BharatKosha
Back to the archive

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

by महर्षि बौधायन

Source: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (origin)

DevanagariHindipublished486 pages

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३१

Page 383Permalink

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३१

अनात्मकृतस्याऽप्येनसो निर्णोदो भवतीत्याह— एकादशरात्रं पीत्वा पूर्वपुरुषकृतमपि पापं निर्णुदति ॥ १९ ॥

अनु०— ग्यारह दिन-रात्रि पान करने पर पूर्वजों का किया हुआ पाप भी नष्ट हो जाता है ॥ १९ ॥

पूर्वपुरुषः पितृप्रभृतयः ॥ १९ ॥

अपि वा गोनिष्क्रान्तानां यवानामेकविंशतिरात्रं पीत्वा गणान् पश्यति गणाधिपतिं पश्यति विद्यां पश्यति विद्याधिपतिं पश्यतीत्याह भगवान् बौधायनः ॥ २० ॥

अनु०— जो गो के नीचे से निकाले हुए यावक का इक्कीस दिन-रात्रि तक पान करता है वह गणों का और गणाधिपति का दर्शन करता है, विद्या का दर्शन करता है और विद्याधिपति का दर्शन करता है। ऐसा भगवान् बौधायन ने उपदेश दिया है ॥ २० ॥

गोभ्यो जठरस्थशकृद्भिस्सह निष्क्रान्तानाम् । भूयस्येषा प्रशंसाऽस्य कर्मणः ॥ २० ॥

इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते तृतीयप्रश्ने षष्ठः खण्डोऽध्यायश्च


तृतीयप्रश्ने सप्तमोऽध्यायः

सप्तमः खण्डः

अयमपि पापनिवर्हणप्रसङ्गादेवाऽध्याय आरभ्यते । अथ कूष्माण्डमुच्यते— 'अथ कूष्माण्डैर्जुहुयाद्योऽपूत इव मन्येत ॥ १ ॥

अनु०— जो व्यक्ति अपने को अपवित्र जैसा समझता हो वह कूष्माण्ड मन्त्रों का उच्चारण करते हुए हवन करे ॥ १ ॥


१. इतः प्रभृति सूत्रत्रयं तैत्तिरीयारण्यकगतकूष्माण्डविधेः ( तै. आ. २: ८ ) अक्षरशोऽनुवादः । "अथ" इति व्याख्यानपुस्तकेषु नाऽस्ति ।

Page 384Permalink
३३२बौधायन-धर्मसूत्रम्[ कूष्माण्डहोमः

कूष्माण्डानि वक्ष्यमाणां यद्देवाद्यो मन्त्राः। जुहुयादिति सोपस्थानस्य ग्रहणम्, प्रायश्चित्ते कृतेऽप्यपूत इव यो मन्येत ॥ १ ॥
तमुदाहरति

यथा स्तेनो यथा भ्रूणहैवमेष भवति योऽयोनौ रेतस्सिञ्चति ॥ २ ॥

अनु०— जैसे सुवर्ण चुराने वाला और विद्वान् ब्राह्मण का हत्या करने वाला पापी होता है उसी प्रकार वह व्यक्ति भी पापी होता है जो निषिद्ध मैथुन कर्म में या योनि से भिन्न अप्राकृतिक मैथुन कर्म में वीर्यस्खलन करता है ॥ २ ॥

यथा स्तेन इति । सुवर्णस्येति शेषः । प्रदर्शनार्थं चैतन्महापातकानाम् । महापातकप्रायश्चित्ते कृतेऽपि अपूत इव यो मन्येतेत्यर्थः । एवमेषोऽपूतो भवति योऽयोनौ रेतस्सिञ्चति । अयोनौ रेतस्सेको ब्रह्महत्यासम इति तस्य निन्दा-स्तुतिः—

उत्सृजेदात्मनश्शुक्रमक्षेत्रे कामतो नरः।
हतं तेन जगत्सर्वं बीजनाशेन पापिना॥
न ब्रह्महा ब्रह्महा स्यात् ब्रह्महा वृषलीपतिः।
यस्तस्यां गर्भमाधत्ते तेनाऽसौ ब्रह्महा भवेत् ॥ इति ॥ २ ॥

