बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः - ८३
एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः - ८३
अस्मिन् पक्षे परकीयमतेन दोषमाह— अथाऽप्युदाहरन्ति—
१ब्रह्मस्वं पुत्रपौत्रघ्नं विषमेकाकिनं हरेत् ।
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ॥
तस्माद्राजा ब्राह्मणस्वं नाऽऽददीत कदाचन ।
परमं ह्येतद्विषं यद्ब्राह्मणस्वमिति ॥ १४ ॥
अनु०— इस विषय में निम्नलिखित पद्य उद्धृत करते हैं—
ब्राह्मण की सम्पत्ति उसे ग्रहण करनेवाले को पुत्र, पौत्र के साथ नष्ट कर देती है, विष तो एक ही व्यक्ति के प्राण का हरण करता है । विष विष नहीं है, वस्तुतः विष तो ब्राह्मण की सम्पत्ति है । इस लिए राजा ब्राह्मण के धन को कदापि ग्रहण न करे, ब्राह्मण का धन परम विष होता है ॥ १४ ॥
राजग्रहणमुपलक्षणार्थम्, अन्यो वा ब्राह्मणस्वं नाऽऽददीत । न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । इयांस्तु विशेषः । २ब्रह्मस्वं पुत्रपौत्रघ्नं विषमेकाकिनं हरेत् ॥ १४ ॥
प्रसक्तानुप्रसक्तं परिसमाप्याऽधुना प्रकृतमुच्यते— जननमरणयोस्सन्निपाते समानो दशरात्रः ॥ १५ ॥
अनु०— यदि जन्म और मृत्यु दोनों एक साथ ही हों तो दोनों के लिए केवल एक ही बार दश (दिन एवं) रात्रि का आशौच होता है ॥ १५ ॥
सन्निपातस्समवायः । अन्तरेण निमित्तेन दशाहे वर्तमाने इतरस्याऽपि निमित्तस्य तत्राऽन्तःपातः । तथा चेत् पूर्वाशौचप्रयुक्ततन्त्रमध्यपातित्वादितरप्रसजति, न पृथग्दशरात्रं प्रयुङ्क्ते इत्यभिप्रायः । एवं त्र्यहादिष्वपि । तत्र भूयसा सहाऽल्पीयो गच्छति न त्वल्पीयसा भूयः । ३अपेक्षितप्रयुक्तिसांनिध्याभावात् । तत्र सजातीयस्यैव प्रसङ्ग इति केचित् । तथा च गौतमः—४‘तज्जातीयमेवाऽऽपतेत् तच्चेदन्तः पुनरापतेच्छेषेण शुद्धयेरन्’ ।
१. अत्र मूलपुस्तकेषु व्याख्यानपुस्तकेषु च परस्परं पाठेषु वैमत्यं दृश्यते । परन्तु अर्थतो भेदाभावात् कश्चन पाठः स्वीकृतः ।
२. विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकमिति ग. पु.
३. प्रेक्षावत्प्रवृत्तिसान्निध्याभावादिति घ. पु.
४. तच्चेदन्त इत्येतदाद्येव सूत्रम्. गौ. ध. पुस्तके ।
८४ बौधायन-धर्मसूत्रम् [ आशौचविधिः
इत्युक्तवान्। तस्माज्जनने जननं मरणे मरणमिति निवेशस्सिद्धो भवति। आचार्यस्त्वनादृत्य तच्छब्दं जननमरणयोरिति वदन् विजातीयस्याऽपिप्रसङ्गं मन्यते ॥ १५ ॥
तत्र विशेषमाह—
अथ यदि दशरात्रास्सन्निपतेयुराद्यं दशरात्रमाशौचमा नवमाद् दिवसात् ॥ १६ ॥
अनु०— यदि दस ( दिन ओर ) रात्रि का आशौच काल के पूरा होने के पहले (दश दिन का या तीन रात्रियों का) दूसरा आशौच आ पड़े तो प्रथम आशौच काल ही दोनों के लिए आशौच काल होता है किन्तु ऐसी स्थिति में दूसरा आशौच कारण ( जन्म या मृत्यु ) प्रथम आशौच काल के नवें दिन से पहले ही घटित हुआ हो तभी दोनों के लिए पूर्ववर्ती आशौच काल पर्याप्त समझना चाहिये ॥ १६ ॥
आङत्राऽभिविधौ । यदि दशरात्रे वर्तमाने दशमादिवसादर्वाग्दशाहं त्रिरात्रादयो वा निपतेयुः तदा प्रक्रान्तस्य शेषेणैव शुद्धिर्भवतीत्यर्थः। दशमे चेदहनि सन्निपतेयुरन्यदाशौचं कल्प्यम् । तच्च गौतमवचनात् । स आह—'रात्रिशेषे द्वाभ्याम्, प्रभाते तिसृभिः' इति । प्रभाते प्रकर्षेण भाते दशमस्य उषःप्रभृति उदयादर्वाक् परिपात इत्यभिप्रायः । उदिते तु यथाप्राप्तमेव ॥ १६ ॥
जननमरणयोरित्युक्तं, तत्र निर्देशक्रमेण जनने तावद्विशेष उच्यते—
जनने तावन्माता पित्रोर्दशाहमाशौचम् ॥ १७ ॥
अनु०— जन्म के अवसर पर माता और पिता के लिए दस दिन का आशौच तो होता ही है ॥ १७ ॥
यदि सर्वे सपिण्डा वृत्तवन्तो भवेयुः तदा मातापित्रोरेव दशाहाशौचम् ॥ १७ ॥
अपि चेत्पिता वृत्तवान् तत्राऽऽह—
मातुरित्येके तत्परिहरणात् ॥ १८ ॥
अनु०— कुछ लोगों का मत है कि जन्म के अवसर पर आशौच केवल प्रसूतामाता के लिए ही होता है क्योंकि उसी से स्पर्शादि का परहेज रखा जाता है ॥ १८ ॥
यस्मात्प्रसूतिकां लोकः परिहरति तस्मात् तस्या एव जननाशौचं न जनकस्येति ॥ १८ ॥
एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ८५
एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ८५
पितुरित्यपरे शुक्लप्राधान्यात् ॥ १९ ॥
**अनु०—**अन्य लोगों का मत है कि इस अवसर पर पिता का ही आशौच होता है, क्योंकि सन्तानोत्पत्ति में पिता के वीर्य की ही प्रधानता होती है ॥ १९ ॥
न हि शुक्लमन्तरेण भवन्तीति ॥ १९ ॥
ननु क्षेत्रमन्तरेणाऽपि प्रजा न भवन्तीत्याशङ्कयाऽऽह—
अयौनिजा ह्यपि पुत्राश्श्रूयन्ते ॥ २० ॥
**अनु०—**क्योंकि श्रुति में अयोनिज ( माता के गर्भ से न उत्पन्न होने वाले ) पुत्रों का उल्लेख है ॥ २० ॥
टि०— यथा अगस्त्य, वसिष्ठ। उर्वशी को देखकर मित्रावरुण देवो का वीर्यं वासतीवर नामके यज्ञ-कलश में गिरा जिससे अगस्त्य और वसिष्ठ उत्पन्न हुए ।
इस कथा के विषय में सायणाचार्य ने निम्नलिखित श्लोक उद्धृत किये हैं।
तयोरादित्ययोस्सत्रे दृष्ट्वाऽप्सरसमुर्वशीम् ।
रेतश्चस्कन्द तत्कुम्भे न्यपतत् वासतीवरे ॥
तेनैव तु मुहूर्तेन वीर्यवन्तो तपस्विनौ ।
अगस्त्यश्च वसिष्ठश्च तत्रर्षी सम्बभूवतुः ।
बहुधा पतितं रेतः कलशे च जले स्थले ॥
स्थले वसिष्ठस्तु मुनिस्सम्भूत ऋषिसत्तमः ।
कुम्भे त्वगस्त्यस्सम्भूतो जले मत्स्यो महाद्युतिः ॥
