BharatKosha
Back to the archive

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

by महर्षि बौधायन

Source: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (origin)

DevanagariHindipublished486 pages

चतुर्थः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः २०५

Page 257Permalink

चतुर्थः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः २०५

टि०—दीनता से यहां याचकता आदि का भाव भी लिया गया है, परोपकार न करना शठता है। सूत्र में च शब्द के प्रयोग से अश्लीलादि भाषण का भी अर्थ ग्रहण करना चाहिए—गोविन्दस्वामी।

आत्मनः क्षीणत्वप्रदर्शनेन याचिष्णुता¹ दैन्यम्। शक्तौ सत्यामपि परोपकाराकरणं शाठ्यम्। जैह्म्यं कौटिल्यम्। चशब्दादश्लीलादिकमपि ॥ २५ ॥

दैन्यं पुनः प्रयत्नेन वर्जनीयम् अस्मिन्नर्थे गाथामाह—

अथाऽप्यत्रौशनसश्च वृषपर्वणश्च दुहित्रोस्संवादे गाथामुदाहरन्ति ॥२६॥

अनु०—इस संबन्ध में उशना और वृषपर्वा की पुत्रियों के बीच हुए संवाद की एक गाथा उद्धृत की जाती अ है— तुम उसकी पुत्री हो जो दूसरों का स्तुति करता है, याचना करता है, तथा दान ग्रहण करता है, किन्तु मैं ऐसे व्यक्ति की पुत्री हूं, जिसकी स्तुति की जाती है, जो याचकों को दान देता है, किसी से दान स्वीकार नहीं करता ॥ २६ ॥

टि०—यह संवाद शर्मिष्ठा तथा देवयानी के संवाद के रूप में महाभारत में भी आया है। पूर्वार्ध में देवयानी के पिता उशना के दीन स्वभाव का उल्लेख है।

उशनाः शुक्रः, तस्य दुहिता देवयानी वृषपर्वा तु क्षत्रियः, तस्य दुहिता शर्मिष्ठा। तयोस्संवादो विसंवादः गाथाश्लोकः ॥ २६ ॥

स्तुवतो दुहिता त्वं वैयाचतः प्रतिगृह्णतः । अथाऽहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥ ददतोऽप्रतिगृह्णतः इति ॥ २७ ॥

इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने चतुर्थः खण्डः ॥

प्रतिशाङ्गं प्रभाषते तत्र पूर्वेणाऽर्धेन देवयान्याः पितुरुशनसो दीनस्वभावत्वं कथयति। उत्तरेण चाऽऽत्मनः पितुर्वृषपर्वणः ततो विपरीतस्वभावत्वम् ॥ २७ ॥

इति श्रीगोविन्दस्वामिविरचिते बौधायनधर्मसूत्रविवरणे द्वितीयप्रश्ने द्वितीयोऽध्यायः ॥


१. वागाविष्करणं दैन्यमिति घ. पु०

Page 258Permalink

२०६ बौधायन-धर्मसूत्रम्

अथ द्वितीयप्रश्ने तृतीयोऽध्यायः

पञ्चमः खण्डः

भूयोऽपि नियमानोच्यते— 'तपस्यमवगाहनम्^१ ॥ १ ॥ **अनु०—**तपस्या के लिए स्नान करना चाहिए ॥ १ ॥ तपसे हितं तपस्यम् । अवगाहनं स्नानम् । तपस उपक्रमे कर्तव्यमित्यर्थः ॥ १ ॥

देवतास्तर्पयित्वा पितृतर्पणम् ॥ २ ॥ **अनु०—**देवताओं का जल द्वारा तर्पण करने के बाद पितरों का तर्पण करना चाहिए ॥ २ ॥ भवेदिति शेषः । ऋषितर्पणानन्तरं पितृतर्पणं किलाऽन्यत्रोच्यते^२ । इह तु देवतर्पणादनन्तरम् , अत आनन्तर्ये विकल्पः । यद्वा—तपस्येऽवगाहने एव विशेषः ॥ २ ॥

अनुतीर्थमप उत्सिञ्चे “दूर्जं^३ वहन्ती” रिति ॥ ३ ॥ **अनु०—**ऊर्जं वहन्ती मन्त्र का पाठ करते हुए तीर्थों के अनुसार जल गिराया जाता है ॥ ३ ॥ **टी०—**पूरा मन्त्र इस प्रकार है—“ऊर्जं वहन्तीरममृतं घृतं पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत मे पितॄन्” । अनुतीर्थं तीर्थमनुकूलमित्यर्थः । एतस्मादेव गम्यते जले तर्पणमिति । अयं हि मन्त्रः स्नानविध्यनुवाके कृत्स्नशः पठ्यते । यद्वा—नदीतरणानन्तरमेतदुत्सेचनं कर्तव्यम् ॥ ३ ॥

अथाप्युदाहरन्ति — स्रवन्तीष्वनिरुद्धासु त्रयो वर्णा द्विजातयः । प्रातरुत्थाय कुर्वीरन् देवर्षिपितृतर्पणम् ॥ ४ ॥


१. तपस्यमपोऽवगाहनम् इति व्याख्यानपुस्तकेषु ॥ २. अत्रैव नवमखण्डे 'अथोत्तरं देवतास्तर्पयति', इत्यारभ्य देवतर्पणान्युक्त्वा ततः “अथ निवीती ऋषींस्तर्पयामि” इत्यादिना ऋषितर्पणमुक्त्वा, अनन्तरमेव “अथ प्राचीनावीती पितॄन् स्वधा नमस्तर्पयामि” इति पितृतर्पणं विहितमाचार्येणेत्यर्थः । ३. “ऊर्जं वहन्तीरममृतं घृतं पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत मे पितॄन्” इति समग्रो मन्त्रः ॥

पञ्चमः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २०७

Page 259Permalink

पञ्चमः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २०७

**अनु०—**इस सम्बन्ध में निम्नलिखित पद्य किया जाता है— तीन द्विजाति वर्ग के पुरुष प्रातःकाल उठकर बहती हुई अनवरुद्ध जल की धारा से देवता ऋषि तथा पितरों का तर्पण करें ॥ ४ ॥

**टी०—**बहती हुई अनवरुद्ध जल की धारा से यहां नदी में स्नान करने का नियम स्पष्टतः प्रतीत होता है ।

स्रवन्तीष्वनिरुद्धास्विति नद्यां प्रातःस्नानं विधीयते न तटाकादिषु कुल्यासु वा ॥ ४ ॥

इतरथा दोषमाह— निरुद्धासु न कुर्वीरन्नंशभाक्तत्र सेतुकृत् ॥ ५ ॥

**अनु०—**ऐसे जल में स्नानतर्पण नहीं करना चाहिए, जो चारो ओर जल से बंधा हो, ऐसे (तालाब कूप आदि में) जलाशय में स्नान-तर्पण करने पर उसके पुण्य का अंश तालाब या कूप को बंधवाने वाले को मिलता है ॥ ५ ॥

निरुद्धासु यदि कुर्वीरन्निति शेषः। सेतुकृत् खननकृत् । तत्र सेतुकृत् स्नानत-र्पणादिपुण्यफलांशभाग्भवति । पुण्यकर्ता च सेतुकृदेनोंशभाक् । आह च— परकीयनिपानेषु न स्नायाच्च कदाचन । निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥ इति ॥ निपानं तटाक-कूपादि ॥ ५ ॥

उपसंहरति— तस्मात् परकृतान् सेतून् कूपांश्च परिवर्जयेदिति ॥ ६ ॥

**अनु०—**अतएव दूसरों द्वारा बनवाये गये तालाब के घाटों तथा कूपों में स्नान तर्पण आदि का परिवर्जन करें ॥ ६ ॥

एतन्निर्वाहकं परकीयमतेनोपन्यस्यति— अथाऽप्युदाहरन्ति— उद्धृत्य वाऽपि त्रीन् पिण्डान् कुर्यादापत्सु नो सदा । निरुद्धासु तु मृत्पिण्डान् कूपात् त्रीनब्घटांस्तथेति ॥ ७ ॥

