भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 267, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 267

धातु-नौयानयुक्तिः । २२७ धात्वा‌दीनामतो वक्ष्ये निर्णयं तरि-संश्रयम् । कनकं रजतं ताम्रं त्रितयं वा यथाक्रमम् ॥ ९ ॥ ब्रह्मादिभिः परिन्यस्य नौका चित्रण-कर्मणि । चतुःशृङ्गा त्रिशृङ्गाभा (१) द्विशृङ्गा चैकशृङ्गिणी ॥ १० ॥ सितरक्तापीतनीलवर्णान् दद्याद् यथाक्रमम् । केशरी महिषो नागो द्विरदो व्याघ्र एव च ॥ ११ ॥ पक्षी भेको मनुष्यश्च एतेषां वदनाष्टकम् । नावां (२) मुखे परिन्यस्य आदित्यादि-दशाभुवाम् ॥ १२ ॥ कलसो दर्पणश्चन्द्रस्त्रैदशानां महीभुजाम् । हंसः केकी शुकः सिंहो गजोऽहिव्याघ्र षट्पदौ ॥ १३ ॥ आदित्यादिदशा जात(ता) नौकोपरि परिन्यसेत् । चतुस्त्रित्वेक विमिता चतुर्व्वर्णा यथाक्रमम् ॥ १४ ॥ आच्छादनं चतुष्पाते कमला