भारतकोश
संग्रह पर लौटें

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

५६ युक्तिकल्पतरौ— एकैक हस्त वृद्ध्या तु मञ्चानामिति लक्षणम् ॥३९७॥ यात्रासिद्धिं समारभ्य येऽमी षोडशकीर्त्तिताः । आदित्यादि-दशाजानामाद्यन्तैक द्वयं क्रमात् ॥ ३९८ ॥ दूर-दर्शी दीर्घ-दर्शी दुर्लङ्घ्योऽथ दुरासदः । यथोत्तरं दशगुणा पादैक (५) परिणाहिनः ॥ ३९९ ॥ प्रासादसंज्ञकाः कार्या राज्ञा सुखमभीप्सता । चत्वार एते सर्व्वेषां भूपतीनां सुखावहाः ॥ ४०० ॥ श्रीभोजमते च,— सर्व्वं त्रिंशतिकां यावत् आरभ्योभय-षोडशीम् । खट्टाणामिति नामानि अष्टौ हस्त-(६) द्वयाधिको ॥ ४०१ ॥ तद्यथा,— मङ्गला विजया पुष्टिः क्षमा तुष्टिः सुखासनम् । प्रचण्डा सर्व्वतोभद्रा खट्टाना मष्टकं विदुः ॥ ४०२ ॥ आसां पूर्ववद् विभागः । पराशरसंहितायान्तु,— अष्टाभिः काष्ठ-खण्डैस्तु योऽयं पिण्डो(७) विभाज्यते । स चेत्समो भवेत् खट्टा प्रशस्ता स्याद् यतोऽन्यथा ॥ ४०३ ॥ समे सर्व्वाय-सम्पत्तिर्विषमे विपदास्पदम् । तस्मात् खट्वाङ्ग-(८)पिण्डो यः समःकार्य्यः स सूरिभिः ॥ ४०४ ॥ ( ५ ) पदैक इति (ख) पुस्तक पाठः । ( ६ ) ह्रस्वा

आसनयुक्तिः । ५७ इदन्तु सामान्यं सर्वसम्मतञ्च काष्ठ-नियमस्तु पूर्ववदेव ॥ ४०५ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ खट्टोद्देशः ॥ अथ पीठोद्देशः । धातु-पाषाण-काष्ठैश्च पीठस्त्रिविध उच्यते । धातवश्च शिलाश्चैव काष्ठानि विविधानि च । तदत्र संप्रवक्ष्यामि यथेषामुपपद्यते (९) ॥ ४०६ ॥ अथ मानम् । हस्तद्वयन्तु दैर्घ्येण तदर्द्धं परिणाहतः । तदर्द्धेनोन्नतः पीठः 'सुख' इत्यभिधीयते ॥ ४०७ ॥ हस्तद्वय-द्वयाधिक्यात् पञ्चपीठा भवन्ति हि । सुखो (१०) जयः शुभः सिद्धिः सम्पच्चेति यथाक्रमम् ॥ ४०८ ॥ धनभोग-सुखैश्वर्य्य-वाञ्छितार्थ-प्रदायकः । सम-दीर्घ-सुखावाप्तिर्विषमे विषमापदः ॥ ४०९ ॥ आयाम-परिणाहाभ्यां हस्त-द्वयमितो हि यः । 'राजपीठ' इति ज्ञेयः सकलार्थ-प्रसाधकः । अत्राभिषेक-मिच्छन्ति क्षितिपस्य पुराविदः ॥ ४१० ॥ दैर्घ्योन्नति-परिणाहैः षड्हस्तमितो हि यः । राज्ञां चित्त-प्रसादार्थं केलि-पीठाभिधानकम् ॥ ४११ ॥ (९) उपयुज्यते (उपगद्यते) इति (ख)-(ग) पुस्तक पाठः । (१०) सुखा इति (ख)-(ग) पुस्तक पाठः । ८

(ञ्च): it has a horizontal-ish loop ञ् connected to below/beside it. Now look at line 4: First word: काञ्चनो! Wait, look at the third character: with ? Wait, let's look at काञ्चनो: + = का Then ञ्च? Wait, in line 4: ञ्च -> wait, does it have ? Let's look at the letters: Letter 1: with -> का Letter 2: Letter 3: with ? No, ? Wait, could it be काञ्चनराजपीठः? Let's zoom in on line 4: का followed by ? No, it has न्क? Wait, look at: , , , , , , , , space, , , , . Wait, why would it be कानकोराज पीठः? Let's search Yuktikalpataru: In Yuktikalpataru, the shloka is: "काञ्चनो