**अनु०—**इस सम्बन्ध में निम्नलिखित पद्य उद्धृत किया जाता है आपत्काल में (तालाब आदि घिरे हुए) जल में से तीन मुट्ठी मिट्टी निकाल कर ओर कूप आदि में घिरे हुए जल में से तीन घड़ा जल निकालकर स्नान तर्पण किया जा सकता है, किन्तु यह नियम सदा नहीं होता है ॥ ७ ॥

Page 260Permalink
२०८बौधायन-धर्मसूत्रम्[ गृहस्थनियमाः

सदा न कुर्यान्निरुद्धास्विति सम्बन्धः । अविशेषितेन पिण्डशब्देनाऽवकरादीनां पिण्डा गृह्यन्ते । आपत्सु स्रवन्तीनां अनिरुद्धानां चाऽभावे कूपे चेत् स्नानं समुपस्थितं तदा त्रीनपां पूर्णान् घटानुद्धृत्य स्नानम् ॥

आपः प्रस्तुताः, तत्राऽऽह—

बहु प्रतिग्राह्यस्य प्रतिगृह्याऽप्रतिग्राह्यस्य वाऽयाज्यं वा याजयित्वाऽनाश्यान्नस्य वाऽन्नमशित्वा तरत्समन्दीयं जपेदिति ॥ ८ ॥

**अनु०—**अनेक व्यक्तियों को दान देने में समर्थ व्यक्ति से अथवा ऐसे व्यक्ति से जिससे दान नहीं लेना चाहिए, दान लेकर, ऐसे व्यक्ति का यज्ञ कराकर, जिसका यज्ञ कराना निषिद्ध है, अथवा ऐसे व्यक्ति कः अन्न खाकर, जिसका अन्न खाना निषिद्ध है, तरत्समन्दीय मन्त्रों का जप करे ॥ ८ ॥

**टि०—**तरत्समन्दी मन्त्र ऋग्वेद ९।५८ हैं। गोविन्द के अनुसार बहु प्रतिगृह्य का अर्थ है, जो अनेक सेवकों का भरणपोषण करने में समर्थ हो ।

काश्यपो वामदेवो वा ऋषिः । अप्स्विति शेषः । उत्तरं चतृऋचं¹ अप्रतिग्राह्यस्य पतितादे र्ने परिग्रहदुष्टम्, सुरादिर्वा स्वभावदुष्टम् । अयाज्यं गुरुतल्पगमनादिना याजनानर्हम् , अनाश्यान्नः अभोज्यान्नो लेवनादिनाऽशुद्धान्नः । एतच्च रहस्यप्रायश्चित्तम् । आह च गौतमः-रहस्यं प्रायश्चित्तमविख्यातदोषस्य चतृऋचं “तरत्समन्दी” इत्यादि ॥ ८ ॥

एतेऽप्यनाश्यान्नाः, एनांस्वत्वात् । के ते ?

अथाऽप्युदाहरन्ति—

गुरुसङ्करिणश्चैव शिष्यसङ्करिणश्च ये ।
आहारमन्त्रसङ्कीर्णा दीर्घं तम उपासत इति ॥ ९ ॥

**अनु०—**इस सम्बन्ध में धर्मशास्त्र निम्नलिखित पद्य उद्धृत करते हैं—

जो पतित गुरु के साथ, संसर्ग रखते हैं, जो लोग पतित शिष्य के साथ धर्मविरुद्ध सम्बन्ध रखते हैं, पतित जनों का भोजन करते हैं, और उनके लिए मन्त्रों का प्रयोग करते हैं, वे घोर अन्धकार में प्रवेश करते हैं ॥ ९ ॥


१. तरत्समन्दी धावति धारा सुतस्याऽन्धसः । तरत्समन्दी धावति ॥ १ ॥
उक्षा वेद वसूनां मर्तस्य देव्यवसः । तरत्समन्दी धावति ॥ २ ॥
ष्वञ्चयोः पुरुषण्ट्योरा सहस्राणि दद्महे । तरत्समन्दी धावति ॥ ३ ॥
बायोर्लक्ष्िक्षतं तना सहस्राणि च दद्महे । तरत्समन्दी धावति ॥ (ऋक् सं.७.१.१५.)
इति चतृऋचं सूक्तं तरत्समन्दीयमित्युच्यते :

पञ्चमः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २०९

Page 261Permalink

पञ्चमः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २०९

गुर्व्यो व्याख्याताः । प्रायश्चित्तीतां प्राप्याऽकृतप्रायश्चित्तसद्भिः संसर्गं न व्रजेदिति । आह—
प्रायश्चित्तीतां प्राप्य दैवात्पूर्वकृतेन वा ।
न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते द्विजः ॥ इति ॥ ९ ॥
'नित्योदकी' (२.३.१) त्यत्र यदारब्धं तदेव पुनः प्रस्तौति प्रसक्तानुप्रसक्तं परिसमाप्य—

अथ स्नातकव्रतानि ॥ १० ॥
अनु०—अब स्नातक के व्रतों का विवेचन किया जायेगा ॥ १० ॥
वक्ष्यन्त इति शेषः । एतान्यपि प्रजापतिव्रतानि स्नातकाध्यायोक्तावशिष्टानि । १ ॥ १० ॥

सायं प्रातर्यदशनीयं स्यात्तेनाऽन्नेन वैश्वदेवं बलिमुपहृत्य ब्राह्मण-क्षेत्रियविट्शूद्रानभ्यागतान् यथाशक्ति पूजयेत् ॥ ११ ॥
अनु०—सायंकाल तथा प्रातःकाल जो कुछ भी भोजन हो उसके एक अंश से वैश्वदेव तथा बलिकर्म करे और तदनन्तर अपनी शक्ति के अनुसार अभ्यागत ब्राह्मण, क्षत्रिय, वैश्य और शूद्रों का सत्कार करे ॥ ११ ॥
यदशनीयमित्यनेनाऽहविष्यस्याऽपि ग्रहणं केचिदिच्छन्ति । तन्नयुक्त-युक्ततया परामृश्यम् । वैश्वदेवं कृत्वा बलिं चोपहृत्येत्यध्याहारः । बलिहरणा-नन्तरं चाऽभ्यागतान् यथाशक्ति पूजयेत् भोजयेदित्यर्थः । तृणभूम्युदकादीनां 'पूर्वमेवोक्तत्वात् ॥ ११ ॥

अथाऽनुकल्पमाह—
यदि बहूनां न शक्नुयादेकस्मै गुणवते दद्यात् ॥ १२ ॥
अनु०—यदि अनेक व्यक्तियों को भोजन न दे सके तो एक ही सद्गुणी व्यक्ति को भोजन करावे ॥ १२ ॥
गुणवान् पुनः—
विद्यानुष्ठानसम्पन्नो यज्वा पण्डित एव ।
वैश्वदेवे तु सम्प्राप्तः सोऽतिथिःस्वर्गसङ्क्रमः ॥ इति ॥ १२ ॥

यो वा प्रथममुपागतः स्यात् ॥ १३ ॥


१. पूर्वमेव दत्तत्वात् इति ग. घ. पु.
१७ बौ० ध०

Page 262Permalink
२१०बौधायन-धर्मसूत्रम्[स्नातकधर्माः

**अनु०—**अथवा अनेक अभ्यागतों में जो पहले आया हो उसे ही भोजन करावे ॥ १३ ॥

आगतानां बहूनां मध्ये यः प्रथमं प्राप्तस्तं भोजयेदिति ॥ १३ ॥

शूद्रश्चेदागतस्तं कर्मणि नियुञ्ज्यात् ॥ १४ ॥

**अनु०—**यदि कोई शूद्र अभ्यागत हो तो उसे किसी कार्य पर लगावे ( और फिर बाद में भोजन दे )

ततस्तं भोजयेदिति शेषः । द्विजातीनां तु विद्यातपसी एव भोजयितुं पर्याप्ते । शूद्रस्य त्वभ्यागतस्य तदसम्भवात्तत्स्थाने कर्मकरणम् । ततश्च निर्गुणे द्विजादावभ्यागते तमपि कर्मणि नियुञ्ज्यादित्युक्तं भवति । युक्तं चैतत्, वसिष्ठवचनात् —'अश्रोत्रिया अननुवाक्याः अनग्नयश्शूद्रसधर्माण भवन्ति' इति । आचार्योऽपि वक्ष्यति —'कामं तान् धार्मिको राजा शूद्रकर्मसु योजयेत्' ( २. ७. १५ ) इति । कर्म च काष्ठभेदनमृत्तिकासान्द्रीकरणादि ॥ १४ ॥

