बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 124, कुल 486 में से
संदर्भ में पढ़ें५२ बौधायन-धर्मसूत्रम् [ वृद्धिपरिमाणम्
गोरक्षकान् विप्रानधीतवेदानपि । एतेन क्षत्रियवैश्यावपि व्याख्यातौ । शूद्रवदाचरेत् । गोरक्षकादिब्राह्मणहिंसायामपि ब्रह्महत्या भवत्येव । साक्षिशपथे तावत् विशेषः—
सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ इति ॥
तथा दिव्येऽपि 'अग्निं जलं वा शूद्रस्य' इति ॥ २५ ॥
वृद्धिप्रयोगे तु स्वयमेव वक्ष्यति—
कामं तु परिलुप्तकृत्याय कदर्याय नास्तिकाय पापीयसे पूर्वौ दद्याताम् ॥ २६ ॥
**अनु०—**किन्तु प्रथम दो वर्णों अर्थात् ब्राह्मण और क्षत्रिय यदि चाहे तो धार्मिक कृत्यों को न करने वाले, कंजूस, नास्तिक और पापी व्यक्ति को इच्छानुसार ( अधिक ) वृद्धि पर धन दे सकते हैं ॥ २६ ॥
**टि०—**कदर्य से ऐसे व्यक्ति का निर्देश है जो धन होते हुए भी द्रव्यार्जन में रत है। वेद और ब्राह्मणों के निन्दक को नास्तिक कहा गया है । पापीयान् से गोविन्द स्वामी ने शूद्र अर्थ लिया है ।
परिलुप्तकृत्यो विच्छिन्नाचारः । कदर्यः सत्यपि द्रव्ये द्रव्यार्जनस्वभावः । नास्तिको वेदब्राह्मणनिन्दकः । पापीयान् शूद्रः । एतेभ्यो यथाकामं भूयस्यै वृद्धयै पूर्वौ वर्णौ ब्राह्मणक्षत्रियौ दद्याताम् । यः पुनस्स्मृतिषु ब्राह्मणस्य वार्धुष्यप्रतिषेधस्स कृतकृत्यविषयो द्रष्टव्यः ॥ २६ ॥
परिलुप्तक्रतुप्रसङ्गादन्यदुच्यते—
अयज्ञेनाऽविवाहेन वेदस्योत्सादनेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ २७ ॥
**अनु०—**यज्ञ न करने, शास्त्रानुसार विवाह न होने, वेदाध्ययन को उपेक्षित करने तथा ब्राह्मण का प्रतिक्रमण करने से उच्च कुल भी निकृष्ट हो जाते हैं ॥ २७ ॥
विवाहश्शास्त्रलक्षणभार्यापरिग्रहलाभः । वेदस्योत्सादनमनध्ययनम् अधीतवेदस्योपेक्षया वा नाशः । ब्राह्मणातिक्रमं तु शातातप आह—
प्रत्यासन्नमधीयानं ब्राह्मणं यस्त्वतिक्रमेत् ।
भोजनाच्चैव दानाच्च दहत्यासप्तमं कुलम् ॥ इति ।
कुलान्युत्कृष्टान्यपि निकृष्टतां यान्तीत्यर्थः ॥ २७ ॥