आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 183, कुल 292 में से
संदर्भ में पढ़ेंअष्टमः खण्डः ] अनाविलोपे तम् । १३१
पीतं वैश्यस्य ॥ १० ॥
पूर्ववदनुवृत्तिः ॥ १० ॥
तत् सहस्रसीतं कृत्वा यथादिक् समचतुरश्रं मापयेत् ॥ ११ ॥
तद्वास्तु सहस्रसीतं सहस्रहलकृष्टं कृत्वा । सहस्रशब्दो बह्वर्थः । यथादिक् यस्यां दिशि यस्य स्थानमुक्तं तदनुरूपम् । समचतुरश्रं सर्वासु दिक्षु समं मापयेत् ॥ ११ ॥
आयतचतुरश्रं वा ॥ १२ ॥
दीर्घचतुरश्रं वा मापयेद् वास्तु । अनेन वृत्तत्रिकोणादेः प्रतिषेधः ॥ १२ ॥
तच्छमीशाखयोदुम्बरशाखया च शन्तातीयेन त्रिः प्रदक्षिणं व्रजन् प्रोक्षति ॥ १३ ॥
तद्वास्तु शन्तातीयेन सूक्तेन । 'मत्तौ छः सूक्तसाम्नो-^१रि'त्येवं चेच्छप्रत्ययः, 'ईले द्यावापृथिवी' 'इदं ह नूनमेषाम्' 'उत देवा अवहितमि'त्येतेषामन्यतमस्य ग्रहणं प्राप्नोति तेषु शन्तातिशब्दस्य सत्त्वात् । 'याभिः शन्तातिः सा शन्तातिमयस्करत् । आत्वागमं शन्तातिरति शं न इन्द्राग्नी' इत्यस्य तु ग्रहणमित्युपदेशः । शब्दनिर्वाहस्तु यथाकथञ्चिदन्वेष्टव्यः । शं करोतीति शन्तातिः 'शिवशमारिष्टस्य कर' इति तातिल्प्रत्ययः । (शन्तातिग्रहणं ?) तस्मै हितं शन्तातीयमिति ।
१. 'रेव चोदयन् प्र' ख, 'रेव चोदयेच्छ' ग. पाठः.