अन्यदपि—
यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यत इति ॥ ३ ॥

अनु०— विद्वान् ब्राह्मण की हत्या की अपेक्षा जो कम घोर पाप हैं उनसे वह व्यक्ति मुक्त हो जाता है ऐसा श्रुति का कथन है ॥ ३ ॥

श्रुतिमेवाऽऽत्मीयत्वेन पठित्वा तस्या अभिप्रायमाह, तस्या एव वाक्यशेषं वा ॥ ३ ॥

अयोनौ रेतस्सिक्त्वान्यत्र स्वप्नात् ॥ ४ ॥
अरेपा वा पवित्रकामो वा ॥ ५ ॥

अनु०— स्वप्नदोष की स्थिति से अतिरिक्त स्त्रीयोनि से भिन्न स्थान पर वीर्य पात करने पर यदि पाप से मुक्त होना और पवित्र होना चाहे तो निम्नलिखित विधि करे ॥ ४-५ ॥

श्रुतौ ह्यश्रुतमेतत् 'अन्यत्र स्वप्नात्' इति ॥ ४ ॥
रेप इति पापनाम । तदस्य न विद्यते सोऽरेपाः । तथा च ब्राह्मणम्—
'पवित्रं नो ब्रूत येनाऽरेपसस्स्यामेति यद्देवा देवहेळनं यद्दीव्यन्तृणमहं बभू-

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३३

Page 385Permalink

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३३

वाऽऽयुष्टे विश्वतो दधदित्येतैराज्यं जुहुयात्, वैश्वानराय प्रतिवेदयाम इत्युपति- ष्ठत इति । पवित्रकामो वा जुहुयादित्येष । न वैसशरीरस्य सतः पापापहतिर- स्तीत्यभिप्रायः ॥ ५ ॥

अमावास्यायां पौर्णमास्यां वा केशश्मश्रुलोमनखानि वापयित्वा ब्रह्मचारिकल्पेन व्रतमुपैति ॥ ६ ॥

अनु०—अमावास्या या पौर्णमासी के दिन केश, दाढ़ी मूँछ, रोएँ और नखों को कटाकर ब्रह्मचारी के लिए विहित विधि के अनुसार व्रत का आचरण करे ॥ ६ ॥

पर्वण्युपक्रमः । ब्रह्मचारिकल्पो मधुमांसादिवर्जनम् । इत्थंभूतलक्षणे तृतीया । व्रतं सङ्कल्पः—कूष्माण्डैर्होण्यामीति ॥ ६ ॥

संवत्सरं मासं चतुर्विंशत्यहो द्वादश रात्रीः षट् तिस्रो वा ॥ ७ ॥

अनु०—उपयुक्त व्रत एक वर्ष, एक मास, चौबीस दिन, बारह रात्रियों, छः रात्रियों या तीन रात्रियों तक करे ॥ ७ ॥

इमे श्रुतिसिद्धाः कल्पाः । एतेषां च व्यवस्था 'यावदेनो दीक्षामुपैति' इति ॥ ७ ॥

न मांसमश्नीयान्न स्त्रियमुपेयान्नोपर्यासीत जुगुप्सेताऽनृतात् ॥८॥

अनु०—मांस का भक्षण न करे । स्त्रीगमन, आसन, चारपाई आदि पर न बैठे और असत्य भाषण से दूर रहे ॥ ८ ॥

टि०—गोविन्दस्वामी के अनुसार इस व्रत में भी ऋतुकाल में पत्नीगमन विहित है । तृणादि के आसन पर बैठने में कोई दोष नहीं है । औषध के प्रयोजन से भी मांस भक्षण न करे ।

अनृतौ नोपेयादिति ऋतौ चोपेयादेव उपर्यासननिषेधः खट्वादाँ । ततश्च तृणादावुपर्यासने न दोषः । जुगुप्सा निन्दा । नाऽनृतं वदेदित्यर्थः । ब्रह्मचा- रिकल्पेनेत्यनेनैव मांसभक्षणादेरभावे सिद्धे संयोगपृथक्त्वत् । कर्माङ्गत्वमप्य- वगम्यते । एवं च तदतिक्रमे कर्मैव निष्फलं भवति । अतश्चौषधार्थमपि मांसं न भक्षयितव्यमिति गम्यते ॥ ८ ॥

