भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 269, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 269

यानयुक्तिः । २१८ अत्र शय्यासनादीनां मन्चरोङ्गोचयोरपि (१) । अन्येषाञ्चैव मुनिभि र्निर्णयः पूर्ववन्मतः ॥ २७ ॥ दिङ्मात्रमिहमुद्दिष्टं नौकालक्षणमग्रजम् । प्रधानेष्वेव नियमो अप्रधाने न निर्णयः ॥ २८ ॥ लघुता दृढ़ता चैव गामिता क्षिद्रता तथा । समतेति गुणोद्देशो नौकानां(यां) सम्प्रकाशितः ॥ २६ ॥ एवं विचिन्त्य यो राजा नौकायानं करोति च(द्धि) । स चिरं सुखमाप्नोति विजयं समरे श्रियम् ॥ ३० ॥ योऽज्ञानादन्यथा यानं नौकानां कुरुते नृपः । तस्यैतानि विनश्यन्ति यशो वीर्य्यं बलं धनम् ॥ ३१ ॥ इति निष्पद्यानोद्देशे नौका-यानम् ॥ ० ॥ —*— अथ जघन्यजलयानानि । यथा,— नौकान्यतो जले(स्य)यानं जघन्यमिति गद्यते । तद्देहा बह्ववस्ते तु पाश्चात्यानां प्रकीर्त्तिताः ॥ ३२ ॥ द्रोणीरूपन्तु यद्यानं द्रोणीयानं तदुच्यते । घटो(टा)भिर्घटितं यानं घटो नौकेति गद्यते ॥ ३३ ॥ तुम्बाद्यैस्तु (२) फलैर्यानं फलयानं प्रचक्षते । चर्म्मभिःस्थू(स्तू)लपूर्णैर्यच्चर्म्म-यानं तदुच्यते ॥ ३४ ॥ ( १ ) अत्र शय्यासनादीनामन्चरोन्नीचयोरपि इति (क) पुस्तक पाठः । ( २ ) तद्वाह्यैस्तु इति (ख) पुस्तक पाठः ।