भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 261, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 261

यानयुक्तिः । २२१ विजयो मङ्गलो भव्यो वितस्त्येकैकवृद्धितः । त्रिविधानां महीन्द्राणां यानत्रयमुदाहृतम् ॥ ६१ ॥ अष्टाभिरुह्यते यस्तु अष्टदोलमुशन्ति(तं) च । सोपानद्वितयञ्चात्र विज्ञेयं शिल्प-निर्मितम् ॥ ६२ ॥ भोजस्तु,— अष्टाभिर्वाहकैट्टण्डैः षड्भिस्तु दशभिर्घटैः । स्तम्भैस्तु दशभिर्ज्ञेयमष्टदोलं महीभुजाम् ॥ ६३ ॥ तद्भेदा जयकल्याणवीरसिंहा यथाक्रमम् । चतुर्विधानां भूपानां अष्टदोलाः प्रकाशिताः ॥ ६४ ॥ षड्भिर्हस्तैर्मितायामः परिणाहश्चतुर्भुजः । चतुर्हस्तोन्नतो राज्ञामष्टदोलं जयं विदुः (१) ॥ ६५ ॥ आयामपरिणाहाभ्यां पञ्चहस्तमितो हि यः । कल्याणाख्योऽष्टदोलोऽयं (२) चतुर्हस्तमितोन्नतिः ॥ ६६ ॥ सप्तहस्तायतः कार्य्ये प्रवरे पञ्चहस्तकः । पञ्चहस्तोन्नतो वीरश्चाष्टदोलो महीभुजाम् ॥ ६७ ॥ आयामपरिणाहाभ्यामष्टहस्तमितो हि यः । सिंहनामाष्टदोलोऽयं विज्ञेयः षड्भुजोन्नतः ॥ ६८ ॥ सर्व्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापि निष्छदिः । काष्ठवस्त्रघटादीनां मणीनां चामरस्य च ॥ ६६ ॥ चतुर्द्दोलवदुन्नेयो नियमोऽन्योपि सूरिभिः । पूर्व्ववन्निष्छदेर्मानं (३) ध्वज-मानमिहोच्यते ॥ ७० ॥


( १ ) -च यां विदुः इति (क) पुस्तक पाठः । ( २ ) सिंहनामाष्टदोलोऽयं इति (ख) पुस्तक पाठः । ( ३ ) पूर्व्ववन्निष्छदिर्यानां इति (ग) पुस्तकपाठः ।