युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 268, कुल 278 में से
संदर्भ में पढ़ें२२८ युक्तिकल्पतरौ— ब्रह्मक्षत्रे द्वितये एकैके वैश्यशूद्रयोर्नौ । निर्गृहं सगृहं वाथ तत्सर्व्वं द्विविधं भवेत् ॥ १८ ॥ निर्गृहं पूर्व्वमुद्दिष्टं सगृहाणि यथा(च) शृणु । सगृहा (१) त्रिविधा प्रोक्ता (ह्योक्ता) सर्व्वमध्याग्रमन्दिरा ॥२०॥ सर्व्वतो मन्दिरं यत्र सा ज्ञेया सर्व्व-मन्दिरा । राज्ञां कोशाश्वनारीणां यानमत्र प्रशस्यते ॥ २१ ॥ मध्यतो मन्दिरं यत्र सा ज्ञेया मध्यमन्दिरा (२) । राज्ञां विलास यात्रादि(त्वं) वर्षासु च प्रशस्यते ॥ २२ ॥ अग्रतो मन्दिरं यत्र सा ज्ञेया त्वग्रमन्दिरा । चिरप्रवास यात्रायां रणे काले घनात्यये । मन्दिर(रा)मानं नौका प्रसरत एवार्द्ध (३) भागतो न्यूनम् ॥२३ भोजस्तु । दीर्घवृत्तवसुषट्-दिवाकरानेक-दिक् नवमिता यथाक्रमम् (४) । राजपञ्चभुजसम्मितोन्नति र्मन्दिरे तरिगते मह्नोभुजाम् ॥ २४ ॥ भास्करादिक-दशाभुवां पुनर्धातु निर्णयनमत्र पूर्व्ववत् । पताकाकलसादीनां निर्णयो नवदण्डवत् ॥ २५ ॥ काष्ठजं धातुजञ्चेति मन्दिरं द्विविधं भवेत् । काष्ठजं सुखसम्पत्त्यै विलासे धातुजं मतम् ॥ २६ ॥ (१) सदाह्वा इति (क) पुस्तक पाठः । (२) मन्दिराङ्गनां इति (ख) पुस्तक पाठः । (३) प्रसरतान्न वा सुभागत इति (ग) पुस्तक पाठः । (४) दीर्घवृत्तदिवाकर वसुषट्दिवाकरखिक दिग्भुवमिता यथाक्रमात् । इति (घ) पुस्तक पाठः ।