श्रोत्रियाय वाऽग्रं दद्यात् ॥ १५ ॥

**अनु०—**यदि अनेक व्यक्तियों को भोजन देने में असमर्थ हो तो एक श्रोत्रिय विद्वान् ब्राह्मण को अग्र प्रदान करे ॥ १५ ॥

**टि०—**अग्र सोलह ग्रास के बराबर अन्न को कहते हैं ।

यदि बहूनां न शक्नुयात् इत्यनुवर्तते । तत्र ग्रासः—शिख्यण्डप्रमाणाश्चत्वारो ग्रासा एकैकं भैक्षम्, तच्चतुर्गुणीतं पुष्कलमित्युच्यते । तत्पुष्कलचतुष्टयं चाऽग्रम् ॥ १५ ॥

'ये नित्याभक्तिकास्स्युस्तेषामनुपरोधेन संविभागो विहितः ॥ १६ ॥

**अनु०—**जो नित्य भोजन करने वाले हैं उनके भोजन के अंश में किसी प्रकार की कमी न करते हुए भोजन का विभाग करना चाहिए ॥ १६ ॥

आसमन्तात् भक्तं आभक्तम्, नित्यं आभक्तं येषां ते नित्याभक्तिकाः, नित्यमन्नं ये भजन्ते पुत्रदारभृत्यादयः । तेषामुपरोधः पीडा, तदभावोऽनुपरोधः । संविभागो दानम् । तदुपरोधे सति न कर्तव्यम् । आह च—

भृत्यानामुपरोधेन यः करोत्यौर्ध्वदैहिकम् ।
तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च ॥ इति ॥ १६ ॥


१. "नित्या भक्तिकाः" इति सूत्रे, व्याख्यायां भक्तं अन्नं नित्यं ये भजन्ते पुत्रदारभृत्यादयः इति च पाठः क. ग. पु.

पञ्चमः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २११

Page 263Permalink

पञ्चमः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २११

न त्वेव कदाचिददत्त्वा भुञ्जीत ॥ १७ ॥

अनु०— कभी भी भोजन का कुछ अंश दिये बिना भोजन नहीं करना चाहिए ॥ १७ ॥

अदत्त्वा भोजने सति दोषगुरुत्वख्यापनार्थो निपातद्वयप्रयोगः ॥ १७ ॥

पुनरप्यदत्त्वा भोजननिन्दामाह—

अथाऽप्यत्राऽन्नगीतौ श्लोकावुदाहरन्ति—

'यो मामदत्त्वा पितृदेवताभ्यो भृत्यातिथीनां च सुहृज्जनस्य ।
सम्पन्नमश्नन्विषमत्ति मोहात्तमद्म्यहं तस्य च मृत्युरस्मि ॥ हुताग्नि-
होत्रः कृतवैश्वदेवः पूज्यातिथीन् भृत्यजनावशिष्टम् । तुष्टश्शुचिश्श्रद्दध-
दत्ति यो मां तस्याऽमृतं स्यां स च मां भुनक्तीति ॥ १८ ॥

अनु०-- इस सन्दर्भ में अन्न के देवता द्वारा गाये गये इन दो श्लोकों को उद्धृत करते हैं--

जो मुझे, पितरों, देवताओं, सेवकों, अतिथियों तथा मित्रों को बिना दिये ही बने हुए अन्न को खा लेता है वह मूर्खतावश विष का ही भक्षण करता है; मैं उस व्यक्ति का भक्षण कर लेता हूं। मैं उसका मृत्यु हूं। किन्तु जो अग्निहोत्र हवन कर, वैश्वदेव कर, पूज्यजनों, अतिथियों और सेवकों के भोजन करने के बाद बचे हुए अन्न को सन्तुष्ट होकर, पवित्रता से तथा श्रद्धा रखते हुए खाता है, उसके लिए मैं अमृत बन जाता हूं और वही वस्तुतः मुझसे सुख प्राप्त करता है ॥ १८ ॥

अन्नाभिमानिन्या देवतया गीतावेतौ श्लोकौ निन्दास्तुतिरूपौ । अनयोः पूर्वो निन्दारूपः, उत्तरस्तुतिरूपः । पितृदेवताभ्योऽन्नदानं वैश्वदेवबलिहरणं पञ्चमहायज्ञे। अतिथीनां सुहृज्जनस्येति चतुर्थ्यर्थे षष्ठी । एतेभ्योऽन्नमदत्त्वा सम्पन्नं मृष्टं अत्ति, तमद्म्यहं तस्य च मृत्युरस्मि दारिद्र्यं व्याधिं चोत्पाद्या-मीत्यर्थः । अग्निहोत्रशब्दस्सायम्प्रातः कर्तव्यहोमोपलक्षणार्थः । तुष्टोऽतिथिभोज-नेनाऽननुतापी । शुचिः पादप्रक्षालनादिना । श्रद्दधत् भक्ष्यभोजनादिनाऽतीव रुचिमान् । यद्वा श्रद्दधत् अतिथीन् पूजयेदिति सम्बन्धः । मां भुनक्ति


१. मोघमन्नं विदन्ते अप्रचेतास्सत्यं ब्रवीमि वध इत्स तस्य । नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी ॥ ( ऋ० ८. ६. २१. १ ) इति मन्त्रोऽ-प्यत्राऽनुसन्धेयः ।

Page 264Permalink
२१२बौधायन-धर्मसूत्रम्[ स्नातकधर्माः

भवति । अन्यथा 'भुजोऽनवने' इत्यात्मनेपदमेव स्यात् । यस्माद्यथाशक्ति दत्त्वैव भुञ्जीतेति श्लोकद्वयस्यार्थः॥ १८॥

अथाऽन्नदानप्रसङ्गाद् द्रव्यदानमेतेभ्यः कर्तव्यमित्याह—

सुब्राह्मणश्रोत्रियवेदपारगेभ्यो गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु द्रव्यसंविभागो यथाशक्ति कार्यो बहिर्वेदिभिक्षमाणेषु ॥ १९ ॥

अनु०— सदाचारी ब्राह्मण वेदों के ज्ञान और अनुष्ठान से युक्त श्रोत्रिय, वेदविद्या में पारंगत पुरुष यदि यज्ञवेदि से भिन्न स्थान पर गुरु को दक्षिणार्थ देने के लिए विवाह के लिए, औषधके लिए, जीवनवृत्ति-विहीन होने पर कारण-पोषण के लिए, यज्ञ करने के लिए, अध्ययन के लिए, यात्रा के लिए या विश्वजित् यज्ञ करके पर धन की याचना करें तो उन्हें यथाशक्ति धन प्रदान करना चाहिए ॥ १९ ॥

टि०— उपर्युक्त दान यज्ञ के अतिरिक्त अन्य समय में भी देने का नियम है इस नियम के अनुरूप नियम मनुस्मृति में भी है, जिसे गोविन्द स्वामी ने उद्धृत किया है।

अस्मिन् सूत्रे चतुर्थ्यर्थे सप्तम्यौ द्रष्टव्यौ । यद्वा—निमित्तसंयोग एव चतुर्थ्यन्तः वेदपारगेभ्यः इत्यनुक्रम्य ' ?) द्रष्टव्यः । एवं च तेभ्य एव दानमित्युक्तं भवति । सुब्राह्मणः आचारसम्पन्नः ग्रन्थमात्रप्रयोजनो वा । श्रोत्रियस्तदनुष्ठानपरः । वेदस्य पारं पर्यन्तः निष्ठा तदर्थज्ञानं तद्गमयतीति वेदपारगः विचारसिद्धवेदार्थज्ञानवानित्यर्थः । गुर्वर्थः गुरुसंरक्षणपरः । निवेशो विवाहः । स निवेशार्थः । औषधं भेषजम् । वृत्तिक्षीणो हीनधनः । यक्ष्यमाणः प्रसिद्धः । अध्ययनसंयोगो ज्ञानैकशरणः । अध्वसंयोगः पन्थाः । विश्वजिन्नामा सर्वस्वदक्षिणः क्रतुः, तथाजो वैश्वजितः स चाऽन्येषामपि सर्ववेदस¹दायिनां प्रदर्शनार्थः । एतेभ्यो बहिर्वेदि अक्रतुकालेऽपि याचमानेभ्यो द्रव्यदानं यथाशक्ति कार्यम् । अत्र मनुः—

सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम् ।
गुर्वर्थपितृमात्रर्थस्वाध्यायार्थ्युपतापिनः ॥
नवैतान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान् ।
निस्स्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ॥ इति ॥

कृतान्नमितरेषु ॥ २० ॥


१. याजिनामिति. पु. पा.