आसनयुक्तिः । ५८ अभिषेके च यात्रायां उत्सवे जय-कर्म्मणि । अयस्कान्तोपघटितः * संग्रामे पीठ इष्यते ॥ ४२१ ॥ गरुड़ोद्गार-(१४) रचिते वर्षासु नृपतिर्वसेत् । शुद्धरत्न-मयं पीठं भजते घन-गर्जिते ॥ ४२२ ॥ सामान्य-प्रास्तरः पीठो विलासाय (१५) महीभुजाम् । एषां मानं गुणांश्चापि विज्ञेया धातुपीठवत् ॥ ४२३ ॥ अथ काष्ठपीठाः । तद्यथा, मानन्तु पूर्व्ववदेव । सम्पत्ति-सुखवृद्ध्यर्थं गाम्भारि-जनितो जयः । जारको रोगनाशाय सुख-शत्रु-विनाशनः ॥ ४२४ ॥ ‘सिद्धिः’ सर्व्वार्थ-संसिद्ध्यै विजयाय च वैरिणाम् । ‘शुभः’ स्यादभिषेके च सम्पद्देरि-निवारणः ॥ ४२५ ॥ पालाशो राजकः पीठः सुख-सम्पत्ति-कारकः । ‘जयः’ स्यादभिषेके च शुभः शत्रु-विनाशनः ॥ ४२६ ॥ सुखो रोग-विनाशाय सिद्धिः सर्व्वार्थदायिका । सम्पदूच्चाटन-विधौ विज्ञेयः पीठ-लक्षणम् ॥ ४२७ ॥ चान्दनस्तु सुखः पीठोऽभिषेके महीभुजाम् । जयः स्याद्रोग-नाशाय शुभः सौख्यं प्रयच्छति ॥ ४२८ ॥ (१४) गरुड़ोद्गार इति (ख) पुस्तकपाठः । (१५) विश्रालाय इति (ख) पुस्तक पाठः ।

  • अयस्कान्तश्चुम्बकः, कान्तलौह इति केचित् ।

६० युक्तिकल्पतरौ— तारको गृह्तुष्ट्यर्थं अन्ये तु (१६) रति-दुस्करा ? । यत्नतो निर्मितास्ते तु साम्राज्य-फलदायकाः ॥ ४२८ ॥ कालेयको जारकोऽपि भूभुजामभिषेचने । पोठा नगरका- १७) दीना मन्ये चन्दन-वद्विदुः ॥ ४३० ॥ वाकुलस्तु शुभः पोठो भूभुजामभिषेचने । जयो रोग-विनाशाय सुख-सम्पत्ति-कारकः ॥ ४३१ ॥ सिद्धिः सिद्धि-प्रदा सम्पत् संग्रामे विजय-प्रदः । जावको (१८) जरणायस्यादिति भोजस्य सम्मतम् ॥ ४३२ ॥ एवं सुगन्धि-कुसुमाः ससारा ये च पादपाः । वाकुलेन समः कार्य्यः एवं पीठस्य निर्णयः ॥ ४३३ ॥ ये शुष्ककाष्ठा वृक्षास्तु मृदवो लघवोऽथवा । गाम्भारौ * सदृशः पीठस्तेषां कार्य्यस्तथा गुणः ॥ ४३४ ॥ फलिनश्च ससाराश्च रक्तसाराश्च ये नगाः । तेषां पानसवत् पीठस्तथैव गुणमावहेत् ॥ ४३५ ॥ —*— अथनिषेधः । विज्ञेयो निन्दितः पीठः लोहोत्थः सर्वधातुजे । शिलोत्थः शार्करो वञ्जरः कर्करश्च विशेषतः ॥ काष्ठजेषु च पीठेषु नासारा नातिसारिणः ॥ ४३६ ॥ ( १६ ) अन्यत्तरति (अन्य तु) ) (क)—(ग) पुस्तक पाठः । ( १७ ) नागरका इति (ख) पुस्तक पाठः । ( १८ ) जारक (जीवक) इति (क)-(ग) पुस्तक पाठः ।

  • "गाम्भारौ निर्मितं शस्तं नान्यदारुमयं शुभम्" इति तन्त्रशास्त्रे ।

आसनयुक्तिः । ६१ तथाहि,— आम्र-जम्बु-कदम्बानां आसनं वंशनाशनम् ॥ ४३७ ॥ भोजस्त्वाह— गुरुः पीठो गौरवाय लघुर्लाघव-कारकः ॥ ४३८ ॥ पराशरस्तु,— नाग्रन्थिर्नातिग्रन्थिश्च नागुरु र्ना समाकृतिः । पीठः स्यात् सुखसम्पत्त्यै नातिदीर्घो नवामनः (१६) ॥४३६॥ ये चान्ये पीठ-सदृशा दृश्याः शिल्पिविनिर्मिताः । गुणान् दोषांश्च मानञ्च तेषां पीठवदादिशेत् ॥ ४४० ॥ विचार्य्य तेन विधिना यः शुद्धं पीठमाचरेत् । तस्य लच्छ्मीरिदं (२०) वेश्म कदाचिन्न विमुञ्चति ॥ ४४१ ॥ अज्ञानादथवा मोहाद्योऽन्यथा पीठमाचरेत् । एतानि तस्य नश्यन्ति लच्छ्मोरायुः कुलं बलम् ॥ ४४२ ॥ इति पीठो

