युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 96, कुल 278 में से
संदर्भ में पढ़ें५६ युक्तिकल्पतरौ— एकैक हस्त वृद्ध्या तु मञ्चानामिति लक्षणम् ॥३९७॥ यात्रासिद्धिं समारभ्य येऽमी षोडशकीर्त्तिताः । आदित्यादि-दशाजानामाद्यन्तैक द्वयं क्रमात् ॥ ३९८ ॥ दूर-दर्शी दीर्घ-दर्शी दुर्लङ्घ्योऽथ दुरासदः । यथोत्तरं दशगुणा पादैक (५) परिणाहिनः ॥ ३९९ ॥ प्रासादसंज्ञकाः कार्या राज्ञा सुखमभीप्सता । चत्वार एते सर्व्वेषां भूपतीनां सुखावहाः ॥ ४०० ॥ श्रीभोजमते च,— सर्व्वं त्रिंशतिकां यावत् आरभ्योभय-षोडशीम् । खट्टाणामिति नामानि अष्टौ हस्त-(६) द्वयाधिको ॥ ४०१ ॥ तद्यथा,— मङ्गला विजया पुष्टिः क्षमा तुष्टिः सुखासनम् । प्रचण्डा सर्व्वतोभद्रा खट्टाना मष्टकं विदुः ॥ ४०२ ॥ आसां पूर्ववद् विभागः । पराशरसंहितायान्तु,— अष्टाभिः काष्ठ-खण्डैस्तु योऽयं पिण्डो(७) विभाज्यते । स चेत्समो भवेत् खट्टा प्रशस्ता स्याद् यतोऽन्यथा ॥ ४०३ ॥ समे सर्व्वाय-सम्पत्तिर्विषमे विपदास्पदम् । तस्मात् खट्वाङ्ग-(८)पिण्डो यः समःकार्य्यः स सूरिभिः ॥ ४०४ ॥ ( ५ ) पदैक इति (ख) पुस्तक पाठः । ( ६ ) ह्रस्वा