भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 135, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 135

एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः - ८३

अस्मिन् पक्षे परकीयमतेन दोषमाह— अथाऽप्युदाहरन्ति—

१ब्रह्मस्वं पुत्रपौत्रघ्नं विषमेकाकिनं हरेत् ।
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ॥
तस्माद्राजा ब्राह्मणस्वं नाऽऽददीत कदाचन ।
परमं ह्येतद्विषं यद्ब्राह्मणस्वमिति ॥ १४ ॥

अनु०— इस विषय में निम्नलिखित पद्य उद्धृत करते हैं—
ब्राह्मण की सम्पत्ति उसे ग्रहण करनेवाले को पुत्र, पौत्र के साथ नष्ट कर देती है, विष तो एक ही व्यक्ति के प्राण का हरण करता है । विष विष नहीं है, वस्तुतः विष तो ब्राह्मण की सम्पत्ति है । इस लिए राजा ब्राह्मण के धन को कदापि ग्रहण न करे, ब्राह्मण का धन परम विष होता है ॥ १४ ॥

राजग्रहणमुपलक्षणार्थम्, अन्यो वा ब्राह्मणस्वं नाऽऽददीत । न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । इयांस्तु विशेषः । २ब्रह्मस्वं पुत्रपौत्रघ्नं विषमेकाकिनं हरेत् ॥ १४ ॥

प्रसक्तानुप्रसक्तं परिसमाप्याऽधुना प्रकृतमुच्यते— जननमरणयोस्सन्निपाते समानो दशरात्रः ॥ १५ ॥

अनु०— यदि जन्म और मृत्यु दोनों एक साथ ही हों तो दोनों के लिए केवल एक ही बार दश (दिन एवं) रात्रि का आशौच होता है ॥ १५ ॥

सन्निपातस्समवायः । अन्तरेण निमित्तेन दशाहे वर्तमाने इतरस्याऽपि निमित्तस्य तत्राऽन्तःपातः । तथा चेत् पूर्वाशौचप्रयुक्ततन्त्रमध्यपातित्वादितरप्रसजति, न पृथग्दशरात्रं प्रयुङ्क्ते इत्यभिप्रायः । एवं त्र्यहादिष्वपि । तत्र भूयसा सहाऽल्पीयो गच्छति न त्वल्पीयसा भूयः । ३अपेक्षितप्रयुक्तिसांनिध्याभावात् । तत्र सजातीयस्यैव प्रसङ्ग इति केचित् । तथा च गौतमः—४‘तज्जातीयमेवाऽऽपतेत् तच्चेदन्तः पुनरापतेच्छेषेण शुद्धयेरन्’ ।


१. अत्र मूलपुस्तकेषु व्याख्यानपुस्तकेषु च परस्परं पाठेषु वैमत्यं दृश्यते । परन्तु अर्थतो भेदाभावात् कश्चन पाठः स्वीकृतः ।
२. विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकमिति ग. पु.
३. प्रेक्षावत्प्रवृत्तिसान्निध्याभावादिति घ. पु.
४. तच्चेदन्त इत्येतदाद्येव सूत्रम्. गौ. ध. पुस्तके ।