षष्ठः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २१३

Page 265Permalink

षष्ठः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २१३

अनु०--अन्य अतिथियों के लिए ( अथवा याचकों के लिए ) पकाया हुआ अन्न देना चाहिए ॥ २० ॥

कृतान्नं पक्वान्नम् । आह च—'इतरेभ्यो बहिर्वेदि कृतान्नं देयमुच्यते' इति । इतरेभ्योऽतिथिभ्यः बहिर्वेदि कृतान्नमेव देयं नियमतः । सान्तानिकादिभ्यः पुनः कृतान्नमकृतान्नं च ॥ २० ॥

तदिदं पूर्वोक्तमातिथ्यं, तददनमिहाऽनूच्यते—

सुप्रक्षालितपादपाणिराचान्तश्शुचौ संवृते देशेऽन्नमुपहृतमुपसङ्गृह्य कामक्रोधद्रोहेलोभमोहानपहृत्य सर्वाभिरङ्गुलीभिः शब्दमकुर्वन्नश्नीयात् ॥ २१ ॥

इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने पञ्चमः खण्डः ॥ ५ ॥

अनु०—पैरों और हाथको अच्छी तरह धोकर, आचमन कर, पवित्र तथा चारो ओर से घिरे हुए स्थान में बैठकर लाए हुए अन्न को बादरपूर्वक ग्रहण कर काम, क्रोध, लोभ, 'मोह' को दूर कर सभी अङ्गुलियों से भोजन को मुँह में डालते हुए बिना शब्द किये हुए भोजन करे ॥ २१ ॥

आत्मयाजिनो भोजनविधिरयम् । संवृते देशे उपविश्य भुञ्जीतेति शेषः । फलकादौ पादं पात्रं वाऽऽरोप्य न भोक्तव्यमिति । उपहृतमानीतम् । उपसंगृह्य प्रीतिपूर्वकमभिसंवाद्य कामादीन्व्र्वर्जयित्वा शब्दं सीत्काराद्यकुर्वन् ॥ २१ ॥


षष्ठः खण्डः

न पिण्डशेषं पात्र्यामुत्सृजेत् ॥ १ ॥

**अनु०--**भोजन का ग्रास खाने के बाद बचे हुए अंश को पुनः थाली में न गिरावे ॥ १ ॥

**टि०—**तात्पर्य यह कि इतना ही बड़ा ग्रास उठाना चाहिए जिसे पूरा खाया जा सके, कुछ खाकर कुछ पुनः थाली में डालने की अभ्यास न हो ।

जग्धाऽवशिष्टस्य पिण्डस्याऽभोक्ष्यत्वात्तस्य पात्र्यामुत्सर्जने पुनरादानप्रसङ्गाच्च । अतश्च यावद्ग्रसितुं शक्नोति तावदेवाऽऽददीतेति गम्यते ॥ १ ॥

Page 266Permalink
२१४बौधायन-धर्मसूत्रम्[ स्नातकधर्माः

मांसमत्स्यतिलसंसृष्टप्राशनेऽप उपस्पृश्याऽग्निमभिमृशेत् ॥ २ ॥

**अनु०—**मांस, मछली, या तिल से युक्त भोजन खाने के बाद जल से शुद्धि कर अग्नि का स्पर्श करे ॥ २ ॥

संसृष्टशब्दः प्रत्येकमभिसम्बध्यते । यावद्भिर्मांसपरमाणुभिर्मिश्रित ओदने तद्रसोपलब्धिर्भवति तावद्भिस्संसृष्टस्य प्राशने इदं प्रायश्चित्तम् । ननु मांससंसृष्टनिषेधादेव मत्स्यसंसृष्टस्याऽपि निषेधसिद्धेः कुतः पृथगुपादानं ? मत्स्यार्थमिति । उच्यते-मत्स्यगन्धोपलब्धावपि प्रायश्चित्तं भवतीत्यभिप्रायः । तिलसंसृष्टं तिलौदनम् ॥ २ ॥

'अस्तमिते च स्नानम् ॥ ३ ॥ पालाशमासनं पादुके दन्तधावनमिति वर्जयेत् ॥ ४ ॥ नोत्सङ्गेऽन्नं भक्षयेत् ॥ ५ ॥ आसन्द्यां न भुञ्जीत ॥ ६ ॥ वैणवं दण्डं धारयेद्रुक्मकुण्डले च ॥ ७ ॥ पदा पादस्य प्रक्षालनमधिष्ठानं च वर्जयेत् ॥ ८ ॥ न बहिर्मालां धारयेत् ॥ ९ ॥
सूर्यमुदयास्तमये न निरीक्षेत ॥ १० ॥

**अनु०—**और सूर्य के अस्त होने पर स्नान करे। पलाश के बने आसन और खड़ाऊँ तथा पलाश की दातौन का प्रयोग न करे। अपनी गोद में रखकर भोजन न करे। किसी आसन पर रखकर भोजन न करे। बाँस का डण्डा धारण करे और कानों में सोने के कुण्डल पहिने। स्नान करते समय एक पैर को दूसरे पैर से न रगड़े और खड़े रहते समय एक पैर के ऊपर दूसरा पैर न रखे। बाहर की ओर दिखायी पड़ने वाली माला न धारण करे। उदय और अस्त के समय सूर्य के ऊपर दृष्टिपात न करे ॥ ३-१० ॥

अदृष्टार्थमेतद्व्रतम् ॥ ३-१० ॥

नेन्द्रधनुरिति परस्मै प्रब्रूयात् ॥ ११ ॥ यदि ब्रूयान्मणिधनुरित्येव ब्रूयात् ॥ १२ ॥

**अनु०—**इन्द्रधनुष देखकर दूसरे व्यक्ति से 'इन्द्रधनुष दिखाई पड़ रहा है' ऐसा न कहे। यदि कहना ही हो तो 'मणिधनु' नाम लेकर कहे ॥ ११-१२ ॥


१. तृतीयादीनि नवयान्तानि सूत्राणि व्याख्यानपुस्तकेषु नोपलभ्यते, न च व्याख्यातानि व्याख्यात्रा। अतश्च स एषामभावमेवाऽभिप्रेतीति प्रतीयते See• P 152. L.L. 7.

