युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 93, कुल 278 में से
संदर्भ में पढ़ेंआसनयुक्तिः । ५३ अतोषयित्वा नरपतिः कृत्स्नां साधयति क्षितिम् । भृङ्ग-मालोपसहितं शुद्धचम्पक-कल्पितत् ॥ ३७० ॥ शुद्धैर्मारकतैर्युक्तं पादाग्रे पद्मकोषिकाः । द्वाविंशतिः पुत्रिकास्तु नील-वस्त्रादि-भूषणम् ॥ ३७१ ॥ ‘भृङ्ग-सिंहासनं’ नाम शत्रुक्षय-जयप्रदम् । निम्ब-काष्ठेन घटना भृङ्गमालोपशोभितम् (१५) ॥ ३७२ ॥ इन्द्रनीलैर्महानीलैः काञ्चनेनापि चित्रितम् । चरणाग्रे मृगशिरश्चत्वारिंशच्च पुत्रिकाः ॥ ३७३ ॥ नीलवस्त्रादि-युक्तञ्च ‘मृगसिंहासनं’ मतम् । लक्ष्मो-विजय-सम्पत्ति-नैरूज्य-प्रदसत्तमम् ॥ ३७४ ॥ केशरे(वे) णोपघटितं हयमालोपशोभितम् । समस्तवस्त्रैर्भूषा च पुत्रिकाः पञ्चसप्ततिः ॥ ३७५ ॥ चरणाग्रे हयशिरः चित्रवस्त्रादि-भूषणम् । ‘हयसिंहासनं’ नाम लक्ष्मी-विजय-वर्धनम् ॥ ३७६ ॥ इत्येतत्कथितं सारं महासिंहासनाष्टकम् । यथा भोजेन लिखितं यथाञ्चान्यैश्चपण्डितैः ॥ ३७७ ॥ एतस्यातिक्रमं दम्भाद् यः कुर्यात् पृथिवो-पतिः । अचिरादेव कुरुते तस्य मृत्यु(१६) रितिक्रमम् ॥ ३७८ ॥ परासनस्थो यो राजा यो राजा च निरासनः । स परैर्हन्यते सिंहैरिव मत्त-गजाधिपः ॥ ३७९ ॥ स्वलग्न-मित्रासन-मध्य-संस्थिति- र्नदुष्यतीति प्रवदन्ति तज्ज्ञाः ॥ ३८० ॥ इति श्रीभोजराजीये विशेषासनोद्देशः ॥ (१५) मानोपरशोभितम् इति (ग) पुस्तक पाठः । (१६) तस्य मृत्युम् इति (ख) पुस्तक पाठः ।