युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 266, कुल 278 में से
संदर्भ में पढ़ें२२६ युक्तिकल्पतरौ— लोलायाः फलमाधत्ते एवं सर्व्वासु निर्णयः । वेगिन्याः परतो या तु सा शिवाद्योत्तरा यथा ॥ १ ॥ भोजोऽपि,— नौकादैर्घ्यं यथेच्छं स्यात् तत्रैतानि विवर्ज्जयेत् । हस्तसंख्या परित्याज्या वसुवेद (१) ग्रहोत्तरे ॥ २ ॥ षष्ठुत्तरमिता नौका कुलं हन्ति वलं धनम् । नवतेरुत्तरे यापि या चत्वारिंशतः परा ॥ ३ ॥ एतेन चत्वारिंशत्-षष्टि नवति (२) संख्या तत्परतोऽपि । यावदपरदशकं तावदेव तत्फलमिति ॥ ४ ॥ इति दीर्घा । अथोन्नता । राजहस्तद्वयमिता तावत्प्रसरणोन्नता । इयमूर्द्धाभिधा (३) नौका क्षेमाय पृथिवी-भुजाम् ॥ ५ ॥ ऊर्द्ध्वानूर्द्धा स्वर्णमुखी गर्भिणी मन्थरा तथा । राजहस्तैकैक वृद्ध्या नाम पञ्चतयं भवेत् ॥ ६ ॥ अत्रानूर्द्धा गर्भिणी च निन्दितं नामयुग्मकम् । मन्थरायाः (४) परा यास्तु ताः शुभाय यथोद्भवम् ॥ ७ ॥ भोजोऽपि,— वाणाग्न्युत्तरतो मानं नौकानां शुभं वहेत् । पञ्चाशदूर्द्धादुत्त्रासं धननाशं त्रयोऽर्द्धतः ॥ ८ ॥ इत्युन्नता । (१) वसुदेव इति (क) पुस्तकपाठः । (२) न भवति इति (ख) पुस्तकपाठः । (३) इयमूर्द्धाविधा इति (ग) पुस्तकपाठः । (४) मन्थरीयाः इति (घ) पुस्तकपाठः ।