६२ युक्तिकल्पतरौ— अथ छत्र-युक्तिः * । विशेषश्चाथ सामान्यं छत्रस्य द्विविधा भिदा । राज्ञाञ्च(सू)त्रं विशेषाख्यं सामान्यं चान्यदुच्यते ॥ ४४५ ॥ तत्र विशेष छत्रोद्देशः। सदण्डं चाथनिर्द्दण्डं तज्ज्ञेयं द्विविधं पुनः । सदण्डं तत्र विज्ञेयं सारणाऽऽकुञ्चनात्मकम् ॥ ४४६ ॥ दण्डः (१) कन्दं शलाकाश्च रज्जुर्वस्त्रञ्च कौलकम् । षड्भिरेतैः सुसन्दिष्टै(२)श्छत्र * मित्यभिधीयते ॥ ४४७ ॥ दिगष्ट-षट् चतुर्हस्त-दीर्घो दण्डो युग-क्रमात् । षड् वाण-वेद-नयन-वितस्त्या कन्द उच्यते ॥ ४४८ ॥ शतान्यशीतिः षड्भिश्च चत्वारिंशद् युग-क्रमात् । शलाकाः षट्पञ्च-वेद-त्रि-हस्तैः सम्मिताः क्रमात् ॥ ४४९ ॥ नवभिस्तन्तुभिः सूत्रं सूत्रैस्तु नवभिर्गुणः । गुणैस्तु नवभिः पाशो रश्मिस्तै र्नवभिर्भवेत् ॥ ४५० ॥ ( १ ) कुण्ड इति (क) पुस्तक पाठः । ( २ ) सन्दिष्टे इति (क) पुस्तक पाठः ।

  • राज्ञोऽदेयमेतत् त्रयं छत्रमुभेचामरे च । “अदेयमेतत् त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे ।” “छत्रन्ते वारुणं गेहे” इति मार्कण्डेयपुराणे । केचन सूरयः, छत्रदण्डचामराणामितत्त्रयं अदेयमिति भूभुजो मन्यन्ते । “छत्रीवर्षातपे नित्यम्” इति स्मृतिः ।
  • अत्र दण्डकन्द-शलाका-रज्जु-वस्त्र-कौलकानां छत्रनिर्माणे सम्भूय कारित्वं ज्ञेयम् । तथा च प्राञ्चः प्रोचुस्त्रैविध्यमथ— “देवच्छत्रं राजच्छत्रं नर-छत्रन्तु भूसुराः । छादनाच्छत्रमित्येतत् त्रिविधं संप्रकीर्त्तितम् ॥”

छत्रयुक्तिः । ६३ नवाष्ट-सप्त-षट्-संख्यै रश्मिभौरज्जवः क्रमात् । वस्त्रं शलाका-द्विगुणमायामेन प्रतिष्ठितम् ॥ ४५१ ॥ भानु-दिग्ग्रह-वसुभिरङ्गुलोभिस्तु कीलकः । षण्णां यन्मानमुदिततद्राज्ञा(३)मेव भूतये ॥ ४५२ ॥ पादोनं युवराजस्य अन्येषान्तु तदर्द्धतः । एतेन राज्ञो दण्डोऽभूद् युवराजस्य तत्पुनः ॥ ४५३ ॥ अन्येषां तदेव । विशुद्ध-काष्ठस्य तु दण्ड-कन्दौ, तथा शलाका अपि शुद्धवंशजाः ॥ रज्जुश्च रक्ता वसनञ्च रक्तम् ; छत्रं प्रसादं नृपतेर्वदन्ति ॥ ४५४ ॥ प्रसादं इति प्रसादार्हम् । नौलोदण्डश्च वस्त्रञ्च शिरः कुम्भस्तु (४) कानकः । सौवर्णं युवराजस्य प्रतापं नामविश्रुतम् ॥ ४५५ ॥ चान्दनौ दण्डकन्दौ चेत् सुशुक्ले रज्जुवाससौ । छत्रं मनोहरं राज्ञां स्वर्ण-कुम्भोपशोभितम् ॥ ४५६ ॥ कानकौ दण्डकन्दौ तु शलाकाऽपि कानका । शुक्लानि रज्जु-वासांसि स्वर्णकुम्भस्तथोपरि । इदं कनकदण्डाख्यं छत्रं सर्व्वार्थ-साधकम् ॥ ४५७ ॥ दण्ड-कन्द-शलाकाश्च शुद्ध-स्वर्णेन निर्मिताः । कीलकं स्वर्ण-घटितं अशुक्ले रज्जु-वाससौ । कुम्भादि रथ हंसादिचामरादिर्यथाक्रमम् ॥ ४५८ ॥ ( ३ ) तद्दण्डानेव इति (ग) पुस्तक पाठः । ( ४ ) कीलक ति (ख) पुस्तक पाठः ।