उदियाय ततोऽगस्त्यः शम्यामात्रो महातपाः ।
अगस्त्यवसिष्ठादयः । तथा हि—'मित्रावरुणयोर्दीक्षितयोरुर्वशीमप्सरसं
१. तयोरगस्त्यवसिष्ठयोराख्यायिकावेदकाः श्लोकाः सायणाचार्यैरेवमुदाहृताः-
तयोरादित्ययोस्सत्रे दृष्ट्वाऽप्सरसमुर्वशीम् । रेतश्चस्कन्द तत्कुम्भे न्यपतत् वासतीवरे । तेनैव तु मुहूर्तेन वीर्यवन्तो तपस्विनौ । अगस्त्यश्च वसिष्ठश्च तत्रर्षी सम्बभूवतुः । बहुधा पतितं रेतः कलशे च जले स्थले । स्थले वसिष्ठस्तु मुनिस्सम्भूत ऋषिसत्तमः । कुम्भे त्वगस्त्यस्सम्भूतो जले मत्स्यो महाद्युतिः । उदियाय ततोऽगस्त्यः शम्यामात्रो महातपाः । इति ।
**मन्त्रस्याऽयमर्थः—**उत अपि च हे वसिष्ठ त्वं मैत्रावरुणः मित्रावरुणयोः पुत्रोऽसि । हे महान् ! वसिष्ठ उर्वश्याः तन्नाम्न्या अप्सरसः सम्बन्धिनो मनसोऽधि जातः । मित्रावरुणयोरुर्वशीविषयकान्मानससङ्कल्पाज्जात इत्यर्थः । विश्वे देवाः कलशे स्कन्नं रेतरूपं त्वा पुष्कराख्ये स्थाने दैव्येन देवसम्बन्धिना ब्रह्मणा वेदराशिनाऽधारयन् इति ॥
| ८६ | बौधायन-धर्मसूत्रम् | [ आशौचविधिः |
|---|
दृष्ट्वा वासतीवरे कलशे रेतो न्यपतत् । ततोऽगस्त्यवसिष्ठावजायेतामिति । तदेतदृचाऽभ्युक्तम्— 'उताऽसि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधिजातः । द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ॥ इति ॥ २० ॥ अतस्स्वमतमेवोपसंहरति—
मातापित्रोरेव तु संसर्गसामान्यात् ॥ २१ ॥
अनु०— किन्तु अन्तिम मत यही है कि माता और पिता दोनों के लिये आशौच होना चाहिए, क्योंकि सन्तानोत्पत्ति में दोनों का समान संसर्ग होता है ॥ २१ ॥
संसर्गः सम्बन्धः प्रजोत्पत्त्युपायभूतः । स चोभयोस्समानो यस्मात् ॥२१॥
अधुना क्रमप्राप्ते मरणे सत्युदकक्रियाप्रयोगक्लृप्तिरुच्यते—
मरणे तु यथाबालं पुरस्कृत्य यज्ञोपवीतान्यपसव्यानि कृत्वा तीर्थमवतीर्य सकृत्सकृत् त्रिर्निमज्ज्योत्तीर्याऽऽचम्य तत्प्रत्ययमुदकमासिञ्चाऽत एवोत्तीर्याऽऽचम्य गृहद्वार्यङ्गारमुदकमिति संस्पृश्याऽक्षारलवणाशिनो दशा॒हं कटमासीरन् ॥ २२ ॥
अनु०— मृत्यु के समय मृत के सम्बन्धी अवस्था के अनुसार कम आयु वालों को आगे कर, यज्ञोपवीत को दाहिने कन्धे के ऊपर (तथा बायीं भुजा के नीचे) कर, घाट पर जल में उतरें। एक-एक कर तीन बार डुबकी लगायें, जल से निकल कर आचमन करें और मृत व्यक्ति को उद्दिष्ट कर जल प्रदान करें। फिर किनारे पर आकर आचमन करें, अपने घर के द्वार पर अङ्गार, जल आदि इसी प्रकार की वस्तु का स्पर्श कर दश दिन तक क्षार, नमक आदि का भोजन न करते हुए चटाई पर सोयें ॥ २२ ॥
टि०— 'सकृत् सकृत्' से यह तात्पर्य है कि जल में डुबकी लगाने, जल से निकलने
१. अयमर्थ एतत्प्रोपरितनमन्त्रेणाऽपि स्पष्टं प्रतिपाद्यते—
सत्रे ह जाता विषिता नमोभिः कुम्भे रेतस्सिषिचतुस्समानम् ।
ततो ह मान उदियाय मध्यात्ततो जातपृषिमाहुर्वसिष्ठम् ॥
ऋ. सं. ५. ३. २४. ३.
ज्योतिष्टोमादिषु सोमयागेषु अभिषवकाले आसेचनार्थं अभिषुतस्य सोमरसस्याऽल्पत्वात् तेन सह मेलनार्थं च नद्यादितीर्थेभ्य आहृत्य कुम्भेषु आपस्संरक्ष्यन्ते । ता वसतीवर्य इत्युच्यन्ते । यत्र तास्सन्ति स कुम्भो वासतीवरः ॥ मानः अगस्त्यः ।
एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ८७
आचमन करने तथा उदकाञ्जलि देने के कार्य अलग-अलग तीन बार किये जायेंगे। 'अङ्गारमुदकमिति' में इति से गोबर पीले सरसो आदि का भी ग्रहण हो जाता है, जिसका उल्लेख याज्ञवल्क्य ने किया है। प्रायश्चित्ताध्याय—
इति संस्पृश्य गच्छेयुर्गृहं बालपुरःसराः।
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः॥ १२॥
आचम्याग्न्यादिसलिलं गोमयं गौरसर्षपान्।
प्रविशेयुः समालभ्य कृत्वाऽश्मनि पदं शनैः ॥ १३॥
(मेरे अनुवाद सहित संस्करण, पृ० ४०१ चौखम्भा प्रकाशन)
यथाबालं यो यो बालस्तं तं पुरस्कृत्य कनिष्ठप्रथमा इति यावत्। अपस-
व्यानि अप्रदक्षिणानि प्राचीनावीतानि कृत्वा। कथं यज्ञोपवीतानि भवन्ति
चेत् ? भूतगत्येति ब्रूमः। अन्यत्राऽपि प्रेतकृत्येष्वेवमेव भवितव्यम्। सकृद्-
ग्रहणं प्रतिनिमज्जनोन्मज्जनं उत्तीर्योत्तीर्येत्यर्थः। तत्प्रत्ययं प्रेतप्रत्ययं प्रेतं प्रत्याय्य
प्रेतस्य नामग्रहणपूर्वकं तदुद्देशं कृत्वेत्यर्थः। प्रत्ययमित्याभीक्ष्ण्ये णमुल्प्रत्ययो
द्रष्टव्यः। गृहप्रवेशावस्थायां पुनर्गृहद्वारे अङ्गारमुदकं च संस्पृश्य बालपुरस्सराः
गृहं प्रविशेयुः। इतिशब्देन प्रकारवाचिना स्मृत्यन्तरेणोक्तं समुच्चिनोति।
एवं हि याज्ञवल्क्य आह—
आचम्याऽग्न्यादिसलिलं गोमयं गौरसर्षपान्।
विदश्य निम्बपत्राणि गृहान् बालपुरस्सराः ॥
प्रविशेयुस्समालब्ध्य कृत्वाऽश्मनि पदं शनैः॥ इति ॥
ततः प्रभृति दशाहमक्षारलवणाशिनो भवेयुः। यावदाशौचं कटे तृणप्रस्तरे आसीरन् उपविशेयुः। पिण्डदानमपि प्रतिदिवसं कार्यम् ॥ २२ ॥
एकादश्यां द्वादश्यां वा श्राद्धकर्म ॥ २३ ॥
अन्०—ग्यारहवें अथवा बारहवें दिन श्राद्धकर्म करे॥ २३॥
कुर्युरिति शेषः। योऽप्ययमेकोद्दिष्टादेः ज्योतिषशास्त्रे कालो विहितः सोऽ-
निष्क्रान्ततत्कालस्य वेदितव्यः॥ २३॥
शेषक्रियायां लोकोऽनुरोद्धव्यः ॥ २४ ॥
अन्०—शेष क्रियाओं को करते समय लोक-नियमों का ही अनुसरण करना
चाहिए ॥ २४॥
अत्राऽपि प्रेतस्य शेषक्रियायाः कर्त्तव्यायाः लोको महाजनः अनुरोधव्यः।