षष्ठः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २१५

Page 267Permalink

षष्ठः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २१५

परं प्रति निषेधोऽयम् । आत्मनो निरीक्षणे न दोषः । इतिकरणलिङ्गात् शब्दोच्चारणनिषेधमेनमध्यवस्यामः ॥ ११-१२ ॥

पुरद्वारीन्द्रकीलपरिघावन्तरेण नाऽतीयात् ॥ १३ ॥

अनु०—नगर के द्वार पर स्थापित इन्द्रकील और परिघा के बीच से न जाय ॥ १३ ॥

इन्द्रकीलः पुरद्वारे स्थापितः काष्ठविशेषः । परिघा तु प्रसिद्धा । तावन्तरेण न गच्छेत् ॥ १३ ॥

प्रेङ्ख्योरन्तरेण न गच्छेत् ॥ १४ ॥

अनु०—झूले के बीच से न जाय ॥ १४ ॥

प्रेङ्खो निखातदारुलम्बमाना क्रीडाफलका, तयोरन्तरेण गमननिषेधः ॥१४॥

१वत्सत्तन्तौ च नोपरि गच्छेत् ॥ १५ ॥

अनु०—बछड़े के पगहे के ऊपर से न जाय ॥ १५ ॥

तन्ती दाम तल्लङ्घनं निषिध्यते । चशब्दात् गोतन्तौ च ॥ १५ ॥

भस्मास्थिरोमतुषकपालापस्नानानि नाऽधितिष्ठेत् ॥ १६ ॥

अनु०—भस्म, अस्थि, केश, भूसा, खप्पर, काई और जल से गीले स्नान के स्थान के ऊपर से होकर नहीं जाना चाहिए ॥ १६ ॥

रोमशब्दः केशश्मश्रुणोरपि प्रदर्शनार्थः । अपस्नानं स्थलस्नानस्रुतजलं गात्रोद्वर्त्तनमलं वा ॥ १६ ॥

२गां धयन्तीं न परस्मै प्रब्रूयात् ॥ १७ ॥

अनु०—यदि कोई गाय अपने बछड़े को दूध पिला रही हो तो इसके विषय में दूसरे व्यक्ति से न कहे ॥ १७ ॥

टि०—यह 'धयन्ती' से अत्यन्त स्नेहपूर्वक बछड़े को चाटते हुए प्रस्रुत (पेन्हाई हुई) गौ से तात्पर्य है ।

स्वकीयामपि तां वारयेत् । न तु परस्मा आचक्षीत । किमयं स्तनन्धयस्य ख्यापननिषेधः, किं वा धेन्वा इति । तत्र गां धयन्तीमिति श्रवणाद्धेन्वा एव क्वचित्काञ्चित् पिबन्त्या इति । केचित्तुनस्तस्यास्तथा प्रीत्यभावात् यथा वत्सस्य मातुः स्तनान् पिबतः, तत्र हि साक्रोशं कथयन्ति वारयन्ति च । कथं


१. cf. गो. गृ. ९. ५१, २. cf गो. गृ. ९. २४,

Page 268Permalink
२१६बौधायन-धर्मसूत्रम्[ स्नातकधर्माः

पुनः धयन्तोमितिशब्देन स्तनं पिबन्तीति गम्यते १। गां धयन्तीं वत्सस्य मूत्रा- दिकमिति योजनया। अनेन चाऽतीव प्रस्तुतावस्था लक्ष्यते ॥ १७ ॥

'नाधेऽनुमधेनुरिति ब्रूयात् ॥ १८ ॥
यदि ब्रूयात् धेनुम्भव्येत्येव ब्रूयात् ॥ १९ ॥

**अनु०—**जो गाय दूध न देने वाली गाय हो उसे अधेनु न कहे। यदि उसके विषय में कहना हो तो उसे 'धेनुभव्या' (भविष्य में दूध देने वाली) कहे ॥१८-१९॥

क्षीरिणी गौर्धेनुः । अधेनुस्तद्विपरीता । ^२उच्चारणनिषेधाददृष्टं कल्प्यम् ॥ १८ ॥ १९ ॥

^३शुक्ता रूक्षाः परुषा वाचो न ब्रूयात् ॥ २० ॥

**अनु०--**शोकमय वा अपशकुनयुक्त, रूक्ष और कठोर वचन न बोले ॥२०॥
**टि०—**शुक्ता से इस प्रकार के वचनों का तात्पर्य है जिससे किसी को हृदय में कष्ट हो और अपने दुर्भाग्य का स्मरण हो जैसे विधवा को विधवा कहना। रूक्ष वचन में किसी व्यक्ति में दोष न होने पर भी उसमें दोष का कथन होता है जैसे श्रोत्रिय को अश्रोत्रिय कहना। परुष वचन ऐसे वचन हैं जिनमें किसी में दोष होने पर भी गुण के रूप में उल्लेख किया जाय जैसे अन्धे को आँखवाला कहना।—गोविन्द स्वामी।

शुक्ताः शोककारिण्यः, यथा विधवा विधवाविति । रूक्षाः अविद्यमाने दोषे दोषख्यापिकाः, यथा श्रोत्रियं सन्तमश्रोत्रिय इति । परुषास्तु विद्यमाने दोषे गुणख्यापकाः, यथाऽन्धं चक्षुष्मानिति ॥ २० ॥

नैकोऽध्वानं व्रजेत् ॥ २१ ॥

**अनु०—**अकेले यात्रा पर न निकले ॥ २१ ॥

मध्ये व्याध्याद्युत्पत्तिप्रसङ्गात् । अतस्सद्वितीयो व्रजेत् ॥ २१ ॥

° न पतितैर्न स्त्रिया न शूद्रेण ॥ २२ ॥

**अनु०—**पतितों के साथ, किसी स्त्री के साथ या शूद्र वर्ण के पुरुष के साथ यात्रा न करे ॥ २२ ॥


१. cf. गौ. ध. ९. २०.
२. अनुच्चारणे नियमादृष्टं कल्प्यम् । इति घ. पु.
३. घ. पुस्तके रिक्ता इति सूत्रमारभ्य रिक्ताः व्यर्थाः, रूक्षाः क्रूराः, परुषाः कर्णकठोराः, इति व्याख्यातम् ।

षष्ठः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २१७

Page 269Permalink

षष्ठः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २१७

सह ब्रजेदिति शेषः । एतैस्सद्वितीयो न स्याद्भ्रमन इत्यर्थः ॥ २२ ॥

न प्रतिसायं व्रजेत् ॥ २३ ॥

अनु०—सन्ध्या के आगमन के समय यात्रा पर न निकले ॥ २३ ॥

प्रमाद्भयादेव ॥ २३ ॥

न नग्नस्स्नायात् ॥ २४ ॥ न नक्तं स्नायात् ॥ २५ ॥

अनु०--नग्न होकर स्नान न करे । रात्रि में स्नान न करे ॥ २४-२५ ॥

अनयोः पूर्वः प्रतिषेधः स्नानमात्रे । उत्तरस्तु नित्यनैमित्तिके । तत्र हि— ‘शक्तिविषये मुहूर्तमपि नाऽप्रयतस्स्यात्’ इत्युक्तम् । नैमित्तिकस्याऽपि महानिशि प्रतिषेधं केचिदिच्छन्ति ॥ २४ ॥ २५ ॥

न नदीं बाहुकस्तरेत् ॥ २६ ॥

अनु०—बाहों से तैर कर नदी पार न करे ॥ २६ ॥

बाहुभ्यां तरतीति बाहुकः ॥ २६ ॥

न कूपमवेक्षेत ॥ २७ ॥

अनु०—कुए में न झांके ॥ २७ ॥

आत्मानं तत्र द्रष्टुमिति शेषः । इतरथा कूपपतितानां बालादीनामुद्धारणासिद्धेः ॥ २७ ॥

न गर्तमवेक्षेत ॥ २८ ॥

अनु०—किसी गहरे गड्ढे में न झांके ॥ २८ ॥

अधोमुख एव निम्नॊ भूभागः गर्तो भवति । को विशेषः कूपगर्तयोरिति चेत्-कूपो नाम दुःखेनाऽऽदायोदकं पातुं योग्यः, निम्नं खातित इत्यर्थः । यः करेणोदकं गृहीत्वा पातुं योग्यस्स गर्तः ॥ २८ ॥

न तत्रोपविशेद्यत एनमन्य उत्थापयेत् ॥ २९ ॥

अनु०—उस स्थान पर न बैठे जहां से कोई उठा दे ॥ २९ ॥

सर्वत्र पारवश्यं पुरुषस्य हृदीत्युपदेशः । राजभवनादिष्वासननिषेधोऽयम् । स्वयमारोढुमशक्यं देशं प्रत्यारोहणनिषेधो वा । ‘सूर्यमुदयास्तमये न निरीक्षेत’ ( २. ६. १० ) इत्यारभ्योक्तानां प्रतिषेधानां केचिद्दृष्टार्थाः केचिददृष्टार्थाः केचिदुभयार्था इत्यवश्यं परिहरणीया एव । नो चेत् ‘स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्’ इत्यवसरः स्यात् ॥ २९ ॥