अथ भक्षनियमः—

पयो भक्ष इति प्रथमः कल्पः ॥ ९ ॥

अनु०—दूध पीकर जीवन निर्वाह करना सबसे उत्तम विधि है ॥ ९ ॥

निगदव्याख्यातमेतत् ॥ ९ ॥

Page 386Permalink
३३४बौधायन-धर्मसूत्रम्[ कूष्माण्डहोमः

यावकं वोपयुञ्जानः कृच्छ्रद्वादशरात्रं चरेद्भिक्षेद्वा तद्विधेषु यवागूं राजन्यो वैश्य आमिक्षाम् ॥ १० ॥

अनु०— अथवा यावक का भोजन के रूप में प्रयोग करते हुए बारह दिनों का कृच्छ्र व्रत करे अथवा भिक्षा से जीवन निर्वाह करे । ऐसी स्थिति में क्षत्रिय यवागू का भक्षण करे और वैश्य आमिक्षा का भक्षण करे ॥ १० ॥

उपयुञ्जानो जुहुयादिति शेषः । तप्ते पयसि दध्याननीते यच्छ्नं सा आमिक्षा भवति ॥ १० ॥

पूर्वाह्णे पाकयज्ञिकधर्मेणाऽग्निमुपसमाधाय सम्परिस्तीर्याऽऽग्नि-मुखात्कृत्वा । ‘“यद्देवा देवहेलनम्” ।

१. यद्देवा देवहेलनन्देवासश्चकृमा वयम् । आदित्यास्तस्मान्मा मुञ्चतर्त्तंस्यर्तेन मामित ॥ १ ॥ देवा जीवनकाम्या यद्वाचाऽनृतमूदिम । तस्मान्न इह मुञ्चत विश्वे देवासस्सजोषसः ॥ २ ॥ ऋतेन द्यावापृथिवी ऋतेन त्वꣳसरस्वति । कृतान्नः पाहिनेनसो यत्किञ्चाऽनृतमूदिम ॥ ३ ॥ इन्द्राग्नी मित्रावरुणौ सोमो धाता बृहस्पतिः । तैनो मुञ्चन्त्वेनसो यदन्यकृतमास्म ॥ ४ ॥ सजातशꣳसादुतजामिशꣳसाज्ज्यायसश्शꣳ-सादुत वा कनीयसः । अनाधृष्टन्देवेकृतं यदेनस्तस्मात्त्वमस्माज्जातवेदो मुमुग्धि ॥ ५ ॥ यद्वाचा यन्मनसा बाहुभ्यामूरुभ्यामष्ठीवद्भ्याꣳशिश्नैर्यदनृतं चकृमा वयम् । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु चकृम यानि दुष्कृता ॥ ६ ॥ येन ध्रितो अर्णवा-न्व्विभूर्येन सुयन्तमसो निमुंमोच । येनेन्द्रो विश्वा अजयदारातीस्तेनाहं ज्योतिषा ज्योतिरानशान आक्षि ॥ ७ ॥ यत्कुसीदमप्रतीतं मयेह येन यमस्य निधिना चरामि । एतत्तदग्ने अनृणो भवामि जीवन्नेव प्रतितत्ते दधामि ॥ ८ ॥ यन्मयि माता गर्भ सत्येनञ्चकार यत्पिता । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ ९ ॥ यदा पिपेष मातरं पितरं पुत्रः प्रमुदितो धयन् । पहिं-सितौ पितरो मया तत्तदग्ने अनृणो भवामि ॥ १० ॥ यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिꣳसिम । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ ११ ॥ यदाशसा निशसा यत्पराशसा यदेनश्चकृमा नूतनं यत्पुराणम् । अग्निर्मा० मनेनसम् ॥ १२ ॥ अतिक्रामामि दुरितं यदेनो जहामि रिप्रं परमे सधस्थे । यत्र यन्ति सुकृतो नाऽपि दुष्कृतस्तमारोहामि सुकृतान्नु लोकम् ॥ १३ ॥ ऋते देवा अपुञ्जतैतदेनस्तित एतन्मनुष्येषु मामृजे । ततो मा यदि किञ्चि-दानशेऽग्निर्मा तस्मादेनसो० मनेनसम् ॥ १४ ॥ दिवि जाता अप्सु जाता या जाता ओषधीभ्यः । अथो या अग्निजा आपस्तानश्शुन्धन्तु शुन्धनीः ॥ १५ ॥ यदापो नक्तं

