युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 71, कुल 278 में से
संदर्भ में पढ़ेंनौतियुक्तिः । ३१ धनदो धन-लाभ स्यात् सुखकृत् सुखकारकः । इति प्रोक्तोऽतिसंक्षेपाद्वास्तु-लक्षणसंग्रहः ॥ २०५ ॥ भोजस्तु,— दण्डमानन्तथैव किन्तु युक्तिरन्या । ख (१८) दशाब्दतो द्विगुणै स्तैः शुभावहश्चतुरस्र एव नव वास्तु शिष्यते ॥ २०६ ॥ किन्तुलग्न-(१९) दण्डमित-लग्नमित-(२०) दण्डसम्मितः । प्रकरोति वास्तुरति सौख्य-सम्पदम् ॥ २०७ ॥ उषरा वालुका हित्वा (२१) चयमेतद्विनिन्दितम् । त्रिकोणो वर्त्तुलो दोर्घो यवमध्यो वह्निमुखः ॥ २०८ ॥ तथा डमरुरूपश्च सर्पाकार स्तथैव च । छिन्नो भिन्नो मध्यनिम्नो व्यजनाभश्चतुष्पथः ॥ २०९ ॥ त्रिपथो जनदोषो च (२२) वृक्षदोषो तथापरः । गजशुण्डाकृतिश्चैव यो द्रवः परिकीर्त्तितः ॥ २१० ॥ वास्तु-खण्डे महादोषा हेयास्तस्माद्विचक्षणैः । चतुरस्रः शुभो दीर्घस्तस्य (२३) प्रान्तः समाश्रितः ॥ दोषैर्विहीनो विज्ञेयो वास्तुखण्डः सुखावहः ॥ २११ ॥ इति श्री भोजराजीये युक्तिकल्पतरौ वास्तुयुक्तिः । ( १८ ) सुदशाब्द इति (क) पुस्तक पाठः । ( १९ ) किमुलग्न इति (ख) पुस्तक पाठः । ( २० ) दण्डलग्नमितदण्ड इति (ख) पुस्तक पाठः । ( २१ ) छित्वा इति (ग) पुस्तक पाठः । ( २२ ) दोषाच इति (ग) पुस्तक पाठः । ( २३ ) तुभ्य इति (ख) पुस्तक पाठः ।