नग्नप्रच्छादनश्राद्धं दाहादिषु। अत्राऽपि न केवलं दाहक्रियायामेव। तत्र हि
बहुशब्दे उदकमुक्तं, यच्चातः स्त्रिय आहुस्तत्कुर्वन्ति' इति। तथाऽन्यैरप्युक्तं
'स्त्रीभ्यस्सर्ववर्णैभ्यश्च धर्मशेषान् प्रतीयात्' इति ॥ २४ ॥
८८ बौधायन-धर्मसूत्रम् [ आशौचविधिः
अत्राऽप्यसपिण्डेषु यथाऽऽसन्नं त्रिरात्रमहोरात्रमेकाहमिति कुर्वीत ॥ २५ ॥
अनु०— इस स्थिति में जो सपिण्ड न हों उनमें भी संबन्ध की निकटता के अनुसार तीन दिन-रात्रि, एक दिन-रात्रि अथवा एक दिन का या उससे कम समय का आशौच होता है ॥ २५ ॥
टी०— इस विषय में गौतम धर्मसूत्र में भी असपिण्डों के लिये पक्षिणी आशौच (दो दिन और उनके मध्य की रात्रि, या दो रात्रियां और उनके मध्य के दिन) होता है । 'असपिण्डे योनिसंबन्धे सहाध्यायिनि च' इत्यादि २.५.१८ देखिये मेरे अनुवाद सहित संस्करण, चोखम्बा प्रकाशन, पृ० १४८
साम्प्रतं सपिण्डाशौचं कर्तव्यम् । तन्न तावत्समानोदकाशौचमुच्यते—इतिकरणात् सद्यशौचम् । अहोरात्रशब्देन पक्षिण्युपक्षिप्ता । वृत्तस्वाध्यायापेक्षश्चाऽयं विकल्पः । वृत्तनिमित्तानि चाऽध्ययनविज्ञानानि कर्माणीति द्वयेकगुणनिर्गुणानां व्युत्क्रमेणैते पक्षा भवन्ति ॥ २५ ॥
आचार्योपाध्यायतत्पुत्रेषु त्रिरात्रं^१ पक्षिण्येकाहम् ॥ २६ ॥
अनु०— आचार्य, उपाध्याय और उनके पुत्रों की मृत्यु पर क्रमशः तीन रात और दिन का पक्षिणी (दो रात्रि और मध्यवर्ती दिन, या दो दिन और मध्यवर्ती रात्रि), तथा एक दिन का आशौच होता है ॥ २६ ॥
टी०— मूल पुस्तकों में 'पक्षिण्येकाहम्' पाठ नहीं है । गोविन्द स्वामी की प्रति में यही पाठ है, जिसके अनुसार उन्होंने व्याख्या की है । गौतम धर्मसूत्र में आचार्य, आचार्यापत्नी, यजमान और शिष्य की मृत्यु पर तीन दिन का आशौच विहित है । २.५.२६, पृ० १५१ पर ।
आचार्ये प्रेते त्रिरात्रम् । उपाध्याये पक्षिणी । तयोः पुत्रेष्वेकाहम् ॥ २६ ॥
ऋत्विजां च ॥ २७ ॥
अनु०— ऋत्विज् की मृत्यु पर भी तीन दिन और रात्रि का आशौच होता है ॥ चशब्दाद्याज्यस्य च । त्रिरात्रमृत्विजां च ॥ २७ ॥
शिष्यसतीर्थसब्रह्मचारिषु त्रिरात्रमहोरात्रमेकाहमिति कुर्वीत ॥२८॥
अनु०— शिष्य, समान गुरुवाले, साथ ब्रह्मचर्य जीवन व्यतीत करने वाले की
१. पक्षिण्येकाहमिति नाऽस्ति मूलपुस्तकेषु सर्वेष्वपि ।
एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ८९
एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ८९
मृत्यु पर तीन दिन-रात्रि का, एक दिन-रात्रि का या एक दिन का या उससे भी कम का आशौच होता है ॥ २८ ॥
टि०—तीर्थ का अर्थ है गुरु, सतीर्थ से एक ही गुरु वाले अर्थ लिया गया है 'समानो गुरुः यस्य इति' । ब्यूह्लर ने इसके दूसरे प्रकार के अर्थ एक ही उपाध्याय से विद्या ग्रहण करने वाले, का निर्देश कर, पाणिनि ४.४.१०७ की काशिका वृत्ति का सन्दर्भ दिया है ।
अत्राऽपि त्रिरात्रमहोरात्रं पक्षिणीति । तीर्थशब्देन गुरुरुच्यते समानो गुरुर्यस्येति विग्रहः । सब्रह्मचारी सहाध्यायी । एषु मृतेषु यथोक्तं त्रिरात्रादिर्भवति ॥ २८ ॥
गर्भस्रावे गर्भमाससम्मता रात्रयः स्त्रीणाम् ॥२९ ॥
अनु०—गर्भस्राव होने पर जितने मास का होकर गर्भ स्रुत हुआ हो उतने दिन और रात्रियों का आशौच स्त्रियों ( उस स्त्री ) के लिए होता है ॥ २९ ॥
त्रिमासे गर्भस्स्रुतो भवति यदि तावन्त्यहोरात्राणि । एवं चतुर्थादिष्वपि । स्त्रीग्रहणात् जननादर्वाक् वृत्ते न पुरुषस्याऽऽशौचम् ॥ २९ ॥
परशवोपस्पर्शनेऽनभिसन्धिपूर्वं सचेलोऽपः स्पृष्ट्वा सद्यश्शुद्धो भवति ॥ ३० ॥
अनु०—विना जाने-बूझे दूसरे के शव को छू देने पर पहनें हुए वस्त्रों के साथ स्नान करने पर तत्काल शुद्ध हो जाता है ॥ ३० ॥
टि०—'परशव' से असपिण्ड के शव से तात्पर्य है । अभिसन्धि का अर्थ है 'जान-बूझ कर, इच्छापूर्वक अनभिसन्धि'—विना ज्ञान के । यहाँ जल के स्पर्श से जल में स्नान का अर्थ लिया जायगा । गौतम ने भी वस्त्रों सहित स्नान का नियम बताया है 'पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचैलोदकोपस्पर्शनाच्छुद्ध्येत् । २.३.२८. पृ० १५१ पर ।
परशवः असपिण्डशवः । कथम् ? असवर्णशवस्पर्शने वहने चोभयत्राऽऽशौचान्तरविधानात् । अभिसन्धिः कामः, तदभावोऽनभिसन्धिः । अपां स्पर्शनमवगाहनम् । तत्सद्य एव कुर्वीत, न विलम्बयेत् ॥ ३० ॥
अभिसन्धिपूर्वं त्रिरात्रम् ॥ ३१ ॥
अनु०—जान बूझ कर शव का स्पर्श करने पर तीन दिन तथा रात्रि का आशौच होता है ॥ ३१ ॥
अनन्तरोक्तविषय एव ॥ ३१ ॥
९० बौधायन-धर्मसूत्रम् [ रजस्वलाव्रतानि
ऋतुमत्यां च ॥ ३२ ॥
अनु०— रजस्वला स्त्री के स्पर्श पर भी उपर्युक्त नियम समझना चाहिये ॥३२॥
टि०— रजस्वला स्त्री के स्पर्श पर भी अनजान में स्पर्श का तथा जान बूझ कर स्पर्श के अनुसार अशुद्धिकाल का नियम समझना चाहिए।
ऋतुमती रजस्वला । तत्स्पर्शेऽपि अभिसन्ध्यनभिसन्धिकृतो विभागो ^१वेदितव्यः । चशब्दस्तत्स्पृष्टिन्यायानुकर्षणार्थः । आह च मनुः—
दिवाकीर्त्यमुदक्यां च पतितं सूतिकां तथा ।
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥ इति ॥
दिवाकीर्त्यश्चण्डालः । अत्राऽयं विशेषः—अबुद्धिपूर्वे संस्पर्शे द्वयोस्स्नानम् । बुद्धिपूर्वे तु त्रयाणामिति केचित् ॥ ३२ ॥
^२"यस्ततो जायते सोऽभिशस्त" इति व्याख्यातान्यस्यै व्रतानि ॥३३॥
१. भवेदिति ग. पु.