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्याय. ३३५

Page 387Permalink

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्याय. ३३५

"‘यददीव्यन्नृणमहं बभूव" । "आयुष्टे विश्वतो दध"दित्येतैस्त्रि-

दुरितं चराम यद्वा दिवा नूतनं यत्पुराणम् । हिरण्यवर्णास्तत उत्पुनीत नः ॥ १६ ॥ इमं मे वरुण श्रुधी हवमद्या च मृळय । त्वामवस्युराचके ॥ १७ ॥ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेळमानो वरुणेह बोध्युरुशंस मा न आयुः प्रमोषीः ॥ १८ ॥ त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेळोऽव यासि- सीष्ठाः । यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाꣳसि प्रमुमुग्ध्यस्मत् ॥ १९ ॥ स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणंꣳ- रराणो वीहि मृळीकꣳसुहवो न एधि ॥ २० ॥ त्वमग्ने अयास्ययासन् मनसा हितः । अयासन् हव्यमूहिषेऽया नो धेहि भेषजम् ॥ २१॥ ( तै० आ० २. ३.) इति कूष्माण्डे ष्वाद्योऽनुवाकः ॥

१. यददीव्यन्नृणमहं बभूवाऽदिसन्त्वासञ्जगर जनेभ्यः । अग्निर्मा तस्मादिन्द्रश्च संविदानौ प्रमुञ्चताम् ॥ २२ ॥ यद्धस्ताभ्याञ्चकर किल्बिषाण्यक्षाणां वग्नुमुपजिघ्न- मानः । उग्रं पश्या च राष्ट्रभृच्च तान्यप्सरसावनुदत्तामृणानि ॥ २३ ॥ उग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तमनुदत्तमेतत् । नेन्न ऋणानुणच इच्छमानो यमस्य लोके अधि रज्जुरायात् ॥ २४ ॥ अव ते हेळः ॥ २५ ॥ उदुत्तमं ॥ २६ ॥ इमं मे वरुण ॥ २७ ॥ तत्त्वा यामि ॥ २८ ॥ त्वन्नो अग्ने ॥ २९ ॥ स त्वन्नो अग्ने ॥ ३० ॥ संकुसुको विकुसुको निष्क्रंयो यश्च निस्वनः । तेऽस्मत्क्षममनागसो दूराद् दूरमचीचतम् ॥ ३१ ॥ निर्यक्षममचीचते कृत्यान्निऋ॑तित्त्वि । तेनान्योऽस्मत्समुच्छाते तमस्मै प्रसु- वामसि ॥ ३१ ॥ दुष्ष्वप्नाꣳसानुष्वप्नाꣳसाभ्यां घणेनानुघणेन च । तेनान्योऽस्मत्समु- च्छाते तमस्मै प्रसुवामसि ॥ ३२ ॥ संवर्धसा पयसा सन्तनूभिरगन्महि मनसा सꣳ- शिवेन । त्वष्टा नो अत्र विदधातु रायोऽनुमाष्टुं तन्वो १ यद्विलिष्टम् ॥ ३३ ॥ ( तै० ब्रा० २.४ ) [इति द्वितीयोऽनुवाकः ।

२. आयुष्टे विश्वतो दधदयमग्निवरेण्यः । पुनस्ते प्राण आयाति परा यक्ष्मं ए सुवामि ते ॥ ३४ ॥ आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरैधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभिरक्षतादिमम् ॥ ३५ ॥ इममग्न आयुषे वर्चसे कृधि तिग्ममोजो वरुण सꣳशिशाधि । मातेवाऽस्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथाऽसत् ॥ ३६ ॥ अग्न आयूंषि पवस आसुवोर्जमिषञ्च नः । आरे बाधस्व दुच्छुनाम् ॥ ३७ ॥ अग्ने पवस्व स्वपा अस्मे वर्चस्सुवीर्यम् । दधद्रयिं मयि पोषम् ॥ ३८ ॥ अग्निश्चि॑षिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयम् ॥ ३९ ॥ अग्ने जातान् प्रणुदानस्सपत्नान् प्रत्यजातान् जातवेदो नुदस्व । अस्मे दीदिहि सुमना अहेळञ्छमंन्ते स्याम त्रिवरूथ उद्ग्रौ ॥ ४० ॥ सहसा जातान् प्रणुदानस्स-

