युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 92, कुल 278 में से
संदर्भ में पढ़ें५२ युक्तिकल्पतरौ— चरणाग्रे शङ्खनाभिः पुत्रिका-सप्त विंशतिः । स्थाने स्थाने विधातव्याः शुद्ध-स्फटिक-संस्कृताः ॥ ३६१ ॥ शुक्लपट्टावृतं ह्येतत् 'शङ्खसिंहासनं' मतम् । पनसे नोपघटितो गजमालोपशोभितः ॥ ३६२ ॥ विद्रुमैरपि वैदुर्य्यैः (६) काञ्चनेनापि शोभितः । चरणाग्रे गजशिरः पुच्छादेकैकपुत्रिका ॥ ३६३ ॥ माणिक्य रचिता रक्त-वस्त्रादिकं (१०) विभूषणम् । 'गजसिंहासन'नाम साम्राज्य-फलदायकम् ॥ ३६४ ॥ शालकाष्ठेन घटितो हंसमालोपशोभितः । पुष्परागैः काञ्चनेन कुरुविन्दैश्च चित्रितः ॥ ३६५ ॥ चरणाग्रे हंसरूपं पुत्रिकास्त्वेकविंशतिः । गोमेदकोपघटिताः (११) पोतवस्त्र-विभूषणम् (१२) ॥ ३६६ ॥ 'हंससिंहासनं' नाम सर्व्वानिष्ट-विनाशनम् (१३) । चन्दनेनोपघटितः सिंह मालोप-(१४)शोभितः ॥ ३६७ ॥ शुद्ध-हीरकरचित्वाङ्गः शुद्धकाञ्चन-निर्मितः । चरणानां सिंह-लेखः पुत्रिकाश्चैकविंशतिः ॥ ३६८ ॥ मुक्ताशुक्तिभिरन्यैश्च निर्मलैरेव भूषणम् । शुद्धशुक्लावृतं ह्येतत् 'सिंह-सिंहासनं' मतम् ॥ ३६६ ॥ ( ६ ) वैदूर्य्यैः इति (ग) पुस्तक पाठः । ( १० )—कं विभूषितम् इति (ख)-(ग) पुस्तक पाठः । ( ११ ) घटिता, घटितो इति (ख)-(ग) पुस्तक पाठः । ( १२ ) विभूषितम् इति (ख) विभूषणः (ग) पुस्तक पाठः । ( १३ ) प्रणाशनम् इति (ख) पुस्तक पाठः । ( १४ ) मानोपशोभितम् इति (ग) पुस्तक पाठः ।