२. 'यस्ततो जायते सोऽभिशस्तो यामरण्ये तस्यै स्तेनो यां पराचीं तस्यै ह्रीतमुख्य-प्रगल्भो या स्नाति तस्या अप्सु मारुको याऽभ्यङ्क्ते तस्यै दुश्चर्माया प्रलिखते तस्यैखल-तिरपस्मरी याऽऽङ्क्ते तस्यै काणो या दतो धावते तस्यै श्यावदन या नखानि निकृन्तते तस्यै कुनखी या कृणत्ति तस्य क्लीबो या सृजति तस्या उद्बन्धुको या पर्णेन पिबति तस्या उन्मादुको या शर्वेण पिबति तस्यै खर्वस्तिस्रो रात्रीर्व्रतं चरेदञ्जलिना वा पिबेदश्मर्येण वा पात्रेण प्रजागैं गोपीथाय' ॥ तै. सं. २. १. इति तैत्तिरीय-संहितायां द्वितीयकाण्डे पञ्चमप्रपाठकेऽग्नीषोमीयपुरोडाशयागविधानार्थे वृत्रासुरवध-रूपोपाख्यानवर्णनाय प्रवृत्ता श्रुतिः ततः पूर्वं इन्द्रस्य वृत्रहनने प्रवृत्तिहेतुदिदर्श-यिषयाऽऽख्यायिकां प्रदर्शयति । सा चेत्थम्—विश्वरूपो नाम त्वष्टुः पुत्रो देवानां पुरोहित आसीत् । सोऽसुराणां भागिनेयः । अतस्स सर्वेषु कर्मसु प्रत्यक्षेण देवानां हविर्दापयन् परोक्षतया रहस्यसुरेभ्योऽपि स्वमातुलेभ्यो दापयामास । तदिन्द्रो विज्ञाय तस्य शिरांस्यच्छेद । तस्य च ब्राह्मणत्वेन समनन्तरमेवेन्द्रं ब्रह्महत्याऽऽविवेश । तेन चाऽत्यन्तं बिभ्यदिन्द्रः स्वीयां ब्रह्महत्यां परिहर्तुकामस्तां त्रिधा विभज्यैकं तृतीयांशं पृथिव्यामाधातुमैच्छत् । साऽपि संवत्सरादर्वाक् स्वखातपरिपूरणं प्रतिवरं ततः प्राप्य तं तृतीयांशं स्वीचकार । स एवोषरं स्थानमभवत् ।
एवं वृक्षा अपि संवत्सरादर्वाक् स्वेषां च्छिन्नप्रतिरोहणं प्रतिवरं लब्ध्वा ब्रह्म-हत्यांशं प्रत्यगृह्णन् । स निर्यासरूपेण परिणमत् ।
तथा स्त्रियोऽपि यावत्प्रसूति पुरुषसंगसहिष्णुतारूपं प्रतिवरं ततो लब्ध्वा ब्रह्म-हत्यांशं स्वीचक्रुः । स एव तासां मासिकं रजस्तमभूत् । यतस्तद् ब्रह्महत्यारूपम्, अतो
एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ९१
एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ९१
अनु०—'जो रजस्वला स्त्री से पुत्र उत्पन्न होता है वह अभिशस्त कहा गया है' इसकथन के साथ रजस्वला स्त्री के व्रतों की व्याख्या की गयी है ॥ ३३ ॥
टि०—"यस्ततो जायते सोऽभिशस्तः" द्वारा तैत्तिरीय संहिता २.५. १ की ओर संकेत किया गया है, जिसमें रजस्वला स्त्री के विविध निषिद्ध कार्य करने पर उत्पन्न सन्तान में विविध शारीरिक दोषों का उत्पन्न होना निर्दिष्ट है ।
'यस्ततः' इत्यादिना 'प्रजायै गोपीथाय' इत्येवमन्तेन ब्राह्मणवाक्येन रजस्वलाया व्रतान्युक्तानि । तानि तया परिपालनीयानीत्यर्थः । तथा च वसिष्ठः—'त्रिरात्रं रजस्वलाऽशुद्धिर्भवैत् ! इत्येवमादिना प्रपञ्चितवान् ॥ ३३ ॥
वेदविक्रयिणं यूपं पतितं चितिमेव च ।
स्पृष्ट्वा समाचरेत्स्नानं श्वानं चण्डालमेव च ॥ ३४ ॥
वेद का विक्रय करने वाले व्यक्ति, यज्ञ के यूप, पतित, चिता, कुत्ता तथा चण्डाल का स्पर्श करने पर स्नान करे ॥ ३४ ॥
टि०—वेदविक्रय स्वर्ण आदि लेकर वेदप्रदान । पतित के उल्लेख से उपपातक से दूषित व्यक्तियों का भी अर्थ लिया जायगा ।
हिरण्यादिग्रहणपूर्वकं वेदप्रदानं बिक्रयो लक्षणया । चितियूपयोस्त्वपवृत्ते प्रयोगे स्पर्शनम् । पतितग्रहणमुपपातकानामप्युपलक्षणम् । श्वग्रहणं च सृगालादीनाम्, चण्डालग्रहणं प्रतिलोमानाम् ॥ ३४ ॥
रजस्वल्या संव्यवहारादिकं न कार्यम् । यदि तया सह सङ्गच्छेत तदा अभिशस्तादयः पुत्रा जायेरन् । या वा अभ्यञ्जनादिकं करोति अस्या दुश्चर्मादयस्सुता उत्पद्येरन् । अतः प्रजासंरक्षणार्थं पूर्वनिहस्तकर्माण्यकुर्वाणा दिनत्रयं व्रतमनुतिष्ठेदिति ।
वाक्यस्याऽयमर्थः—'यस्ततः' इत्यतः पूर्वं "यां मलवद्वाससं सम्भवन्ति" इति वाक्यम् मलवद्वासा रजस्वला । यदि रजस्वलां गच्छेत् पुरुषः, ततो यः पुत्र उत्पद्यते सः अभिशस्तादिर्भवतीति अभिशस्तो मिथ्यापवादग्रस्तः । अत्र सर्वत्राऽपि "तस्यै" इति षष्ठ्यर्थे चतुर्थी । अरण्ये तद्गमने तस्याः पुत्रः स्तेनो जायते । या पराङ्मुखी तस्याः पुत्रस्समायाँ ह्रीमान् । प्रथमदिनत्रयमध्ये स्नानेऽप्सु मरणशीलः, अभ्यञ्जने कुष्ठी, चित्रादिविलेखने केशहितः ( खल्वाटः ) अक्षणोरञ्जने काणः, दन्तधावने मलिनदन्तः, नखनिकृन्तने कुनखः, तृणादिच्छेदने ( क्लीबः ) षण्डः, रज्जुनिर्माणे उद्वन्धनमरणवान्, ह्रस्वपात्रेण पाने ह्रस्वकायश्च पात्रेणोदकपाने उन्मत्तः । अत उत्पत्स्यमानप्रजासंरक्षणायैव दिनत्रयावधिकमेतद् व्रतं रजस्वलायाऽवश्यमनुष्ठेयमिति ॥ अयमर्थो वासिष्ठेऽपि धर्मसूत्रे यथावत् स्पृष्टः ( cf वसिष्ठ. ध. अ. ५. ) तत्राऽपि द्रष्टव्यः ।
९२ बौधायन-धर्मसूत्रम् [ व्रणप्रायश्चित्तम्
ब्राह्मणस्य व्रणद्वारे पूयशोणितसम्भवे ।
क्रिमिरुत्पद्यते तत्र प्रायश्चित्तं कथं भवेत् ॥३५॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
त्र्यहं स्नात्वा च पीत्वा च क्रिमिदष्टः शुचिर्भवेत् ॥३६॥
यदि ब्राह्मण के मवाद और रक्त से भरे चोट या फोड़े पर क्रिमि उत्पन्न हो जाय तो उसका प्रायश्चित्त किस प्रकार से किया जायगा ? क्रिमि उत्पन्न होने पर गाय का मूत्र, गाय का गोबर, दूध, दधि, घृत, कुश के साथ ( उबाले गये ) जल तीन दिन स्नान कर पीने पर शुद्ध होता है ।
टि०— सूत्र में 'क्रिमिदष्टः' है । गोविन्द स्वामी के अनुसार यह नियम केवल क्रिमि के काटने पर ही नहीं, अपितु अपने शरीर में उत्पन्न क्रिमि के काटने पर है । अथवा यह प्रायश्चित्त फोड़े या चोट पर क्रिमि उत्पन्न होने की स्थिति में विहित है ।
नैतत्क्रिमिदंशनमात्रे चोद्यते । क्व तर्हि ? स्वशरीरोत्पन्नक्रिमिदंशे । इत-
-रथा प्रश्नोत्तरानुपपत्तेः । यद्वा—व्रणद्वारे क्रिमीणामुत्पत्तिमात्रे एतत्प्रायश्चित्तम्,
न दंशने ॥ ३५-३६ ॥
शुनोपहतस्सचेलोऽवगाहेत ३७ ॥
**अनु०—**कुत्ते के छू देने पर वस्त्रों को पहने हुए स्नान करे ॥ ३७ ॥
शुनोपहतः शुना स्पृष्टः नाभेरूर्ध्वमिति शेषः ॥ ३७ ॥
अथ वाऽऽह—
प्रक्षाल्य वा तं देशमग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ चाऽऽ-
चम्य प्रयतो भवति ॥ ३८ ॥
अथवा जिस अंग का कुत्ते ने स्पर्श किया हो उसे धोकर फिर उसे अग्नि से स्पर्श कराये, पैरों को धोकर आचमन करने पर शुद्ध होता है ॥ ३८ ॥
**टि०—**गोविन्द स्वामी ने उपर्युक्त वस्त्र सहित स्नान का नियम उस अवस्था के लिए बताया है जब कुत्ते ने नाभि से ऊपर स्पर्श किया हो । गौतम ने भी कुत्ते के स्पर्श पर वस्त्र सहित स्नान का प्रायश्चित्त बताया है, २. ५. ३०, पृ० १५३ ।
किन्तु अन्य आचार्यों का मत भी उद्धृत किया है जिनके अनुसार जिस अंग को छुए हों उसे धोने से ही शुद्धि हो जाती है यदुपहन्यादित्येके २. ५. ३१.