Page 388Permalink
३३६बौधायन-धर्मसूत्रम्[ कूष्माण्डहोमः

दित्यनुवाकैः प्रत्यृचमाज्यस्य हुत्वा १"सिंहे व्याघ्र उत या पृदाकावि"ति चतस्रस्स्रुवाहुतीः जुहोति । २"अग्नेऽभ्यावर्तिन् । अग्ने अङ्गिरः । पुनरूर्जा । सह रय्ये"ति चतस्रोऽभ्यावर्तिनीर्हुत्वा समित्पाणिर्यजमान-


षत्नान् प्रस्यजातान् जातवेदो नुदस्व । अधि नो ब्रूहि सुमनस्यमानो वयँस्याम प्रमृदानस्सपत्नान् ॥ ४१ ॥ अग्ने यो नोऽभितो जनो वृको वारोजिघांसति । ताँस्त्वं वृत्रहञ्जहि वस्वस्मभ्यमाभर ॥ ४२ ॥ अग्ने यों नोऽभिदासति समानो यश्चनिष्ट्यः । तं व समिधं कृत्वा यङ्क्तुमग्नेऽपि दध्मसि ॥ ४३ ॥ यो नश्शपादशपतो यश्च नश्शपतश्शपात् । उषाश्च तस्मै निऋतिश्च सर्वं पापँ समूहताम् ॥ ४४ ॥ यो नस्स पत्नो यो रणो मतोंऽभिदासति देवः । इध्मस्येव प्रक्षायतो मात्तस्योच्छेषि किञ्चन ॥ ४५ ॥ यो मां द्वेष्टि जातवेदो यञ्चाहं द्वेषिम यश्च माम् । सर्वाँस्तानग्ने सन्दह याँश्चाहं द्वेषिम ये च माम् ॥ ४६ ॥ यो अस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः । निन्दाद्यो अस्मादिप्साच्च सर्वाँस्तान्मष्मषा कुरु ॥ ४७ ॥ सँशितं मे ब्रह्मसँशितं वीर्यां १ बलम् । सँशितंक्षत्रं मे जिष्णु यस्याऽहमस्मि पुरोहितः ॥४८॥ उदेषां बाहू अतिरमुद्धर्चो अथोबलम् । क्षिणोमि ब्रह्मणाऽमित्रानुन्नयामि स्वां१ अहम् ॥ ४९ ॥ पुनर्मनः पुनरायुर्म आगात् पुनश्चक्षुः पुनश्श्रोत्रम्म आगात् पुनः प्राणः पुनराकूतं म आगात्पुनश्चित्तं पुनराधीतं म आगात् । वैश्वानरोऽदब्धस्तनूपा अव बाधतां दुरितानि विश्वा ॥ ५० ॥ ( तै० आ० २. ५. ) इति तृतीयोऽनुवाकः ।

१. सिङ्हे व्याघ्र उत या पृदाकौ । त्विषिरग्नो ब्राह्मणे सूर्ये या । इन्द्रं या देवी सुभगा जजान । सा न आगन् वर्चसा संविदाना ॥ १ ॥ या राजन्ये दुन्दुभाव्वायतायाम् । अश्वस्य क्रन्थे पुरुषस्य मायौ । इन्द्रं या देवी सुभगा जजान । साँ न आगन् वर्चसा सम्विदाना ॥ २ ॥ या हस्तिनि द्वीपिनि या हिरण्ये । त्विषिरश्वेषु पुरुषेषु गोषु । इन्द्रं या देवी सुभगा जजान । सा न आगन् वर्चसा सम्विदाना ॥ ३ ॥ रथे अक्षेषु वृषभस्य वाजे । वाते पर्जन्ये वरुणस्य शुष्मे । इन्द्रं या देवी सुभगा जजान । सा न आगन् वर्चसा सम्विदाना ॥ ४ ॥ ( तै० सं० २.७.७. ) इति चत्वारो मन्त्राः एकेकेन मन्त्रेणैकाहुतिः कर्तव्या ॥