: चामरश्चासपत्त्रानि? No, is the 5th letter ? Let's compare: चामरश्चासपत्त्रानि? Look at in हंसश्चासः (line 12): हं श्चा सः! Notice श्चा! In line 15: चा श्चा ... Wait! The letter after श्चा is ! Look at the loop on the left and the right vertical: it is ! Wait, is it ? Let's look at in अथ कुम्भादिः (line 9): does not have a left loop with a gap; has a loop on top-left, a diagonal down, and a horizontal stroke connecting to the right vertical! In line 15, letter 5: it has a top bar, a loop on left, a diagonal/vertical down, a crossbar to the right vertical. That is DEFINITELY ! Wait, so is it चामरश्चासपत्तानि? Wait, what is letter 6? ! What is letter 7? It has a vertical, with two horizontal tines

छत्रयुक्तिः । १५ अर्कवड्डा(द्धा)भिधो विप्रश्चटवड्ड(ष्ठ)स्तु क्षत्रियः । तपवड्डस्तु वैश्यः स्याद् यशोवड्डस्तु शूद्रकः ॥ ४६९ ॥ अन्यानि यानि छत्राणि विविधाकृति-मन्ति च । तानि चित्त-प्रमोदार्थं कार्याणि त्रितयन्विदम् ॥ ४७० ॥ नवदण्डोऽभिषेके च वारे कनक-दण्डयोः । मनोहरं प्रयाणेषु छत्रो (१०) भोजस्य सम्मतम् ॥ ४७१ ॥ मनोहरं स्त्रो(११)कनक-दण्डञ्च नवदण्डकम् । छत्रञ्च त्रिविधं ज्ञेयं त्रिविधानां मही-भुजाम् ॥ ४७२ ॥ मण्डलेशश्च राजा च चक्रवर्त्ती च यो नृपः । आनूपो जाङ्गलो देशः साधारण-गतिस्त्रिधा ॥ देशत्रयाधीश्वराणां छत्र-त्रयमिदं क्रमात् ॥ ४७३ ॥ दण्डनियमस्तु अन्यत्र । चम्पकः पनसः शालः श्रीफलश्चन्दनस्तथा । बकुलश्चाथ निम्बश्च वज्रवारण (१२) मित्यपि * ॥ ४७४ ॥ ( १० ) 'छत्रं' इति (ख) पुस्तक पाठः । ( ११ ) स्त्रो (न्तु) कनक इति (ख) पुस्तक पाठः । ( १२ ) वज्रधारणम् इति (ख) पुस्तकः पाठः ।

  • अत्र वज्र वारका बहवः सन्ति-यथा, - वृक्षेषु मुण्डो, नारीकेलः, तुलसी च एतान् गृहोपरि आर्थ्याः प्राञ्चोरचितवन्तः । लोहे- अयस्कान्त-चुम्बकौ त्रिशूलाकारौ । एवं मन्त्रेषु- “मुनेः कल्याण-मित्रस्य जैमिनेश्चापि कीर्त्तनात् । विद्युदग्नि-भयं नस्यात् स्थापिते च गृहोदरे ॥” “प्रचण्ड पवनाघाते निर्घोषेऽशनितेऽपि च । वि-पठेत् जैमिनिन्तत्र प्राङ्मुखो वा ह्युदङ्मुखः ॥’’ “जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च । पुलहः क्रतु पुलस्त्यो षड़ेते वज्रवारकाः ॥” “रामं स्कन्दं हनुमन्तं वैनतेयं वृकोदरम् । ये स्मरन्ति विरूपाक्षं न तेषां विद्युती भयम् ।” इति योगविज्ञानशास्त्रे । ६

२. द्वितीय विभाग: नौका-युक्ति (प्राचीन भारतीय जलयान-विज्ञान, काष्ठ-भेद व पोत-निर्माण)

६६ युक्तिकल्पतरौ— आदित्यादि-दशाशानां दण्डकाष्ठाष्टकं विदुः । चान्दनः छत्र-दण्डस्तु सर्वेषामेव युज्यते ॥ विशुद्ध-कोण-धारं हि तद् वज्रं वज्रधारणम् ॥ ४७५ ॥ इति सदण्ड-लक्षणम् ॥ अथ निर्द्दण्ड-लक्षणम् । निर्द्दण्डं दण्ड-रहितं समाकुञ्चन-वर्ज्जितम् । मणीनामथ वस्त्राणां निर्णयस्तु सदण्डवत् ॥ ४७६ ॥ मुख्यं जघन्यं द्विविधं तत्र मुख्यमिहायतम् । जघन्यं वलयाकारं तयोर्मानं यथा लघु ॥ ४७७ ॥ दैर्घ्यस्य मानं निर्दिष्टं भानु-दिग् नव(सु) मुष्टिभिः । वलयस्य हि निर्दिष्टं तावतीभि र्वितस्तिभिः ॥ ४७८ ॥ इति प्रोक्तो विशेषस्य विशेषो भोज-भूभुजाम् । इत्थं विचार्य्य यो राजा राजच्छत्रं समाचरेत् । सचिरं पाति वसुधां धन-सम्पत्ति-ऋद्धिमान् (१३) ॥ ४७६ ॥ अज्ञानादथवा मोहाद् योऽन्यथा छत्रमाचरेत् । सोऽचिरान्मृत्युमाप्नोति भयं रोगं कुल-क्षयम् ॥ ४८० ॥ विधान-शून्यं छत्रन्तु मस्तकोपरि भूपतिः । यो धत्ते तस्य दुर्बुद्धेर्लक्ष्मी-कुल-बल-क्षयः ॥ ४८१ ॥ इति विशेष छत्रोद्देशः । कुञ्चनाद्दण्डकत्रस्य (१४) छत्रं सामान्यमुच्यते । निर्द्दण्डञ्च सदण्डञ्च छत्रन्तु द्विविधं विदुः ॥ ४८२ ॥