संभवतः गोविन्द स्वामी ने नाभि से ऊपर स्पर्श पर वस्त्रसहित स्नान का नियम जातूकर्ण्य की इस व्यवस्था के आधार पर निर्दिष्ट किया हो—
एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ९१
एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ९१
ऊर्ध्वं नाभेः करो मुक्त्वा स्पृशत्यङ्गं खरो यदि ।
स्नानं तत्र विधातव्यं शेषे प्रक्षाल्य शुध्यति ॥
कुत्रचिदिदं प्रायश्चित्तं भवति ? स्नानाशक्तौ वा पादौ प्रक्षाल्य पुनराचामेदिति सम्बन्धः ॥ ३८ ॥
शुना दष्टस्य कथमित्यत आह—
अथाऽप्युदाहरन्ति—
शुना दष्टस्तु यो विप्रो नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥
सुवर्णरजताभ्यां वा गवां शृङ्गोदकेन वा ।
नवैश्च कलशैस्स्नात्वा सद्य एव शुचिर्भवेत् ॥ ३९ ॥
इस विषय में निम्न लिखित पद्य भी उद्धृत किये जाते हैं—
जिस ब्राह्मण को कुत्ते ने काट लिया हो वह समुद्र में मिल जाने वाली नदी में स्नान कर, सौ बार प्राणायाम कर घी का भक्षण करने पर शुद्ध होता है । अथवा सोने या चाँदी के बर्तनों में लाये गये या गाय के सींग में लाये गये जल से अथवा मिट्टी के नये घड़ों में लाये गये जल से स्नान करने पर तत्काल शुद्ध हो जाता है ।
श्वाधिकारेपुनः श्वग्रहणं श्वापदादीनां प्रदर्शनार्थम् । नदीं गत्वा स्नात्वा चेति शेषः । सुवर्णरजतेति । इदमपि शुना दष्टस्यैव । कनकराजतनिर्मितेन पात्रेण नवैश्च मृन्मयैर्वा कलशैः स्नानमेकः कल्पः । गवां शृङ्गोदकेन नवैश्च कलशैरित्यपरः ॥ ३९ ॥
इति बौधायनीये धर्मसूत्रे प्रथमप्रश्ने एकादशः खण्डः ॥ ११ ॥
पञ्चमाध्याये द्वादशः खण्डः
एवं तावत्प्राणिविशेषैर्दष्टस्य प्रायश्चित्तमुक्तम् । अथेदानों प्राणिविशेषे¹ भक्षणं प्रतिषेधति—
अभक्ष्याः पशवो ग्राम्याः ॥ १ ॥
¹ १. भक्षणप्रतिषेधमाह ग. पु.
९४ बौधायन-धर्मसूत्रम् [ अभक्ष्याः
अनु०— ग्राम्य (पालतू) पशु अभक्ष्य होते हैं ॥ १ ॥
सप्त ग्राम्याः पशवः गोश्वाजाविकं पुरुषश्च गर्दभश्च उष्ट्रस्सप्तमोऽश्वमुष्ट्रैके ब्रुवते ॥ १ ॥
क्रव्यादारशकुनयश्च ॥ २ ॥
अनु०— मांसभक्षी पशु ओर (पालतू) पक्षी अभक्ष्य होते हैं ॥ २ ॥
टि०— क्रव्यादाः = मांसभक्षी का संबन्ध 'शकुनयः' के साथ भी लिया जा सकता है। सूत्र में 'च' के प्रयोग के आधार पर गोविन्द स्वामी 'शकुनयः' के साथ भी 'ग्राम्याः' पद को ग्रहण करते हैं। इस प्रकार यहाँ पालतू पक्षियों से तात्पर्य है।
क्रव्यं मांसं तददन्तीति क्रव्यादाः। शकुनयः काकाः शकुन्ता वा ग्राम्यानुकर्षणार्थश्चकारः। एतेषां भक्ष्यत्वेन कामतः प्राप्तानां प्रतिषेधः। तथा च श्रुतिः—'स होवाच किं मेऽन्नं भविष्यतीति' इति मुख्यप्राणेन पृष्टे ऊचुः 'यत्किञ्चिदिदमाश्वभ्य आशकुनिभ्य इति होचुः' इति आह च मनुः—
प्राणस्याऽन्नमिदं सर्वं प्रजापतिरकल्पयत् ॥ इति ॥
अतस्सर्वमिदं भक्ष्यत्वेन प्राप्तं तन्निवारणार्थे प्रकरणारम्भः ॥ २ ॥
तथा कुक्कुटसूकरम् ॥ ३ ॥
अनु०— इसी प्रकार (ग्राम्य) कुक्कुट और सूकर का मांस अभक्ष्य होता है ॥ ३ ॥
टि०— यहाँ 'तथा' से 'ग्राम्याः' पद की अनुवृत्ति समझी जायगी। पक्षियों के विषय में गौतम ध० सू० में अलग-अलग उल्लेख किया गया है: 'काककङ्कगृध्रश्येनार जलजा रक्तपादतुण्डा ग्राम्यकुक्कुटसूकराः' २. ८. २९. मेरे अनुवाद सहित चौखम्बा संस्करण, पृ० १८६।
तथाशब्दोऽपि ग्राम्यानुकरणार्थ एव । कुक्कुटसूकरमिति द्वन्द्वैकवद्भावः ॥ ३ ॥
साम्प्रतं ग्राम्यपशुविषयप्रतिषेधापवादमाह—
अन्यत्रा¹ जाविकेभ्यः ॥ ४ ॥
अनु०— बकरा और भेड़ को छोड़कर अन्य ग्राम्य पशुओं के भक्षण के विषय में ही निषेध समझना चाहिए ॥ ४ ॥
प्रत्येकं बहुवचनं जात्याख्यायामन्यतरस्यां भवति। अजाविकौ भक्ष्यौ ॥
१. अन्यत्राऽजाविभ्यः इति क. पु. अन्यत्राऽजेभ्यः इति ख. पु.
द्वादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ९५
द्वादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ९५
भक्ष्याः श्वाविद्गोधाशशशल्यककच्छपखड्गाः खड्गवर्जं: पञ्च पञ्चनखाः ॥ ५ ॥
अनु०—श्वाविद्-गोधा ( गोह ), खरगोश, शल्यक, कच्छप और खड्ग इनमें खड्ग के अतिरिक्त पांच नखवाले पांच पशु भक्ष्य होते हैं ॥ ५ ॥
टि०—सूत्र में पहले खड्ग को एक साथ गिनाकर 'पञ्च पञ्चनखाः' 'खड्गवर्जः' कहकर विकल्प नियम प्रस्तुत किया गया है। खड्ग का मांस भक्षण करने के विषय में विवाद है, जिसका उल्लेख गोविन्द स्वामी ने अपनी व्याख्या में किया है और वसिष्ठ के वाक्य को उद्धृत किया है 'खड्गे तु विवदन्ते'। श्वाविद्-कुत्ते जैसा मृग है; शल्यक एक विशेष प्रकार का सूअर है; गोधा गोह को कहते हैं। खड्ग भी एक विशेष प्रकार का मृग है 'खड्गो मृगविशेषः' 'शल्यको वराहविशेषो यस्य नाराचाकाराणि लोमानि। गोधा कृकलासाकृतिमहाकायः'—गौतम ध० सू० पर २.८.२७ हरदत्त कृत मिताक्षरा । 'पञ्चनखाश्चाशल्यकशशश्वाविद्गोधाखड्ग कच्छपाः' वही, पृ० १८६.
