युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 97, कुल 278 में से
संदर्भ में पढ़ेंआसनयुक्तिः । ५७ इदन्तु सामान्यं सर्वसम्मतञ्च काष्ठ-नियमस्तु पूर्ववदेव ॥ ४०५ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ खट्टोद्देशः ॥ अथ पीठोद्देशः । धातु-पाषाण-काष्ठैश्च पीठस्त्रिविध उच्यते । धातवश्च शिलाश्चैव काष्ठानि विविधानि च । तदत्र संप्रवक्ष्यामि यथेषामुपपद्यते (९) ॥ ४०६ ॥ अथ मानम् । हस्तद्वयन्तु दैर्घ्येण तदर्द्धं परिणाहतः । तदर्द्धेनोन्नतः पीठः 'सुख' इत्यभिधीयते ॥ ४०७ ॥ हस्तद्वय-द्वयाधिक्यात् पञ्चपीठा भवन्ति हि । सुखो (१०) जयः शुभः सिद्धिः सम्पच्चेति यथाक्रमम् ॥ ४०८ ॥ धनभोग-सुखैश्वर्य्य-वाञ्छितार्थ-प्रदायकः । सम-दीर्घ-सुखावाप्तिर्विषमे विषमापदः ॥ ४०९ ॥ आयाम-परिणाहाभ्यां हस्त-द्वयमितो हि यः । 'राजपीठ' इति ज्ञेयः सकलार्थ-प्रसाधकः । अत्राभिषेक-मिच्छन्ति क्षितिपस्य पुराविदः ॥ ४१० ॥ दैर्घ्योन्नति-परिणाहैः षड्हस्तमितो हि यः । राज्ञां चित्त-प्रसादार्थं केलि-पीठाभिधानकम् ॥ ४११ ॥ (९) उपयुज्यते (उपगद्यते) इति (ख)-(ग) पुस्तक पाठः । (१०) सुखा इति (ख)-(ग) पुस्तक पाठः । ८