(१३) वृद्धिमान् इति (ख) पुस्तक पाठः । (१४) दण्डच्छत्त्रन्तु इति (ग) पुस्तक पाठः ।

छत्रयुक्तिः । ६७ आयाम-परिणाहाभ्यां नवमुष्टि-मितं हि तत् । इदं हि सर्व्वतोभद्रं सर्व्वेषामुपयुज्यते ॥ ४८३ ॥ एकैक मुष्टिवृद्ध्यातु यावद्विंशतिमुष्टिकम् । मेषादि-लग्नजातानां नृणां छत्रमिदं क्रमात् ॥ ४८४॥ अथ सदण्डम् । आयाम-परिणाहेन हस्तद्वयमिदं हि यत् । स चतुर्हस्त-दण्डाढ्यो दण्ड-छत्रोति गद्यते ॥ ४८५ ॥ सर्व्वेषां सुखसम्पत्त्यै सर्व्वतैवोपयुज्यते (१५) । एकैक वृद्धया मुष्टिस्तु छत्रे दण्डे वितस्तयः (१६) ॥ ४८६ ॥ ब्रह्म-क्षत्रिय-विट्-शूद्र जातीनां क्रमतो विदुः ॥ ४८७ ॥ क्रम नियमस्तु तथैव । शलाका वस्त्र-दण्डादि-वर्णः पूर्व्ववदिष्यते ॥ ४८८ ॥ भोजोऽपि— लघुता दीर्घता चैव दण्ड-सूत्रो-गुणग्रहः । इत्थं विचार्य्य यः कुर्य्यात् मानवश्छत्रमात्मनः ॥ ४८६ ॥ स लक्ष्मीं विजयं कीर्त्तिं प्रतापश्चाभिविन्दति ॥ ४६० । यो मोहादथवा दम्भात् कुरुते छत्रमन्यथा । स विषीदति भोजस्य वाक्यमेतत् असंशयम् (१७) ॥४६१॥ इति भोजराजीये युक्तिकल्पतरौ छत्रयुक्तिः । ( १५ ) उपजायते इति (ख) पुस्तक पाठः । ( १६ ) वितस्तयः इति (ग) पुस्तक पाठः । ( १७ ) असंशयः इति (ख) पुस्तक पाठः ।

१८ युक्तिकल्पतरौ— तत्रध्वज-युक्तिः । सेना-चिह्नं क्षितीशानां दण्डोध्वज इति स्मृतः । सपताको निष्पताकः स ज्ञेयो द्विविधो बुधैः ॥ ४६२ ॥ स पातक-ध्व[ज]स्याग्रे यथा हस्तं परिन्यसेत् । जय-हस्तो ध्वजो नाम नैनं सामान्यमर्हति ॥ ४६३ ॥ वंशोऽथवा कुलः शालः पालाशश्चम्पकस्तथा । नैपो नेषो(१)थवा दण्डस्तथा वैराज-वारणः ॥ ४६४ ॥ अज्ञानादिक-(२) संज्ञानां वर्ण-रूपः प्रकाशितः । सर्वेषां चैव वंशस्तु दण्डः सम्पत्ति-कारकः ॥ ४६५ ॥ अकचटतप यशाः । पताका सार्द्ध-दैर्घ्येण दण्डस्तु पृथिवी-भुजाम् । प्रता पाय पताकास्तु अष्टावेव प्रकाशिताः ॥ ४६६ ॥ पञ्चहस्तायता(यथा) हस्त-परिणाहा जयाभिधाः । जया च विजया भीमा चपला वैजयन्तिका ॥ ४६७ ॥ दीर्घा विलासा लोला च ज्ञेया हस्तैक वृद्धितः । परिणाहे पादवृद्धि रथ वर्गस्य निर्णयः ॥ ४६८ ॥ रक्तः श्वेतोऽरुणः पीतो चित्रो नीलोऽथ कर्बुरः । कृष्णश्चेति पताकानां वर्णः रूपः प्रकाशितः । अवर्णा(ज्ञा)दिकसंज्ञानां अष्टाना्राष्टक-चयम् ॥ ४६९ ॥ कलसो दर्पणश्चन्द्रः पद्मकोषो यथाक्रमम् । ब्रह्म-क्षत्रिय-विट्शूद्र-जातीनां संप्रकाशितः ॥ ५०० ॥ ( १ ) नैषा निम्बो इति (ख) पुस्तक पाठः । ( २ ) अवर्णादिक इति (ख) पुस्तक पाठः ।

