युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 70, कुल 278 में से
संदर्भ में पढ़ें३० युक्तिकल्पतरौ— अन्येषां यथा,—यदाह वास्तुकुण्डल्याम्— स्वामिहस्तैश्चतुर्भिः स्यात् कुण्डस्तेनैव मापयेत् । क्षेमं भयङ्करो भव्यः शोककृद्विजयः शुचिः । वंशकृत्पापकारो च विकारी शोभनः शिवः ॥ १९८ ॥ कुणपः कामदो धूम्नो (१२) धौम्यो धनहरस्तथा । धनदः सुखकृ(हृ)च्चेति वाव्योऽ(१३)ष्टादशकीर्त्तिताः ॥ १९६ ॥ तद्यथा,— आयाम परिणाहाभ्यां योऽङ्ग(१४)पिण्डोऽभि जायते । ऊनविंश-हृते (१५) भागे शेषैरेतै यथाक्रमम् ॥ २०० ॥ क्षेमे सर्व्वार्थ-सिद्धिः स्यात् (१६) भयकारि-भयङ्करः । भव्यो भोगं प्रकुरुते शोककृत् (१७) वन्धुनाशनम् ॥ २०१ ॥ विजयः कुरुते वृद्धिं शुचिः सर्व्व-सुखं वहेत् । वंशकृत् कुरुते वंशं पापकारी कुलापहः ॥ २०२ ॥ विकारी कुरुते दुःखं शोभनः शुभमावहेत् । शिवः सर्व्वार्थसिद्धिः स्यात् कुणपः सर्व्वनाशनः ॥ २०३ ॥ कामदोऽभीष्ट-लाभः स्याद् धूम्नो दहति सर्व्वशः । धौम्ये धर्ममतिः सौख्यं दुःखं धनहरो भवेत् ॥ २०४ ॥ ( १२ ) धृष्टो धै इति (ख) पुस्तक पाठः । ( १३ ) वाष्टाऽष्टादश इति (ग) पुस्तक पाठः । ( १४ ) योऽञ्चः इति (ग) पुस्तक पाठः । ( १५ ) हृते इति (ख) पुस्तक पाठः । ( १६ ) संसिद्धिः इति (ख) पुस्तक पाठः । ( १७ ) शोकहृत् इति (ग) पुस्तक पाठः ।