युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 94, कुल 278 में से
संदर्भ में पढ़ें५४ युक्तिकल्पतरौ— अथ सामान्यासनोद्देशः । ब्रह्म-क्षत्रिय-वैश्यानां चतुःषट् स्व स्व-कोष्ठिकाः । खट्टिकाः (१७) सुखसम्भूताः शुक्लरक्तासिताम्बराः ॥ ३८१ ॥ इति खट्टिकोद्देशः । अष्टाभिः काष्ठ-खण्डैश्च खट्टेति प्रतिचक्षते * ॥ ३८२ ॥ अथैषां लक्षणानि । तिष्ठेद् यदालम्ब्य खट्टा तज्ज्ञेयं चरणाद्वयम् । शिरस्थं व्युपधानं स्यात् (१८) अधःस्थं स्यान्निरूपकम् ॥ ३८३ ॥ आलिङ्गने उभे पार्श्वे प्राह भोज-महीपतिः । आलिङ्गने चतुर्हस्ते व्युपधानं निरूपके । तदर्द्धेन तदर्द्धेन चत्वारश्चरणा इति ॥ ३८४ ॥ सर्व्व षोड़शिका (खट्टा) यथा,— आलिङ्गने सार्द्धवेदे व्युपधाने निरूपके । सार्द्धद्वये च चरणा हस्तैक-परिसम्मिताः ॥ ३८५ ॥ सर्व्वाष्टादशधा खट्टाः (१६) सर्व्व-कामफलप्रदाः ॥ ३८६ ॥ आलिङ्गने पञ्चहस्ते व्युपधाने निरूपके । तदर्द्धेन तदर्द्धेन चत्वारश्चरणा इति ॥ ३८७ ॥ (१७) ताः खट्टा इति (ग) पुस्तक पाठः । —अत्र क्षुद्रा इयं खट्टा इति खट्टिका । (१८) व्युपधेयं स्यात् इति (ख) पुस्तक पाठः । (१९) दशधा खट्टा इति (ग) पुस्तक पाठः ।
- “सर्व्वविंशतिका”—इत्यारभ्य “शरण्याश्चरणा” इत्यन्तः सार्द्धश्लोकः (ख) पुस्तके नास्ति ।