युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 246, कुल 278 में से
संदर्भ में पढ़ें२०६ युक्तिकल्पतरौ— दद्यात् द्विजेभ्यः शुद्धेभ्यो गणकायाथवा नृपः । दृष्ट्वा यदि गजान् दुष्टान् दद्याच्छृङ्गिशतं द्विजे ॥ ३१ ॥ पुरं नीराजयेद्वापि आत्मानं वाथवा सुतम् । देवोसूक्तेन † जुहुयादयुतं वाति(पि) तत्परः ॥ ३२ ॥ तिलान् वा जुहुयादग्नौ तत्प्रतीकार हेतवे । ब्रह्मादि जातिभेदेन जातिरुक्ता चतुर्विधा ॥ ३३ ॥ चतुर्विधानां भूपानां वाहने ते शुभप्रदाः । ये दोषा दोषवत्त्वानां त एव स्युः स्वजातितः ॥ ३४ ॥ ये व्याधयो नराणां स्युस्ते गजानामपि स्मृताः । चिकित्सापि तथा तेषां मात्राचैव गरीयसी ॥ ३५ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ गज परौक्षा * । अथ वृषपरौक्षा । अश्वेभलक्षणे ह्युक्त्वा वक्ष्यन्तेऽन्ये चतुष्पदाः । गावः कृतयुगे सृष्टाः स्वयमेव स्वयम्भुवा ॥ ३६ ॥ ब्रह्म-क्षत्रिय-विट्-शूद्र जातिभेदाश्चतुर्विधाः । शुक्लाङ्गाः शुचयोऽक्रुद्धा मृदवः शुद्धचेतसः ॥ ३७ ॥ अल्पाशिनो बहुवला वृषभा ब्रह्मजातयः । द्वयोर्लक्षण सम्बन्धात् त्रिगुणः स वृषाधमः ॥ ३८ ॥ त्रिलक्षण समावेशात् त्रिगुणः स वृषाधमः । पीताङ्गा मृदवः शुद्धा अक्रोधा भारवाहिनः ॥ ३६ ॥ † अहं रुद्रेभिरित्यादिना वेदोक्तेन श्रुति ।
- गजविषये, वह्निपुराण-गरुडपुराण-कालिकापुराण-वसन्तराज शाकुनानि द्रष्टव्यानि ।