Page 270Permalink

२१८ | बौधायनधर्मसूत्रम् | [ स्नातकधर्माः

पन्था देयो ब्राह्मणाय गवे राज्ञे ह्यचक्षुषे । वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥ ३० ॥

**अनु०—**ब्राह्मण, गाय, राजा, नेत्रहीन, वृद्ध, बोझ लिए हुए व्यक्ति, गर्भिणी स्त्री और दुर्बल व्यक्ति के लिए मार्ग छोड़ देना चाहिए ॥ ३० ॥

**टि०—**गोविन्दस्वामी के अनुसार 'च' शब्द अन्य इसी प्रकार के व्यक्तियों का भी उल्लेख करता है जो आदर के योग्य होते हैं।

अब्राह्मणेभ्योऽप्यचक्षु प्रभृतिभ्यः पञ्चभ्यो वर्त्मसङ्कटे समुपस्थिते पन्थानं दातुं स्वयं तस्मादपसरेदेव । चशब्दोऽनुक्तोपसंग्रहार्थः । तेन ‘चक्रिणेऽन्धकाय समुपजोविने तपस्विने हिताय वा' इत्यादिब्राह्मणादिर्माह्यः ॥ ३० ॥

ब्राह्मणेभ्यो दत्वा पन्थानं कथंलक्षणं ग्रामं प्रति गच्छेदित्यत आह—

'प्रभूतधोदकयवससमिकुशमाल्योपनिष्क्रमणमाढ्यजनाकुल- मनलससमृद्धमार्यजनभूयिष्ठमदस्युप्रवेश्यं ग्राममावासितुं यतेत धार्मिकः ॥ ३१ ॥

**अनु०—**धर्म कर्म में तत्पर रहने वाला व्यक्ति ऐसे ग्राम में रहने का प्रयत्न करे, जहाँ प्रचुर ईंधन, जल, चारा, हवनादि कर्म के लिए समिधा, कुश, माला प्रचुर मात्रा में उपलब्ध हो, जहाँ आने जाने में सुविधा हो, बहुत से धनी लोग निवास करते हों, जहाँ उद्योगशील, आलस्यहीन समृद्ध लोग रहते हों, आर्यजनों की संख्या अधिकांश हो, और जिसमें चोर प्रवेश न करते हों ॥ ३१ ॥

**टि०—**तुलना० गौतमधर्मसूत्र. १.९.६५ पृ० ९० "प्रभूतैधोदकयवसकुशमाल्यो पनिष्क्रमणमार्यजनभूयिष्ठमनलससमृद्धं धार्मिकाधिष्ठितं निकेतनमावसितुं यतेत ।”

प्रभूतशब्दः एधादिभिष्षड्भिः प्रत्येकमभिसंबन्धनीयः । एधः इन्धनादि । यवसः दोह्यानां गवादीनां भक्ष्यः । उपनिष्क्रमणं विहारभूमिः । आढ्याः धनवन्तः । अलसाः निरुत्साहाः । तद्विपरीता अनलसाः । आर्याः पण्डिताः । दस्यवश्चोराः तैरप्रवेश्यं अधृष्यम् । तत्र हि धर्माश्रमाविरोधेन जीवनं सुकरं भवति । तत्र धार्मिको नित्यं निवसेदित्यर्थः ॥ ३१ ॥

उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः । उषित्वा द्वादश समाः शूद्रसाधर्म्यमृच्छति ॥ ३१ ॥

**अनु०—**जिस ग्राम में कुए से ही पानी पिया जाता हो वहाँ शूद्रा स्त्री से विवाह


१. cf. गौ ध. १.६६,

Page 271Permalink

षष्ठः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २१९

पर निवास करने वाला ब्राह्मण बारह वर्ष निरन्तर रहने पर शूद्रों के समकक्ष ही हो जाता है ॥ ३२ ॥

उदपानं कूपः कूपोदकमेव पानीयं, नाऽन्यत् यस्मिन् ग्रामे स एवमुक्तः । वृषलीशब्दः प्राक् प्रदानाद्रजस्वलाया वाचकः । तथा हि—

पितुर्गृहे तु या कन्या ऋतुं पश्यत्यसंस्कृता ।
सा कन्या वृषली ज्ञेया तत्पतिर्वृषलीपतिः ॥ इति ॥

शूद्रायाः पतित्वे धर्मानुष्ठानानुपपत्तेः । एवंविधो धार्मिकोऽपि शूद्रसाधर्म्यमृच्छति । तस्मादल्पोदके ग्रामे धार्मिको न निवसेदित्यभिप्रायः ॥ ३२ ॥

ग्रामनिवास उक्तः, नगरे त्वनेवंविधेऽपि निवासनिषेधाय निन्दति—

पुररेणुकुण्ठितशरीरस्तत्परिपूर्णनेत्रवदनश्च । नगरे वसन् सुनियतात्मा सिद्धिमवाप्स्यतीति न तदस्ति ॥ ३३ ॥

**अनु०—**यदि यह कहा जाय कि नगर की धूल से जिसका शरीर धूसरित है और जिसके नेत्र और मुख उस धूल से परिपूर्ण हैं किन्तु जिसने इन्द्रियों और मन पर संयम कर रखा है वह नगर में रहता हुआ भी सिद्धि प्राप्त करता है तो ऐसी बात नहीं है (नगर का निवासी सिद्धि नहीं प्राप्त कर पाता) ॥ ३३ ॥

कुण्ठितं प्रच्छादितम् । तच्छब्देन पुररेणुरेव परामृश्यते । तेन परिपूरिते नेत्रे वदनं च यस्य स तत्परिपूर्णनेत्रवदनः । उष्ट्रखरविड्वराहगजश्वपुरीषमूत्रसुराकाकोच्छिष्टशवकपालास्थितुषभस्माद्युपहतसर्वावयव इत्यर्थः । एवंविधस्सुनियतेन्द्रियोऽपि नगरे वसन् परलोकं नाऽऽप्नोतीत्यर्थः ॥ ३३ ॥

रेणुः प्रस्तुतस्तत्राऽऽह—

रथाश्वगजधान्यानां गवां चैव रजश्शुभम् ।
अप्रशस्तं समूहन्याः श्वाजाविखरवाससाम् ॥ ३४ ॥

**अनु०—**रथों, अश्व, हाथी के चलने से उठने वाली, अनाज के साथ मिली हुई तथा गाय के पैरों से उड़ने वाली धूल पवित्र होती है, किन्तु झाडू से बुहारने पर उड़ी हुई, बकरी, भेड़, गदहे के पैरों से उठी हुई तथा कपड़े से उड़ायी गयी धूल अपवित्र होती है ॥ ३४ ॥

पूर्वाणि पञ्च रजांसि शुभानि । इतराणि षट् अप्रशस्तानि वर्ज्यानि । समूहनी सम्मार्जनी ॥ ३४ ॥

पूज्यान् पूजयेत् ॥ ३५ ॥

Page 272Permalink

२२० बौधायन-धर्मसूत्रम् [ पुत्रभेदाः

**अनु०—**पूज्य व्यक्तियों का सम्मान करे ॥ ३५ ॥
अवसरौचित्योपायेनाऽयमपि श्रेयस्करो नियमः। उक्तं च—‘प्रतिबध्नाति हि श्रेयः पूज्यपूजान्यतिक्रमः’ इति ॥ ३५ ॥

ऋषिविद्वन्नृपवरमातुलश्वशुरर्त्विजः ।
एतेऽर्घ्याश्शास्त्रविहिताः स्मृताः कालविभागशः ॥ ३६ ॥

**अनु०—**ऋषि विद्वान् पुरुष और राजा तथा मामा, श्वशुर और ऋत्विज ये शास्त्र के नियम के अनुसार अथवा अवसर के अनुसार अर्घ्य होते हैं ॥ ३६ ॥