ध्वजयुक्तिः । ६८ गजादि-युक्ता सा प्रोक्ता जयन्ती सर्व्वमङ्गला । गजः सिंहो हयो द्विपो चतुर्णां पृथिवी-भुजाम् ॥ १ ॥ हंसादि-युक्ता विज्ञेया राज्ञा सैवाष्टमङ्गला । हंसः केकी शुकः चासो ब्रह्मादीनां यथाक्रमम् ॥ २ ॥ चामरादि-समायुक्ता सा ज्ञेया सर्व्ववुद्धिदा । चामरश्वास-पञ्चानि चित्रवस्त्रं तथा सितम् ॥ ३ ॥ चतुर्णां वेदनयन-पञ्चास्व (३) गणिताः क्रमात् । तदग्रे यदि विन्यस्तं पताका-द्वितयं भवेत् ॥ ४ ॥ द्वयं (४) हि सर्व्वतोभद्रा पताका चक्रवर्त्तिनः । तद्वर्णः पूर्व्ववज् ज्ञेयः प्रमाणं विधि-बोधितम् ॥ ५ ॥ कानकं राजतं ताम्रं नाना धातुमयं क्रमात् । कुम्भादिकं प्रशंसन्ति पताकाग्रे मही-भुजाम् ॥ ६ ॥ अत्रापि रत्न-विन्यासो विधेयो रजत-क्रमः । चतुर्भिर्मकराद्याद्यैर्मुक्ता चेत् सर्व्व-सिद्धिदा ॥ ७ ॥ तदाश्रेयस्करी नाम सा पताका विजायते । मकरोऽथ गजः सिंहः व्याघ्रो वाजी मृगः शुकः ॥ ८ ॥ शुचि (५) ष्वेति समुद्दिष्टमादित्यादि-दशाभुवाम् । इति प्रोक्तः पताकानां निर्णयः पृथिवी-भुजाम् ॥ ६ ॥ अन्येषामतिसंक्षेपात् पताका-लक्षणं शृणु । गभस्तिरथहस्तश्च तथा हस्तद्वयं क्रमात् ॥ १० ॥ यथोत्तरं द्विगुणितं पत्तौ दशगुणैः क्रमात् । एवं सहस्राधिपतेः पताका तौर्य्यहस्तिकी ॥ ११ ॥ ( ३ ) पञ्चन्व इति (ख) पुस्तक पाठः । ( ४ ) द्वदं (द्वमं) इति (ख) पुस्तक पाठः । ( ५ ) सूची इति (ग) पुस्तक पाठः

७० युक्तिकल्पतरौ— पताका सार्द्ध-दैर्घ्येण दण्डमानं प्रकीर्त्तितम् । वर्णादिकन्तु यत्किञ्चित् तत् सर्व्वं पूर्व्ववन्मतम् ॥ १२ ॥ दैर्घता लघुता चेति सपताक-ध्वजे गुणाः । अङ्कुशादिकमन्यच्च ध्वजाग्रे युक्तितोन्यसेत् ॥ १३ ॥ संक्षेपेनेति निर्दिष्टं पताका-विधि-लक्षणम् । एवं विमृश्य(ष्य) मतिमान् यः पताकां समाचरेत् ॥ १४ ॥ स प्राप्नोति श्रियं कीर्त्तिं कुलवीर्य्य-बलोन्नतिम् । पताकां पृथिवी-पालो योऽज्ञानादन्यथा चरेत् । स विषीदति संग्रामे मन्ददन्त (६) इव द्विपाः ॥ १५ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ सपताक-ध्वजयुक्तिः ॥ अथ निष्पताक-ध्वजः । पूर्व्ववद्दण्ड-नियमस्तव दैर्घ्ये विशेषणम् । दण्डपत्राणि पद्मञ्च कुम्भश्च विहगोमणिः ॥ १६ ॥ निष्पताको ध्वजो राज्ञां षड्भिरेतैः सुसज्जितैः । जयः कपालो विजयः चेत्रस्तत्र शिव-क्रमात् ॥ १७ ॥ राज्ञः पुरुषमानेन दण्डमानं प्रकीर्त्तितम् । ऊर्द्धाधः क्रमयोगेन तद्दण्डादिकमुच्यते ॥ १८ ॥ केकी चासो मत्स्यरङ्गः(ङ्गः) द्विविधानां महीभुजाम् । ध्वजाग्रेषु विधेयानि पत्राणि श्रियमिच्छताम् । पद्मं कुम्भश्च विहगो माला चैव यथाक्रमम् ॥ १६ ॥ (६) मन्द दण्डः इति (क)-(ग) पुस्तक पाठः

