युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 65, कुल 278 में से
संदर्भ में पढ़ेंनौतियुक्तिः । २७ एवञ्च कुजादि-पतिके मेषलग्ने जातस्य नृपतेः कुजादि-पतिकायां दक्षिणायामपि वास्तुर्न दुष्यति इति ॥ १८० ॥ पराशरस्तु,— यद्दशा-जनितो राजा वास्त्वारम्भस्तु (१) तद्दिशि * । एतेन सूर्यादि-दशा जनितस्य नृपतेः पूर्व्वादि दिक्षु वास्तु-करणम् । तेन शुक्रदशायां जातस्याग्ने य्यामपि न दुष्यति ॥ १८१ ॥ अथ लक्षणम्,— वास्तुं कुर्य्यान्महीपालः समं सुस्निग्धमृत्तिकम् । प्रागुदक्-प्लवनं † रम्यं रम्य-वृक्षोपशोभितम् ॥ १८२ ॥ लक्ष्मीर्दाहः क्षयो भीतिर्धन-नाशोऽर्थ-(२) शून्यता । सम्पदष्टिरिति प्रोक्तं पूर्व्वादि-ककुभं फलम् ॥ १८३ ॥ तथाहि प्लवनमन्यत्,— जन्मलग्नेन दिक् पश्चाद् राज्ञां वास्तु-पुरोमतः । एतेन सूर्याधिपतिः तुलालग्ने जातस्य नृपतेः सूर्याधिपतेः पूर्व्वस्याः पश्चात् पश्चिम-प्लवो हि न दुष्यति ॥ १८४ ॥ ────────────────────────── ( १ ) वास्त्वारम्भञ्च इति (क) पुस्तक पाठः । ( २ ) अर्थशून्यता इति (ख) पुस्तक पाठः । ──────────────────────────
- दशालग्नादिकं बृहत्पराशर-बृहज्जातकाद्यनुसारेण ज्ञेयम् । † पूर्व्वनिम्नमुत्तरनिम्नं वा वास्तु कार्य्यम् ।