द्रैः कलौ युगे ॥ ९३ ॥ शुभौ दन्तौ शुभः शुण्डः शुभौ कुम्भौ शुभस्तनुः । ग(श्र)ण्डयोर्गण्डयोर्मध्ये आवर्त्तः शुभलक्षणः ॥ ९४ ॥ ( १ ) चीव्रतौ इति (क) पुस्तक पाठः । २६