उपर्युपरितो देयं (७) निष्पताके महीभुजाम् । अष्ट-षोडश-द्वात्रिंशच्चतुःषष्टिदलाम्बुजम् ॥ २० ॥ वृत्ताष्ट-दिग्दलेशाश्व (म्बु:) कुम्भः सम्पत्ति-कारकः । हंसश्चाषः शुकःकेकी पक्षिणश्च यथाक्रमम् ॥ २१ ॥ वज्रञ्च पद्मरागञ्च नीलं वैदूर्य्यमेव च । ब्रह्म-क्षत्रिय-विट्-शूद्र जातीनां स्याद् यथाक्रमम् ॥ २२ ॥ कनकं रजतं युग्मं द्विविधानां महीभुजाम् । निष्पताक-ध्वजाङ्गादि निर्माणे योगमिष्यते ॥ २३ ॥ पताका यदि हस्तैका सर्वाग्रे योग्यवर्णिनी । अयं ध्वजो विशालाख्यो विज्ञेयश्चक्रवर्त्तिनः ॥ २४ ॥ तत्रैव चामरे योग्‍ये विज्ञेयाः सर्वसम्पदः । इति राज्ञां समुद्दिष्टमन्येषां ध्वज उच्यते ॥ २५ ॥ नोर्द्धं विंशति-हस्तेभ्यो नचार्वाग्दशहस्ततः । हस्त-हस्तैकसंङ्ख्या ध्वजो दशविधोमतः । २६ ॥ सहस्राधिप (८) मारभ्य यावत् स्यादयुताधिपः ॥ २७ ॥ न सहस्राधिपान्न्यूनो ध्वज-धारण मर्हति । अपि कोटिपते र्ज्ञेयो ध्वजो विंशति-हस्तकः ॥ २८ ॥ अत्रापि वर्ण-वस्त्रादि-निर्णयः पूर्ववन्मतः । स्थिरता चित्रता चेति निष्पताक ध्वजे गुणौ ॥ २६ ॥ यदेतदुभयं चिह्न उभयोः संप्रकाशितम् । तत्प्रमाण-ध्वजे ज्ञेयमप्रधानेन निर्णयः ॥ ३० ॥ (७) धेयम् इति (क) पुस्तक पाठः । (८) सहस्रादिकम् इति (ख) पुस्तक पाठः ।

७२ युक्तिकल्पतरौ— निष्पताक ध्वजोद्देशः प्रोक्तोऽयं भोज-भूभुजा । एतद्दिष्टस्य मतिमान् चिरं सुखमवाप्नुयात् ॥ ३१ ॥ यो दम्भादथवाऽज्ञानादिलङ्घयति मानवः । स विसीदति नश्येत तस्य कीर्त्तिःकुलं बलम् (ε) ॥ ३२ ॥ इति ध्वजयुक्तिः । अथोपकरण-युक्तिः । छत्र ध्वज सिंहासन यानादिभ्यो यदन्यत्स्यात् । राज्याङ्गं तदुपकरणं तस्माल्लोके विशेषास्तु ॥ ३३ ॥ तस्य [उपकरणस्य] गणना । चामरञ्चाथ भृङ्गारः चसकञ्च प्रसाधनोम् । वितानञ्चाथ शय्या च व्यजनं दर्पणाम्बरम् । एतन्नवकमुद्दिष्टं राजोपकरणाख्यया ॥ ३४ ॥ तत्र चामरोद्देशः । हस्तद्वयोन्नतः शुभ्रः सुवर्णवलि-भूषितः । हीरैरालङ्कृतो राज्ञां भव्यमाना सुखप्रदः ॥ ३५ ॥ वालचामर दैर्ध्याद्वा(त्वात्) आयामत्वं प्रकाशितम् । भव्यो भद्रो जयः श्रोलः (१०) सुख-सिद्धिश्चलः स्थिरः । वितस्त्येकैक सम्बृद्ध्या दिनेशादि-दशाभुवाम् ॥ ३६ ॥ ( ε ) कुलं मूलम् इति (ग) पुस्तक पाठः । ( १० ) शौलः इति (ग) पुस्तक पाठः ।