**टि०—**ऋषि, विद्वान् पुरुष तथा राजा सर्वदा पूज्य होते हैं वे जब भी आवें उन्हें मधुपर्क दिया जाता है, किन्तु मामा और श्वशुर यदि एक वर्ष के अन्तर पर आवें तो मधुपर्काहं होते हैं, जब की ऋत्विज् याज्ञिक क्रिया के अवसर पर अर्घ्य है। ऋषि मन्त्रों के अर्थ का ज्ञाता होता है, विद्वान् वह है जो अङ्गों, इतिहास के साथ सम्पूर्ण वेद का प्रवक्ता हो। इस सम्बन्ध में गौतमधर्मसूत्र के नियम अत्यन्त स्पष्ट हैं ‘ऋत्विगाचार्यश्वशुरपितृव्यमातुलानामुपस्थाने मधुपर्कः। संवत्सरे पुनः। यज्ञविवाहयोर्वाक्। राज्ञश्च श्रोत्रियस्य।’ १।५ २५-२८ पृ० ५३-५४ ।

ऋषिर्मन्त्रार्थज्ञः। विद्वान् साङ्गस्य सेतिहासस्य वेदस्य प्रवक्ता। नृपोऽभिषिक्तः। क्षत्रियः। वरो वोढा दुहितुः। इतरे प्रसिद्धाः। अर्घ्याः मधुपर्कार्हा इति शास्त्रेण वेदेन चोदिताः स्मृताश्च स्मृतिकर्तृभिर्मन्वादिभिरप्यनुमोदिताः। यद्वा—कालविभागेन स्मृताः ॥ ३६ ॥

कोऽसौ कालविभाग इत्याह—

ऋषिविद्वन्नृपाः प्राप्ताः क्रियारम्भे वरर्त्विजौ ।
मातुलश्वशुरौ पूज्यौ संवत्सरगतागताविति ॥ ३७ ॥

**अनु०—**ऋषि, विद्वान पुरुष और राजा के आने पर उन्हें मधुपर्क से सम्मानित किया जाता है (पुंसवन्, सोमयाग आदि) यज्ञक्रिया के आरम्भ में ऋत्विज को मधुपर्क दिया जाता है। मामा और श्वशुर यदि एक वर्ष के बाद आये हों तो वे अर्घ्य होते हैं ॥ ३७ ॥

प्राप्ताः प्रभासादभ्यागताः। क्रियारम्भः पुंसवनसोमयागादीनामारम्भः। संवत्सरपर्यागतौ संवत्सरमुषित्वाऽऽगतौ ॥ ३७ ॥

अग्न्यगारे गवां मध्ये ब्राह्मणानां च सन्निधौ।
स्वाध्याये भोजने चैव दक्षिणं बाहुमुद्धरेत् ॥ ३८ ॥

Page 273Permalink

.षष्ठ : खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २२१

अनु०—जिस घर में अग्नि का आधान किया गया हो उसमें प्रवेश करते समय गायों के बीच में जाने पर, ब्राह्मणों के समीप, दैनिक स्वाध्याय के अवसर पर तथा भोजन के समय दाहिने हाथ को उठावे ॥ ३८ ॥

टि०—सूत्रस्थ 'च' शब्द से अन्य पवित्र स्थानों और शुभ अवसरों पर भी हाथ उठाने का नियम समझना चाहिए।

स्वाध्याये वर्तमाने भोजनेऽपि बाहोरुद्धरणं नमस्काररूपेण । चशब्दः प्रशस्तमङ्गल्यदेवायतनप्रज्ञातवनस्पत्यादिप्रदर्शनार्थः ॥ ३८ ॥

उत्तरं वासः कर्तव्यं पञ्चस्वेतेषु कर्मसु ।
स्वाध्यायोत्सर्गदानेषु भोजनाचमनयोस्तथा ॥ ३९ ॥

अनु०—इन पांच कामों में उत्तरीय वस्त्र अवश्य धारण करना चाहिए। स्वाध्याय, मूत्रमलत्याग, दान, भोजन तथा आचमन के समय ॥ ३९ ॥

तृतीयं वस्त्रमुपवीतवत् व्यतिषज्यते तदुत्तरीयम् । तत् स्नातकस्य प्राप्यम्-प्येषु कर्मस्ववश्यं कर्तव्यमित्युच्यते । उत्सर्गो मूत्रपुरीषकरणम् ॥ ३९ ॥

हवनं भोजनं दानमुपहारः प्रतिग्रहः ।
बहिर्जानु न कार्याणि तद्वदाचमनं स्मृतम् ॥ ४० ॥

अनु०—हवन क्रिया में भोजन करते समय, देवता गुरु आदि को बलि या उपहार देते समय तथा दान लेते समय दाहिने हाथ को घुटने से बाहर नहीं करना चाहिए और इसी प्रकार आचमन के विषय में भी नियम बताया गया है ॥ ४० ॥

जान्वोर्द्वयोरन्तरा दक्षिणं बाहुं विधायैतानि कार्याणीत्यर्थः । उपहारो बलिहरणम् । यद्वा—प्रसिद्ध एवोपहरो देवगुरुविषयः ॥ ४० ॥

अन्नदानं स्तूयते—
अन्ने श्रितानि भूतानि अन्नं प्राणमिति श्रुतिः ।
तस्मादन्नं प्रदातव्यमन्नं हि परमं हविः ॥ ४१ ॥

अनु०—प्राणी अन्न के ऊपर आश्रित होते हैं और अन्न ही प्राण है ऐसा श्रुति का वचन है अतः अन्न का दान करना चाहिए। अन्न ही सबसे उत्तम हवि है ॥ ४१ ॥

अन्ने श्रितानि अन्नावष्टम्भानि स्थावराणि जङ्गमानि च । 'अन्नं प्राणमन्नपान' मिति श्रुतिः । देवा अप्यन्नावष्टम्भा एव । हुतप्रहुतादयस्तेषामन्नानि तस्माद्यथाशक्त्या दातव्यम् ॥ ४१ ॥

Page 274Permalink

२२२ | बौधायन-धर्मसूत्रम् | [ स्नातकधर्माः

हुतेन शाम्यते पापं हुतमन्नेन शाम्यति ।
अन्नं दक्षिणया शान्तिमुपयातीति नश्श्रुतिरिति ॥ ४२ ॥

इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने षष्ठः खण्डः ॥

अनु०—हवन करने से पाप शान्त हो जाता है, हवन भी अन्न दान से शान्त होता है। अन्न दक्षिणा द्वारा-शान्ति प्राप्त करता है, ऐसा हमें श्रुति से ज्ञात होता है ॥ ४२ ॥

हुतं होमः कूष्माण्डगणहोमादिलक्षणः । तेन पापं शाम्यते । हुतविषयं च न्यूनातिरिक्तमन्नदानेन शाम्यति । अन्नदानविषयं च न्यूनातिरिक्तमस्वादु-ताकृतं प्रियवचनाभावनिमित्तं च दक्षिणया शाम्यति । वक्ष्यति होतान्—

भोजयित्वा द्विजानान्ते पायसेन च सर्पिषा ।
गोभूतलहिरण्यानि मुक्तवद्भ्यः प्रदाय च ॥ इति ।

चशब्दोऽवधारणार्थः । सर्वत्राऽत्र प्रमाणमस्माकं श्रुतिरेवेत्यर्थः । सा च 'तस्मादन्नं ददत् सर्वाण्येतानि ददाती'त्येवमादिका ॥ ४२ ॥

इति बौधायनधर्मसूत्रविवरणे गोविन्दस्वामिकृते द्वितीयप्रश्ने तृतीयोऽध्यायः ॥


द्वितीयप्रश्ने चतुर्थोऽध्यायः

सप्तमः खण्डः

यथा स्नातकस्याऽन्नदानमवश्यं कर्तव्यम्, एवमुपनीतमात्रस्य सन्ध्योपासनं प्रत्यहमवश्यं करणीयमित्याह--

