बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 139, कुल 486 में से
संदर्भ में पढ़ेंएकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ८७
आचमन करने तथा उदकाञ्जलि देने के कार्य अलग-अलग तीन बार किये जायेंगे। 'अङ्गारमुदकमिति' में इति से गोबर पीले सरसो आदि का भी ग्रहण हो जाता है, जिसका उल्लेख याज्ञवल्क्य ने किया है। प्रायश्चित्ताध्याय—
इति संस्पृश्य गच्छेयुर्गृहं बालपुरःसराः।
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः॥ १२॥
आचम्याग्न्यादिसलिलं गोमयं गौरसर्षपान्।
प्रविशेयुः समालभ्य कृत्वाऽश्मनि पदं शनैः ॥ १३॥
(मेरे अनुवाद सहित संस्करण, पृ० ४०१ चौखम्भा प्रकाशन)
यथाबालं यो यो बालस्तं तं पुरस्कृत्य कनिष्ठप्रथमा इति यावत्। अपस-
व्यानि अप्रदक्षिणानि प्राचीनावीतानि कृत्वा। कथं यज्ञोपवीतानि भवन्ति
चेत् ? भूतगत्येति ब्रूमः। अन्यत्राऽपि प्रेतकृत्येष्वेवमेव भवितव्यम्। सकृद्-
ग्रहणं प्रतिनिमज्जनोन्मज्जनं उत्तीर्योत्तीर्येत्यर्थः। तत्प्रत्ययं प्रेतप्रत्ययं प्रेतं प्रत्याय्य
प्रेतस्य नामग्रहणपूर्वकं तदुद्देशं कृत्वेत्यर्थः। प्रत्ययमित्याभीक्ष्ण्ये णमुल्प्रत्ययो
द्रष्टव्यः। गृहप्रवेशावस्थायां पुनर्गृहद्वारे अङ्गारमुदकं च संस्पृश्य बालपुरस्सराः
गृहं प्रविशेयुः। इतिशब्देन प्रकारवाचिना स्मृत्यन्तरेणोक्तं समुच्चिनोति।
एवं हि याज्ञवल्क्य आह—
आचम्याऽग्न्यादिसलिलं गोमयं गौरसर्षपान्।
विदश्य निम्बपत्राणि गृहान् बालपुरस्सराः ॥
प्रविशेयुस्समालब्ध्य कृत्वाऽश्मनि पदं शनैः॥ इति ॥
ततः प्रभृति दशाहमक्षारलवणाशिनो भवेयुः। यावदाशौचं कटे तृणप्रस्तरे आसीरन् उपविशेयुः। पिण्डदानमपि प्रतिदिवसं कार्यम् ॥ २२ ॥
एकादश्यां द्वादश्यां वा श्राद्धकर्म ॥ २३ ॥
अन्०—ग्यारहवें अथवा बारहवें दिन श्राद्धकर्म करे॥ २३॥
कुर्युरिति शेषः। योऽप्ययमेकोद्दिष्टादेः ज्योतिषशास्त्रे कालो विहितः सोऽ-
निष्क्रान्ततत्कालस्य वेदितव्यः॥ २३॥
शेषक्रियायां लोकोऽनुरोद्धव्यः ॥ २४ ॥
अन्०—शेष क्रियाओं को करते समय लोक-नियमों का ही अनुसरण करना
चाहिए ॥ २४॥
अत्राऽपि प्रेतस्य शेषक्रियायाः कर्त्तव्यायाः लोको महाजनः अनुरोधव्यः।
नग्नप्रच्छादनश्राद्धं दाहादिषु। अत्राऽपि न केवलं दाहक्रियायामेव। तत्र हि
बहुशब्दे उदकमुक्तं, यच्चातः स्त्रिय आहुस्तत्कुर्वन्ति' इति। तथाऽन्यैरप्युक्तं
'स्त्रीभ्यस्सर्ववर्णैभ्यश्च धर्मशेषान् प्रतीयात्' इति ॥ २४ ॥