चामरयुक्तिः । ७३ सौवर्णं राजतं युग्मं त्रैदशानां महीभुजाम् । योजयेदिति निश्चित्य वलि-कल्पन कर्म्मणि ॥ ३७ ॥ स्थलजं जाङ्गलो राजा आनूपो जलजं वहेत् । हीरञ्च पद्मरागञ्च वैदूर्य्यं नील मेव च ॥ ३८ ॥ मणिवलिषु योक्तव्यो ब्रह्मादीनां यथाक्रमम् । शुक्लो रक्तोऽथ पीतश्च नानावर्णी यथाक्रमम् ॥ ३९ ॥ ब्रह्म-क्षत्रिय-विट्-शूद्र-जातीनाञ्च महीभुजाम् । चामरं राज-केशस्य न सामान्यस्य भूपतेः ॥ ४० ॥ न भव्यमानं तो न्यूनं चामरं गुणमावहेत् । * अथ चामरपरीक्षा । स्थलजं जलजञ्चेति चामरं द्विविधं विदुः ॥ ४१ ॥ मेरौ हिमालये विन्ध्ये कैलासे मलये तथा । उदयेऽस्तगिरौ चैव गन्धमादन पर्व्वते ॥ ४२ ॥ एवमेतेषु शैलेषु याश्चमर्यो भवन्ति हि । तासां वालस्य जायेत चामरेत्यभिधा भुवि ॥ ४३ ॥ आपीताः कनकाद्रिजा हिमगिरेः शुभ्रायता विन्ध्यजाः, कैलासादसिताः सिता मलयजाः शुक्लास्तथा पिङ्गलाः । आरक्ता उदयोद्भवा अस्तजा आनील-शुक्लत्विषः ; कृष्णाः केचन गन्धमादन भवाः पाण्डुत्विष-श्चामराः ॥४४॥ अन्येषु प्रायशः कृष्णा श्चामराः सम्भवन्ति हि । ब्रह्म-क्षत्रिय-विट्-शूद्र-जातयस्ता-श्चतुर्विधाः ॥ ४५ ॥ चमर्य्यः पर्व्वतोद्भूता यथापूर्वं गुणावहाः । दीर्घ-वालाः सुलघवः स्निग्धाङ्गाश्चापि कोमलाः ॥ ४६ ॥ १०

७४ युक्तिकल्पतरौ— विरला स्तनु-पर्वाणः चमर्य्यो ब्रह्म-जातयः । विना संस्कारमप्यासां चामरम्बिमलम्भवेत् ॥ ४७ ॥ दीर्घ-वालाः सुगुरवः कर्करांशा भृशं घनाः । तीक्ष्णाग्रास्तनुपर्वाण क्षमर्य्यः क्षेत्रजातयः ॥ ४८ ॥ विना संस्कारमप्यासां चामरं विमलं भवेत् । दीर्घ-वालाः सुगुरवः कर्करांशा भृशं घनाः ॥ ४६ ॥ विज्ञेयाः स्थूलपर्वाण क्षमर्य्यो वैश्यजातयः । संस्कारे चाप्यसंस्कारे न स्वभावं त्यजेदिद(य)म् ॥ ५० ॥ खर्बवालाः सुलघवः कोमलाङ्गा भृशं घनाः । ‘विज्ञेयाः स्थूलपर्वाण क्षमर्य्यो वैश्यजातयः ॥ ५१ ॥ संस्कारेण भवे(परि)च्छन्नं भवेन्मलिनमन्यथा(दा) । खर्व-वालाः सुगुरवो विमलाः कर्कशास्तथा’ ॥ ५२ ॥ चमर्य्य-स्तनु-पर्वाणो विज्ञेयाः शूद्र-जातयः । संस्कारेणापि मलिनमासां चामरमिष्यते ॥ ५३ ॥ दीर्घता लघुता चैव स्वच्छता घनता तथा । गुणाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः ॥ ५४ ॥ खर्व्वता गुरुता चैव वैवर्ण्यं मलिनाङ्गता । दोषाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः ॥ ५५ ॥ दीर्घे दीर्घायुराप्नोति लघौ भीति-विनाशनम् । स्वच्छः (१) स्याद्धन-कीर्त्तिभ्यां घने स्युः स्थिर-सम्पदः ॥५६॥ खर्वे खर्वायुद्दिष्टं गुरुर्गुरु-भयप्रदः । विरले रोग-शोकाभ्यां मलिनं मृत्युमादिशेत् ॥ ५७ ॥ इति स्थलजम् ( चामरम् ) ॥ ( १ ) स्वच्छे-स्यात् इति (ख) पुस्तक पाठः ।

चामरयुक्तिः । ७५ अथ जलजम् । लवणेक्षु सुरा सर्पिस्तोयो दधिपयोन्धिषु । यथोत्तरं गुणवहाश्चमर्थ्यः सप्तसप्तसु ॥ ५८ ॥ पुच्छानि तासां कृत्तानि (२) जन्तुभिर्मकरादिभिः । कदाचिदुपलभ्येत तत्तीरे पुण्य-शालिभिः ॥ ५९ ॥ लवणाब्धि-समुद्भूतं पोतं गुरु-घनस्तथा । वह्नौक्षिप्तस्य(ख) बालश्चेत् किञ्चिचट-चटायते ॥ ६० ॥ इक्षु-सिन्धूद्भवं ताम्रं चामरं विमलं लघु । मत्तिका मशकाश्चैव तस्मिन् व्यजति चामरे ॥ ६१ ॥ सुराब्धि-जातं कलुषं कर्बुरं गुरु-कर्कशम् । तद्गन्धेनैव मायन्ति (३) अपि वृक्षा मतङ्गजाः ॥ ६२ ॥ सर्पिःसिन्धूद्भवं स्निग्धं श्वेता-पीतं घनं लघु । वायुरोगाः प्रशाम