¹परिसङ्ख्यैषा । कामत एवैषामपि भक्ष्यत्वे प्राप्ते भक्ष्येतरनिषेधार्थम् । 'पञ्चपञ्चनखग्रहणाच्च सजातीयपरिसंख्यैषा गम्यते । श्वाविदादीन् षडनुक्रम्य 'पञ्चग्रहणात् षष्ठस्य परिसङ्ख्यायां विकल्पः। तच्च स्पष्टीकृतम्-खड्गवर्जंा इति । तथा च वसिष्ठः—'खड्गे तु विवदन्ते' इति । आचार्येणाऽप्युक्तं 'खड्गंश्श्राद्धे पवित्रम्' इति । एवमुत्तरेष्वपि खड्गवत् यथासम्भवं योजना । श्वाविङः 'श्वसदृशमृगाः। शल्यकाः वराहविशेषाः । ऋज्यन्त्यत् ॥ ५ ॥
तथर्श्यहरिणपृषतमहिषवराह ²कुलुङ्गाः कुलुङ्गवर्जं: पञ्च द्विखुरिणः ॥ ६ ॥
अनु०—इसी प्रकार श्वेत खुर वाला मृग ( नील गाय ), सामान्य हरिण, धारीदार चर्म वाला हरिण, भैंसा, जंगली सूअर, काले रंग का मृग-इनमें काले रंग के मृग को छोड़ पांच दोखुरे जानवर भक्ष्य होते हैं ॥ ६ ॥
टि०—इस सूत्र में भी कुलुङ्ग के विषय में विवाद है अन्य दो खुर वाले पशु भक्ष्य हैं ।
भक्ष्या इत्यनुवर्तते । पूर्ववत्परिसंख्या ॥ ६ ॥
१. उभयोस्समुच्चित्य प्राप्तावितरनिवृत्तिः परिसंख्या ।
२. कुलङ्ग इति मु. पु.
| ९६ | बौधायन-धर्मसूत्रम् | [ भक्ष्याः |
|---|
पशवो गताः। पक्षिण आरभ्यन्ते—
पक्षिणस्तित्तिरिकपोतकपिञ्जलवार्ध्राणसमयूरवारणा वारणवर्ज्याः पञ्च विविष्किराः ॥ ७ ॥
**अनु०—**तित्तिर, कबूतर, कपिञ्जल, वार्ध्राणस, मयूर और वारण में वारण को छोड़ पांच तोड़-तोड़ कर खाने वाले पक्षी भक्ष्य होते हैं ॥ ७ ॥
**टि०—**यहाँ भी वारण पक्षी के भक्षण को सन्दिग्ध समझना चाहिए। 'भक्ष्याः प्रतुदविविष्किरजालपादाः' गौतम० २. ८. ३५, पृ० १८८ ।
अस्मिन्नपि षट्के वारणे विकल्पः। विकीर्य विकोर्य भक्षयन्तीति विविष्किराः। अन्यत्पूर्ववत् ॥ ७ ॥
मत्स्यास्सहस्रदंष्ट्रचिलिचिमो वर्मी बृहच्छिरोरोमशकरिरोहितराजीवाः ॥ ८ ॥
**अनु—**सहस्रदंष्ट्र, चिलिचिम, वर्मी, बृहच्छिरस्, रोमशकरि, रोहित और राजीव मछलियाँ भक्ष्य होती हैं ॥ ८ ॥
**टि०—**वसिष्ठ १४-४१-४२ में इन मत्स्यों के भक्ष्य होने का नियम है। नामों के विषय में विभिन्न पुस्तकों में कुछ अन्तर है, उदाहरण के लिए सूत्र के प्रस्तुत पाठ में 'रोमशकरि' नाम उपलब्ध है, किन्तु 'मशकरि' नाम भी कुछ लोगों ने ग्रहण किया है। द्र० व्यूहलेर की टिप्पणी। गोविन्द स्वामी ने भी इन नामों को स्पष्ट न कर लिखा है कि इनके विषय में निषादों आदि से जानकारी प्राप्त करनी चाहिए।
भक्ष्या इत्यनुवर्तते। उक्तेषु पशुमृगपक्षिमत्स्येषु अप्रसिद्धनामकाः निषादेभ्योऽवगन्तव्याः ॥ ८ ॥
उक्तो जङ्गमेषु भक्षणविशेषः। अथ स्थावरेष्वाह—
अनिर्दशाहसन्धिनीक्षीरमपेयम् ॥ ६ ॥
**अनु०—**जिस गाय, भैंस, बकरी आदि को ब्याए हुए दस दिन न हुए हों अथवा जो गर्भिणी अवस्था में दुही जा रही हो उसका दूध अपेय होता है ॥ ९ ॥
**टि०—**द्रष्टव्य वसिष्ठ १४. ३४-३५; गौतम० २. ८. २२ 'गोश्च क्षीरमनिर्दशायाः सुतके' २३, अजामहिष्योश्च, २५ 'स्यन्दिनीयामसुसंधिनीनां च'। संधिनी की गोविन्द स्वामी की व्याख्या स्पष्ट है: जो गर्भिणी स्थिति में दुही जाती है और प्रातः न दुहने पर सायं दुही जाती है। स्थानीय बोलियों में ऐसी गायों के विशेष नाम होते हैं।
गोमहिष्यजानामिति शेषः। प्रसवादारभ्य नातिक्रान्तदशाहमनिर्दशाहं क्षीरम्। सन्धिनी पुनः या गर्भिणी दुह्यते या वा सायमदुग्धा प्रातर्दुह्यते प्रातर्दुग्धा वा सायंम् ॥ ९ ॥
द्वादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ९७
द्वादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ९७
विवत्साऽन्यवत्सयोश्च ॥ १० ॥
**अनु—**जिस गो का बछड़ा न हो, अथवा जो दूसरी गो के बछड़े को दूध पिलाती हो उसका दूध अपेय होता है ॥ १० ॥
**टिप्पणी—**क्षीर के निषेध के साथ ही दधि आदि क्षीर विकारों का भी निषेध समझना चाहिए । इस संबन्ध में गोविन्द स्वामी ने वसिष्ठ के वचन का उल्लेख करते हुए विस्तृत विचार किया है ।
क्षीरमपेयमित्यनुवर्तते । विवत्सा । विगतवत्सा । विवत्सान्यवत्सासन्धिनीनां क्षीरमपेयम्, न पुनस्तद्विकारं दध्याद्यपि । कुत एतत् ? वसिष्ठवचनात् । यदाह सः—‘सन्धिनीक्षीरमवत्साक्षीरम्’ इत्यभक्ष्यप्रकरणे । कथमनेन दध्याद्यनुग्रहो भवति? अयं तावत् न्यायः सर्वत्र निषेधे द्रव्यशुद्धौ वेदितव्यः-प्रकृतिग्रहणे विकारस्याऽपि ग्रहणं विकारग्रहणे च प्रकृतेरिति । यत्पुनरपण्यप्रकरणे ‘क्षीरं च सविकारम्’ इति विकारग्रहणं कृतं तत्राऽयमभिप्रायः—विकाराणां दधिघृतादीनां क्षीरजातेर्जात्यन्तरत्वात् पायसादिशब्दव्यापादेन दधिघृतनवनीतादिशब्दान्तरत्वाच्च विकारग्रहणमन्तरेण तद्बुद्धिर्न जायत इति । अन्यत्र त्वन्यतरग्रहणेऽन्यतरग्रहणं भवत्येव । इह तु वसिष्ठवचने क्षीराधिकारे सत्येव पुनः क्षीरग्रहणं तद्विकाराभ्यनुज्ञानार्थम् ॥ १० ॥