अथाऽतस्सन्ध्योपासनविधिं व्याख्यास्यामः ॥ १ ॥

अनु०—इस कारण अब हम सन्ध्योपासन विधि की व्याख्या करेंगे ॥१॥
टि०—सन्ध्या रात्रि ओर दिन की सन्धिवेला को कहते हैं। इस समय ॐकार तथा व्याहृतियों के साथ गायत्री मन्त्र का जप आदि मानसिक आराधना सभी कर्मों से अधिक मंगलतर बतायी गयी है ।

अथशब्दो मङ्गलार्थः । तस्मिन् खल्वर्थे स्मर्यते—
ओङ्कारश्चाऽथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातो तस्मान्माङ्गलिकावुभौ ॥ इति ।

सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२३

Page 275Permalink

सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२३

तस्मादिति माङ्गल्यहेतुतामुपदर्शयति । सन्ध्योपासनं हि सर्वेभ्यः कर्मभ्यो मङ्गलतरम् । सन्ध्या नाम रात्रेर्वासरस्य चाऽन्तरालकालवर्ति सूर्योपासनम् । तत्र प्रणवव्याहृतिसहितस्तत्स वितुरिति मन्त्रोच्चारणजन्यस्तद्विषयस्सन्ततो मानसो व्यापारः । इदमेवाऽत्र प्रधानम् । यदन्यत्तदङ्गम् । तथा च ब्राह्मणम्- 'उद्यन्तमस्तं यन्तमादित्यमभिध्यायन् कुर्वन् ब्राह्मणो विद्वान् सकलं भद्रमश्नुते' इति । कुर्वन् प्रदक्षिणं मन्त्रोच्चारणं वा । ब्राह्मणग्रहणं ऋणश्रुतिवत् । विधि-मनुष्ठानक्रमं वक्ष्याम इति सङ्ग्रहः कृतः । तत्र कालो वक्ष्यते—'सुपूर्वामपि-पूर्वामुपक्रम्य' (२-७-१२ ) इत्यत्र ॥ १ ॥

तीर्थं गत्वाऽप्रयतोऽभिषिक्तः प्रयतो वाऽनभिषिक्तः प्रक्षालित-पादपाणिरप आचम्य सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतिभिरन्यैश्च पवित्रैरात्मानं प्रोक्ष्य प्रयतो भवति ॥२॥

अनु०—पवित्र जलाशय पर जाकर अशुद्ध होने पर स्नान कर और शुद्ध होने पर बिना स्नान किये भी, पैरों और हाथों को धोकर, आचमन कर, 'सुरभि' शब्द से युक्त ऋग्वेद के मन्त्र का उच्चारण करते हुए, अप् देवता के मन्त्रों से, वरुण देवता के मन्त्रों से हिरण्यवर्ण इत्यादि मन्त्रों से, 'पवमानः सुवर्चनः' इस अनुवाक् से, व्याहृतियों से तथा अन्य पवित्र करने वाले मन्त्रों से अपने ऊपर जल छिड़के और शुद्ध होवे॥२॥

टि०—तीर्थं से नदी, पवित्र जलाशय से तात्पर्य है । विकल्प का नियम केवल स्नान के विषय में समझना चाहिए । हाथों और पैरों के धोने का नियम दोनों ही स्थितियों में होता है, चाहे स्नान किये हो या न किये हो ।

हाथ को कलाई तक धोने का नियम है । आचमन मन्त्रोच्चारण के साथ होता है । सायंकाल आचमन का मन्त्र है 'अग्निश्च मा मन्युश्च' और प्रातःकालीन आचमन का मन्त्र है 'सूर्यश्च मा मन्युश्च' । स्नान भी 'हिरण्यशृङ्गम्' आदि मन्त्र से होता है । 'सुरभि' शब्द वाला मन्त्र 'दधिक्राव्णः' आदि है । 'आपो हि' इत्यादि तीन मन्त्र अब्दिङ्ग हैं । वरुण देवता के मन्त्र 'यच्चिद्धि ते' आदि तीन मन्त्र, अथवा कुछ लोगों के अनुसार 'अव ते हेड' ' इमं मे वरुण' मन्त्र है । 'हिरण्यवर्णाः' इत्यादि चार मन्त्र हैं । ये मन्त्र पूर्णतः इस प्रकार हैं”

अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यदह्ना पापम-कार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । अहस्तदवलुम्पतु यत्कि-ञ्च दुरितं मयि । इदमहं माममृतयोनौ । सत्ये ज्योतिषि जुहोमि स्वाहा ॥

सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यद्रात्र्या पापमकार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्पतु।

Page 276Permalink

२२४ बौधायन-धर्मसूत्रम् [सन्ध्योपासनम्

यत्किञ्च दुरितं मयि । इदमह माममृतयोनौ । सूर्ये ज्योतिषि जुहोमि स्वाहा ॥ ( महा-नारायणोपनिषद् २४.२५)

दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखात् कर प्रण आयूंषि तारिषत् ॥

आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वःशिव-तमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः । तस्मा अरंगमामवो यस्य क्षयाय जिन्वथ आपो जनयथा च नः ।

यच्चिद्धि ते विशो यथा प्रदेव वरुण व्रतम् । मिनीमसि द्यवि द्यवि ॥ यत्किञ्चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि । अचित्ती यत्तव धर्मा युयोपिम । मा नस्त-स्मादेनसो देव रीरिषः ॥ कितवासो यद्रिपुर्नदीवि यद्वा घा सत्यमुत यन्न विद्म सर्वा तो विष्य शिथिरेव देवाऽथाते स्याम वरुण प्रियासः ॥

कर्तृसंस्कारोऽयम् । तीर्थं नदी देवखातादि बहिर्ग्रामाज्जलाशयः । तत्र गत-स्सन्प्रयतश्चेत् स्नायादेव । प्रयतश्चेन्न स्नायात् । स्नानास्नानयोर्विकल्पः । स च शक्त्यपेक्षः प्रक्षालितपादपाणिरित्यादि अभिषिक्तानभिषिक्तयोस्साधारणम् । प्रक्षालनं चाऽऽमणिबन्धात् । 'अभ्यर्हितं पूर्वम्' इति पाणेः^१ पूर्वनिपाताभावश्छां-न्दसः । अत्राऽपामाचमनं समन्त्रं वेदितव्यम् । मन्त्रश्च—^२'अग्निश्च मा मन्यु-श्चे'त्यनुवाकः सायङ्काले । ^३ 'सूर्यश्च' मा मन्युश्चेति प्रातः । प्रत्यहं हस्तपादादिभिः पापकरणस्याऽवश्यंभावित्वात्तदवलोपनसमर्थत्वाच्चैतयोः । स्नानप्रक्षालनाच-मनप्रोक्षणानि च बाह्याभ्यन्तरमलावलोपनार्थानीति गम्यते । प्रयतो भवतीति सूत्रान्ते निगमनात् । अत एव च स्नानमप्यत्र ^४ 'हिरण्यशृङ्ग' मित्येवमादिभि-भिस्समन्त्रकमेव द्रष्टव्यम् । वक्ष्यति सन्ध्योपासनफलप्रदर्शनवेलायां मान्त्रव-


^१. पूर्वनिपाते सिद्धेऽप्यपूर्वनिपातश्छान्दसः इति. ग. पु. ।
^२. अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यदह्ना पापमकार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । अहस्तदवलुम्पतु यत्किञ्च दुरितं मयि । इदमहं माममृतयोनौ । सत्ये ज्योतिषि जुहोमि स्वाहा ॥
^३. सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यद्रात्र्या पापमकार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । रात्रिस्तदवलुम्पतु । यत्किञ्च दुरितं मयि । इदमहं माममृतयोनौ । सूर्ये ज्योतिषि जुहोमि स्वाहा ॥ ( महानारायणोप० २४-२५ ) इति समग्रो मन्त्रो ।
^४. अनुवाकस्समग्रः पठनीयः स्नानकाले इति सम्प्रदायः। स च महानारायणो-पनिषदि द्रष्टव्यः ।