भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 454, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 454
४००बौधायन-धर्मसूत्रम्[ चान्द्रायणविधिः

कृधी स्वस्माऽअदितेरनागा व्येनाँ सि शिश्रथो विश्वगग्ने ॥२१॥ यथा ह तद्वसवो गौर्यंचित्पदिषिताममुञ्चता यजत्राः । एवास्मस्मत्प्रमुञ्चाव्यंहो॒ प्रतार्यग्ने प्रतराण आयुः ॥ २२ ॥ ( तै. सं. ४. ७. १५. ) ॥

क्षापवित्रं क्षाशब्दवत् पवित्रं च, तच्च तैत्तिरीयाणां सूक्तपाठे 'अ- ग्नेनय' इत्यादिषडृचम् । अयमेको मन्त्रगणः तैत्तिरीयपाठसिद्धो गृहीतव्यः । सहस्राक्षस्तावत्पुरुषसूक्तं, तच्चाऽष्टादशर्चम् । मृगारो मृगाराया दृष्टेर्याज्यानु- वाक्या द्वाविंशतिर्ऋचः 'अग्नेर्मन्वे' इत्यनुवाकः । अंहोमुचो तच्छन्दवन्तौ गणौ । तयोः³ 'या वामिन्द्रावरुणा' इत्येकः चत्वारो मन्त्राःसानुषङ्गाः । अप- रो⁴ 'यो वामिन्द्रावरुणा' इत्यष्टौ । अत्र तादृश एव सामशब्दोऽहोमुचव- चनः । पावमान्योऽपि तच्छन्दवत्यः ऋचस्सप्तदश । ताश्च५ 'पवमानस्सु- वर्जनः' इत्यनुवाकः । "कूष्माण्ड्यः 'यद‍ेवाः' इत्याद्या एकविंशतिर्ऋचः । वैश्वानर्य्य६ 'वैश्वानरो न ऊत्या' इत्यष्टौ । एतेऽष्टौ मन्त्रगणाः प्रायशो विश्वे-


१. या वामिन्द्रावरुणा यतव्या तनूस्तयेममहंसो मुञ्चतम् ॥१॥ या वामिन्द्राव- रुणा सहस्या तनूस्तयेममहंसो मुञ्चतम् ॥२॥ या वामिन्द्रावरुणा रक्षस्या तनूस्तये- ममहंसो मुञ्चतम् ॥३॥ या वामिन्द्रावरुणा तेजस्या तनूस्तयेममहंसो मुञ्चतम् ॥४॥

२. यो वामिन्द्रावरुणावग्नो स्वामस्तं वामेतेनाऽवयजे ॥ १ ॥ यो वामिन्द्रावरुणा द्विपात्सु पशुषु क्षामस्तं वामेतेनाऽवयजे ॥ २ ॥ यो वामिन्द्रावरुणा चतुष्पात्सु पशुषु क्षामस्तं वामेतेनावयजे ॥ ३ ॥ यो वामिन्द्रावरुणा गोष्ठे क्षामस्तं वा०यजे ॥ ४ ॥ यो वामिन्द्रावरुणा गृहेषु क्षामस्तं वा०यजे ॥ ५ ॥ यो वामिन्द्रावरुणाऽप्सु क्षामस्तं वा०यजे ॥ ६ ॥ यो वामिन्द्रावरुणौषधीषु क्षामस्तं वा०यजे ॥ ७ ॥ यो वामिन्द्रा- वरुणा वनस्पतिषु क्षामस्तं वामेतेनाऽवयजे ॥ ८ इत्यष्टौ ॥ ( तै. सं. २. ५. ११ )

३. २५७. पृष्ठे टिप्पण्यां द्रष्टव्यम् । ४. २३८. पृष्ठे टिप्पण्यो द्रष्टव्यम् ।

५. वैश्वानरो न ऊत्या प्रयातु परावतः । अग्निरुक्थेन वाहसा ॥ १ ॥ शृणोत्वग्निं वैश्वानरममृतस्य ज्योतिष्पतिम् । अजस्रं घर्मममिहे ॥ २ ॥ [वैश्वानरस्य दंसनाभ्यो बृहद्धरिणादेकस्स्वपस्यया कविः । उभा पितरा महयन्नजायतऽग्निर्द्यावापृथिवी भुरिरे- तसा॥३॥ पृष्टो दिविः पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीराविवेश । वैश्वानर- स्सहसा पृष्टो अग्नित्स नो दिवा स रिषः पातु नक्तम् ॥ ४ ॥ जातो यदग्ने भुवना व्यख्यः पशुं न गोपा इर्यः परज्मा। वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभि- स्सदा नः ॥५ ॥ त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणः जायमानः । त्वं देवाँअभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा ॥६॥ अस्माकमग्ने मघवत्सु धार- याऽनामिक्षममजरं सुवीर्यम् । वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोति भिः ॥ ७ ॥ वैश्वानरस्य सुमती स्याम राजा हि कं भुवनानामभिश्रीः । इतो जातो विश्वमिदं विचष्टे वैश्वानरो यतते सूर्येण ॥ ८ ॥ ( तैं. सं. १. ५. ११) ।