'आविकोष्ट्रिकमैकशफम् ॥ ११ ॥
**अनु०—**भेड़, ऊँटनी और एक खुरवाले पशुओं का दूध अपेय होता है ॥ ११ ॥
**टि०—**एक खुर वाले पशु जैसे अश्व । द्र० गौतम. २.८.२४: 'नित्यमाविकमपेय-मोष्ट्रमैकशफं च' ।
क्षीरमपेयमित्यनुवर्तते । एकशफा एकखुरा अश्वादयस्तेषां पय ऐकशफम्॥११॥
उक्तानामपेयानां पयसां प्रसङ्गाल्लाघवाच्च प्रायश्चित्तमाह—
अपेयपयःपाने कृच्छ्रोऽन्यत्र गव्यात् ॥ १२ ॥
**अनु०—**गो के दूध के अतिरिक्त कोई और अपेय दूध पी लेने पर प्रायश्चित्त के रूप में कृच्छ्र व्रत करे ॥ १२ ॥
अविशेषितः कृच्छ्रशब्दः प्राजापत्ये वर्तते ॥ १२ ॥
गव्ये त्रिरात्रमुपवासः ॥ १३ ॥
१. आविकमोष्ट्रिकमैकशफमपेयम् इत्येव क. पुस्तके मूलपुस्तकेषु च समुपलभ्यते पाठः, तथापि ग. पुस्तकपाठ एव स्वरसतां मन्वानैस्स एवाऽस्मभिनिवेशितः ।
१० बौ० ध०
| ९८ | बौधायन-धर्मसूत्रम् | [ अभक्ष्याणि |
|---|
अनु०—गो का अपेय दूध पीने पर तीन (दिन और) रात्रि उपवास करे॥१३॥
द्वयमेतद्बुद्धिपूर्वविषयम्। अबुद्धिपूर्वे तु पूर्वस्मिन् त्रिरात्रं गव्ये तूपवासः। आह च मनुः—'शेषेषूपवसेदहः' इति ॥ १३ ॥
पर्युषितं शाकयूषमाससर्पिश्श्रुतधानागुडदधिमधुसक्तुवर्जम् ॥ १४ ॥
अनु०—शाक, यूष, मांस, घृत, भूने गये अन्न, गुड़, दही और सत्तू इन तैयार खाद्य वस्तुओं के अतिरिक्त अन्य बासी अन्न नहीं खाना चाहिए ॥ १४ ॥
टि०—पर्युषित का अर्थ है उषःकालान्तरित; उषाकाल से पहले का, रात्रि का, बासी।
पर्युषितमुषःकालान्तरितम्। शाकयूषादिवर्जं पक्वं पर्युषितमभक्ष्यमिति सम्बन्धः ॥ १४ ॥
'शुक्तानि ॥ १५ ॥
अनु०—खट्टी बनी हुई खाद्य वस्तुएं अभक्ष्य होती हैं ॥ १५ ॥
टि०—दधि खट्टा होने पर भी भक्ष्य होता है।
शुक्तानि च दधिवर्जम्। आह च मनुः—
दधि भक्ष्यं तु शुक्तेषु सर्वं च दधिसम्भवम् ।
यानि चैवाऽभिषूयन्ते पुष्पमूलफलैश्शुभैः ॥ इति ॥ १५ ॥
तथाजातो गुडः ॥ १६ ॥
अनु०—इसी प्रकार खट्टा हुआ गुड़ अभक्ष्य होता है ॥ १६ ॥
टि०—'भक्ष्य अभक्ष्य' का निर्देश करके भोजन की शुद्धि का नियम बताया गया है; भोजन की शुद्धि से ही सत्त्व अर्थात् आत्मा की शुद्धि होती है। आत्मा की शुद्धि से स्थिर स्मृति उत्पन्न होती है और उससे वेदाध्ययन का अधिकार होता है—गोविन्द। इसी प्रसंग में अगला सूत्र है।
सथाजातश्शुक्तत्वेन जात इत्यर्थः। गुडस्य पृथक्करणं अपक्वस्याऽपीक्षुरसस्य शुक्तस्य प्रतिषेधार्थम् ॥ १६ ॥
अभक्ष्याभक्ष्यप्रकरणेनाऽऽहारशुद्धिरुक्ता। तच्छुद्धौ हिं² सत्त्वशुद्धिर्भवति। सत्त्वशुद्धौ च ध्रुवा स्मृतिर्जायते। अतश्चाऽध्ययनेऽधिकार इत्यत आह—
१. शुक्तानि तथाजातो गुडः, इत्येकसूत्रतया चकारवर्जं पठितं मूलपुस्तकेषु ।
२. आहारशुद्धौ सत्वशुद्धिः। सत्वशुद्धौ ध्रुवा स्मृतिः, इति स्मरणात् ।
त्रयोदशः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः ३९
श्रावण्यां पौर्णमास्यामाषाढ्यां वोपाकृत्य तैष्यां माघ्यां वोत्सृजे- युरुत्सृजेयुः ॥ १७ ॥
**अनु०—**श्रावण या आषाढ मास की पौर्णमासी को वेदाध्ययन आरम्भ करने की उपाकर्म क्रिया कर तिष्य नक्षत्र से युक्त पौर्णमासी को या माघ की पौर्णमासी को वेदाध्ययन का उत्सर्ग करे ॥ १७ ॥
इति बौधायनीये धर्मसूत्रे प्रथमप्रश्ने दशमः खण्डः ॥ १२ ॥
श्रवणेन नक्षत्रेण श्रविष्ठया वा युक्ता पौर्णमासी श्रावणी । श्रावणशब्दोऽत्र नक्षत्रद्वयप्रदर्शनार्थः । तथाऽऽह —
चित्रादितारकाद्वन्द्वैः पूर्णपर्वेन्दुसङ्गतः । मासाश्चैत्रादिका ज्ञेयाः त्रिद्विषष्ठान्त्यसप्तमैः ॥
इति । एवमेव द्वादश पौर्णमास्यो द्रष्टव्याः । उपाकर्मोत्सर्जनं च गृह्य ( ३. १. ) एवोक्तम् ॥ १७ ॥
इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते पञ्चमोऽध्यायः
अथ षष्ठोऽध्यायः
एवं तावत्पुरुषार्थतया शौचाधिष्ठानमुक्तम् , अथेदानीं क्रत्वर्थतयाऽऽह—
शुचिमध्वरं देवा जुषन्ते ॥ १ ॥
**अनु०—**देवता पवित्र यज्ञ को ही ग्रहण करते हैं ॥ १ ॥
अध्वर इति यज्ञनाम । ध्वरः हिंसाकर्म तत्प्रतिषेधोऽध्वरः । जुषन्ते सेवन्ते । देवग्रहणं पितॄणामप्युपलक्षणार्थम् ॥ १ ॥
किमित्येवम् ?
शुचिकामा हि देवाश्शुचयश्च ॥ २ ॥
**अनु० —**क्योंकि देवता पवित्रता चाहते हैं और स्वयं पवित्र होते हैं ॥ २ ॥
हिशब्दो हेतौ शुचिकामत्वात् शुचित्वाच्चेत्यर्थः ॥ २ ॥
¹प्रपञ्चोऽयं भूयः तत्संग्रहार्थः—
²शुची वो हव्या मरुतश्शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः । ऋतेन सत्यममृतसाप आयंश्शुचिजन्मानश्शुचयः पावका इति ॥ ३ ॥
१. पंक्तिरियं ग. पुस्तके नास्ति ।
२. ऋ. सं. ५. ४. २४. २.
