युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
DevanagariHindipublished278 पृष्ठ
पृष्ठ 66, कुल 278 में से
संदर्भ में पढ़ेंपृष्ठ 66
३८ युक्तिकल्पतरौ— अन्ये तु, — यद्दशा जनितो राजा तद्दिग्गयः प्लवो मतः । एतेन गुरुदशा-जातस्य नृपतेर्दक्षिणप्लवो न दुष्यति ॥ १८५ ॥ अन्यत्र तु, — ब्रह्म-क्षत्रिय-विट्-शूद्राः पूर्व्वादि-दिग्युगे क्रमात् । वास्तु-प्लवनमिच्छन्ति निजसम्पत्ति-हेतवे ॥ १८६ ॥ नीतिशास्त्रे च, — वास्तुकर्म्म नृपः कुर्य्यात् * बलद्वैरिणो दिशि । दीर्घां वा चतुरस्रां वा वास्तु-भूमिं महोच्छिताम् । एतयोर्लक्षणं तद्वत् फलञ्च नगरे यथा ॥ १८७ ॥ अथ मानम् । राजकाण्डेन † नृपतिर्वास्त्वारम्भं समाचरेत् । जयोभङ्गः सुखं दुःखं प्रीतिर्भीश्च चलः स्थिरः ॥ इत्यष्टौ वास्तुनामानि राजकाण्डैरनुक्रमात् ॥ १८८ ॥ अन्यत्र च, — जन्मलग्ने महीभर्त्तुः कुण्डयोरन्त एव हि । राजकाण्डैस्तु तावद्भिर्वास्तुं कुर्य्यान्महीपतिः ॥ १८६ ॥ सुदर्शा(६)च्छन्द-संख्येन राजपट्टेन भूपतेः । वास्तुकर्म्म-समारम्भो धनधान्य-जयप्रदः ॥ १६० ॥
( ६ ) खदशा दशाच्छन्द इति (ग) पुस्तक पाठः ।
- नगरप्रकरणोक्त-परिमाणमत्र विज्ञेयम् । † गृह-वास्तु-नगर-हर्म्मादीनामारम्भे जन्मलग्न-ग्रह-तिथि-भयोगादीनां शुद्धिः सर्व्वत्र समैव ज्ञेया, एवं दुर्ग सेनानिवासादौ च तथैव बोध्यम् ।