युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 72, कुल 278 में से
संदर्भ में पढ़ें३२ युक्तिकल्पतरौ— अथ तत्र कालनिर्णयः * । वैशाख-श्रावणाषाढ-मार्गफाल्गुन कार्त्तिकाः । सुप्रशस्ता गृहारम्भे पत्नीपुत्र-समृद्धिदाः ॥ २१२ ॥ शुक्लपक्षे भवेत् सौख्यं कृष्णे तस्करतोभयम् (२४) । आदित्य भौमवर्ज्जन्तु सर्व्वे वाराः शुभावहाः ॥ २१३ ॥ तथान्यत्र,— पूर्णिमायाष्टमीं यावत् पूर्व्वस्यां वर्ज्जयेत् गृहम् । उत्तरस्यां न कुर्वीत नवम्यादि-चतुर्दशीम् ॥ २१४ ॥ अमावश्याष्टमीं यावत् पश्चिमस्यां विवर्जयेत् । नवम्यादि तथायामयां यावच्छुक्ला चतुर्दशीम् ॥ २१५ ॥ वज्रव्याघातशूले च व्यतीपातातिगण्डयोः । विस्कुम्भ गण्डयोश्चैव गृहारम्भं न कारयेत् ॥ २१६ ॥ आदित्यद्वयरोहिणी मृगशिरो ज्येष्ठाधनिष्ठोत्तराः, रेवत्याथ मघानुराधहरिभिः शुद्धैः स्व-भावादिभिः । सौम्यानां दिवसेऽथ (२५) पापरहिते योगेविरिक्ते तिथौ ; विष्टित्यक्तदिने वदन्ति मुनयो वेश्मादि-कार्यं शुभम् ॥ २१७॥ मत्स्यपुराणेऽपि,— चन्द्रादित्यबलं लब्ध्वा लग्नं शुभ-निरीक्षणम् । स्तम्भोच्छ्रादिकर्त्तव्यो (२६) ऽन्यत्तु विवर्ज्जयेत् ॥ २१८ ॥ (२४) कृष्णे च भरतो इति (क) पुस्तक पाठः । (२५) प्राण इति (ग) पुस्तक पाठः । (२६) ब्रह्मादि कर्त्तव्यम् इति (क) पुस्तक पाठः ।
- एतद्विषये प्रमाणान्तराणि—भोजराजीय राजमार्त्तण्डे, ज्योतिस्तत्त्वे, वराहमिहि- रीये, शिल्पसन्दर्भे चानुसन्धेयानि ।