| १०० | बौधायन-धर्मसूत्रम् | [ शुद्धयावश्यकता |
|---|
**अनु०—**यह इस ऋचा में कहा गया है, हे मरुतों, पवित्र तुम लोगों के लिए पवित्र हव्य है; पवित्र तुम्हारे लिए मैं पवित्र यज्ञ अर्पित करता हूँ। पवित्र यज्ञ का सेवन करने वाले, पवित्र जन्म वाले, दूसरों को पवित्र करने वाले=मरुतों या देव गणों ने ऋत द्वारा सत्य को प्राप्त किया ॥ ३ ॥
**टि०—**उपर्युक्त अर्थ गोविन्दस्वामी के अनुसार है। 'ऋतेन यज्ञेन सत्यं परं पुरुषार्थम् अमृतस्वरूपं स्वर्गापवर्गाख्यम् प्रायन् प्राप्नुयुः'—गोविन्द । ब्यूलर ने इसका अर्थ इस प्रकार किया है—'उचित प्रकार से सत्यनिष्ठ (यज्ञकर्ता) के पास आये।' यह ऋचा ऋग्वेद ७. ५६. १२ है तथा तैत्तिरीय-ब्राह्मण २.८.५.५ में भी आता है। अन्तिम वाक्य की व्याख्या सायण ने इस प्रकार की है।
ऋगेषा देवानां शुचित्वमभिवदतीति विनियते। वसिष्ठस्यार्षं त्रिष्टुप्छन्दः। मरुतो देवताः। हे मरुतः ! वो युष्माकं शुचीनां सतां हव्यान्यपि शुचीनि योग्यानि भवन्ति। तस्मात् शुचिभ्यो युष्मभ्यं शुचिमेवाऽध्वरं यज्ञं प्रहिणोमि प्रतनोमि । यस्मादेवं वयं. मरुतां कृतवन्तस्तस्मात्तेऽपि मरुतः ऋतेन यज्ञेन सत्यं परं पुरुषार्थममृतस्वरूपं स्वर्गापवर्गाख्यं आयन् प्राप्नुयुः। किंविशिष्टास्ते ? ऋतसापः शुचिजन्मानश्शुचयः पावकाश्च; ऋतसापः यज्ञसेविनः। उक्तं च 'शुचिं हिनोम्यध्वरम्' इति। शुचि जन्म येषां ते शुचिजन्मानः स्वयं शुचयः पावनहेतवश्च द्रव्याणाम् । तथा चोक्तम्—'चण्डालपतितस्पृष्टं मारुतेनैव शुध्यति' ( १, ९. ८ ) इति ॥ ३ ॥
अहतं वाससां शुचि तस्माद्यत्किञ्चेज्यासयुक्तं स्यात्सर्वं तदहतेन वाससा कुर्यात् ॥ ४ ॥
**अनु०—**नये, पहले न. धारण किये गये वस्त्रों को पहनने पर यज्ञकर्ता पवित्र रहता है, अत एव जो कुछ यज्ञिय कर्म करना हो उसे नये वस्त्र धारण कर करना चाहिए ॥ ४ ॥
अहतमनुपभुक्तं अभिनवं शुचि स्यादित्यध्याहारः । इज्या यागः यत्किञ्चिदिति वीप्सावचनात् इष्टिपशुचातुर्मास्यादीनाम् ॥ ४ ॥
'अहतेन वाससा कुर्यात्' इत्युक्तम्, तत्रानहतस्य वाससः साक्षात् करणार्थं न स्यात्, तन्निराकरणायाऽऽह—
प्रक्षालितोपवातान्यक्लिष्टानि वासांसि पत्नीयजमानाऋत्विजश्च परिदधीरन् ॥ ५ ॥
त्रयोदशः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः १०१
अनु०—यजमान, उसकी पत्नी और यज्ञ कराने वाला ऋत्विज् ये सभी धोये गये, वायु से सूखे हुए तथा न फटे हुए वस्त्र पहने ॥ ५ ॥
टि०—गोविन्द स्वामी के अनुसार सूत्रस्थ ‘च’ शब्द से यज्ञक्रिया देखने वालों के लिए भी उपर्युक्त प्रकार के वस्त्र धारण करने का नियम समझना चाहिए।
तत्र संस्कारेणाऽनहतवाससोऽपि करणत्वमित्यभिप्रायः। उपवातानि शोषितानीत्यर्थः। अक्लिष्टानि अच्छिन्नानि अच्छिद्राणि वा। तानि च शुक्लानि भवन्ति, उत्तरत्र लोहितवास इति विशेषश्रवणात्। चशब्दादुपद्रष्ट्रादयोऽप्येवं-भूतानि वासांसि परिदधीरन्निति गम्यते ॥ ५ ॥
एवं प्रक्रमादूर्ध्वम् ॥ ६ ॥
अनु०—प्रक्रम ( आरम्भिक ) क्रियाओं के बाद इस प्रकार से किया जाता है ॥ ६ ॥
आपवर्गादिति शेषः। प्रक्रम उपक्रमः। उपक्रमादारभ्याऽऽपवर्गादेवंभूतै-र्वासोभिर्भवितव्यमित्यभिप्रायः ॥ ६ ॥
दीर्घसोमेषु सत्रेषु चैवम् ॥ ७ ॥
अनु०—दीर्घ सोमयज्ञों तथा सत्रों में भी इसी प्रकार किया जाता है ॥ ७ ॥
^१दीर्घसोमास्सत्राणि च प्रसिद्धानि। चशब्द एकाहाहीनोपसङ्ग्रहार्थः। एवमित्यतिदेशः। 'यत्किञ्चेन्वासंयुक्तम्' इत्यस्य विस्तरोऽयम् ॥ ७ ॥
किमेष एवोत्सर्गः ? नेत्याह—
यथा समाम्नातं च ॥ ८ ॥
अनु०—अन्य अवसरों पर उस अवसर के नियम के अनुसार अन्य प्रकार के वस्त्र धारण करने चाहिए ॥ ८ ॥
शुक्लाद्वाससोऽन्यदपि यद्यथा समाम्नातं तथा कर्तव्यमिति ॥ ८ ॥
१. उक्थ्यषोडश्यतिरात्रसंस्थाः दीर्घसोमपदवाच्याः। तासां प्रकृतिभूताग्निष्टो-मापेक्षयाऽधिककालसाध्यत्वात् । अनेकदिनसाध्याः सोमयागास्सत्राहीनपदवाच्याः। तत्र द्विरात्रप्रभृत्येकादशदिनसाध्यऋतुपर्यन्ता अहीनाः। त्रयोदशरात्रप्रभृति सहस्र-संवत्सरान्तास्सत्राणि। द्वादशरात्रस्तु सत्राहीनोभयात्मकः। तत्र सत्रे सर्वे यजमाना एव सप्तदशावरा मिलित्वा यजमानकार्यमृतृत्विक्कार्याणि च कुर्युः। अत एव तत्र दक्षि-णाऽपि नास्ति। एकाहस्तूक्तः।
| १०२ | बौधायन-धर्मसूत्रम् | [ वस्त्रशुद्धिः |
|---|
तदाह— यथैतदभिचरणीयेष्विष्टिपशुसोमेषु लोहितोष्णीषा लोहितवासस-इचत्विजः प्रचरेयुः चित्रवाससश्चित्रासङ्गाः वृषाकपाविति च ॥ ९ ॥
अनु०—जैसे आभिचारिक इष्टियों में, पशुयज्ञों तथा सोमयज्ञों में ऋत्विज् लाल रंग की पगड़ी और लाल रंग के वस्त्र धारण कर क्रियाओं का सम्पादन करे। वृषाकपि के मन्त्रों का उच्चारण करते समय अनेक रंग वाले वस्त्र तथा बहुरंगी उत्तरीय धारण करे ॥ ९ ॥
टि०—'विहिसोतोरसृक्षत' आदि ऋग्वेद १०-८६ के मन्त्र वृषाकपि द्वारा दृष्ट हैं। चित्रासङ्ग 'आसङ्ग' अर्थात् उत्तरीय। गोविन्द के अनुसार सूत्रस्थ 'च' से अन्य प्रकार की आभिचारिक क्रियाओं का भी ग्रहण होता है।
अभिचरणयेषु अभिचारसाधनेषु उष्णीषं शिरोवेष्टनं वासः परिधानं चित्रं नानावर्णं आसङ्ग उत्तरीयम्। अभिचरणीया इष्टयः—¹ 'आग्नावैष्णवमे-कादशकपालं निर्वपेदभिचरन्' इत्याद्याः। पशवः² 'ब्राह्मणस्पत्यं तूपरमालभेत' इत्याद्याः। सोमाः श्येनादयः। वृषाकपिः 'विहि सोतोरसृक्षत' इति सूक्तम्। इतिशब्दचशब्दौ 'अभिचरन् दशहोतारं जुहुयात्' इत्येवमादीनामुपसङ्ग्रहणा-र्थौ ॥ ९ ॥
अग्न्याधाने क्षौमाणि वासांसि तेषामलाभे कार्पासिकान्यौर्णानि वा भवन्ति ॥ १० ॥
अनु०—अग्न्याधान के समय (यजमान और उसकी पत्नी) रेशमी वस्त्र धारण करे, उनके न मिलने पर कपास के या ऊन के वस्त्रों का प्रयोग होता है ॥ १० ॥
पत्नीयजमानयोरेतद्विधानम् ॥ १० ॥
'अहतं वाससां शुचि' ( १. १३. ४ ) इत्युक्तम्। इदानीमुपहतान्यपि वासांस्यभ्य³नुजानन् तेषां मूत्रादिसर्गे शौचमाह—
मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानां मृदाऽद्भिरिति प्रक्षालनम् ॥११॥
१. इयमाग्नावैष्णवेष्टिः 'आग्नावैष्णवमेकादशकपालं निर्वपेदभिचरन्स्र्स्वतया-ज्यभागा स्यात् बार्हस्पत्यश्चरुः' इति विहिता वेदितव्या। सा च द्वितीयद्वितीये नवमानुवाके तैत्तिरीयसंहितायाम्।
२. तूपरः शृङ्गरहितः पशुः।
३. अभ्यनुज्ञातुम् ग. पु.।