२. अग्नेऽभ्यावर्तिन्नभि न आवर्तस्वाऽऽयुषा वर्चसा सन्या मेधया धनेन ॥ १ ॥ अग्ने अङ्गिरश्शतं ते सङ्गावृत्तस्स्रहस्रन्त उपावृतः । तासां पोषस्य पोषेण पुनर्नो नष्टमा कृधि पुनर्नो रयिमा कृधि ॥ २ ॥ पुनरूर्जा निवर्तस्व पुनरग्न इषाऽऽयुषा । पुनर्नः पाहि विश्वतः ॥ ३ ॥ सहरय्या निवर्तस्वाऽग्ने पिन्वस्व धारया । विश्वाप्स्निया विश्वतस्परि ॥ ४ ॥ इति चतस्रोऽभ्यावर्तिन्यः ( तै. सं. ४.२ १.२. ) ॥

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३७

Page 389Permalink

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३७

लोकेऽवस्थाय ^१"वैश्वानराय प्रतिवेदयाम" इति द्वादशर्चेन सूक्तेनो- पस्थाय ^२"यन्मे मनसा वाचा कृतमेनः कदाचन । 'सर्वस्मान्मेळित्तो मोग्धि त्वं हि वेत्थ यथातथँ स्वाहे"ति समिधमाधाय वरं ददाति ॥ ११ ॥

**अनु०—**पूर्वाह्नमें पाकयज्ञ की विधि के अनुसार अग्नि को प्रज्वलित कर उसके चारो ओर कुश फैलाकर अग्निमुख तक की क्रियाएँ कर 'यद्देवा देवहेळनम्' "यददीव्यन्नृणमहं बभूव" "आयुष्टे विश्वतो दधत्" आदि तीन अनुवाकों से प्रत्येक ऋचा के उच्चारण के साथ घृत का हवन करे उसके बाद "सिंहे व्याघ्र उत या पृदाकौ" आदि (तैत्तिरीय संहिता २.७.७) से स्रुवा द्वारा चार आहुतियाँ करे । इसके बाद "अग्नेऽभ्यावर्त्तिन्नभि न आवर्त्तस्वाऽऽ युषा वर्चसा सन्या मेधया प्रजया धनेन ।" "अग्ने अङ्गिरश्शतं ते सन्त्वावृतस्ससहस्रन्त उपावृतः । तासां पोषस्य पोषेण

१. वैश्वानराय प्रतिवेदयामो यदीतृणग् सङ्गरो देवतासु । स एतान् पाशान् प्रमु- ञ्चन् प्रवेद स नो मुञ्चातु दुरितादवद्यात् ॥ १ ॥ वैश्वानरः पवमानः पवित्रेणैत्सङ्गर- मभिधावाम्याशाम् । अनाजानन् मनसा याचमानो यदन्नो अव तत्सुवामि ॥ २ ॥ अमी ये सुभगे दिवि विचृतौ नाम तारके । प्रेहामृतस्य यच्छतामेतद्बद्धकमोचनम् ॥३॥ विजिहीष्वं लोकान् कृधि बन्धाम्मुञ्चासि बद्धकम् । योनेरिव प्रच्युतो गर्भस्सर्वान् पथो अनुष्व ॥ ४ ॥ स प्रजानन् प्रतिगृह्णीत विद्वान् प्रजापतिः प्रथमजा ऋतस्य । अस्मा- भिर्दत्तं जरसः परस्तादच्छिन्नं तन्तुमनुसञ्चरेम ॥ ५ ॥ ततं तन्तुमन्वेके अनुसञ्चर- न्ति येषां दत्तं पित्र्यमायनवत् । अबन्ध्वेके ददतः प्रयच्छाद्वातुं चेच्छक्नवाँस स्वर्गं एषाम् ॥ ६ ॥ आरभेथामनुसंरभेथाँ समानं पन्थामवथो घृतेन । यद्वां पूतं परि- विष्टं यदग्नी तस्मै गोत्रायेह जायापती सँरभेयाम् ॥ ७ ॥ यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिँसिम । अग्निर्मा तस्मादेनसो गार्हपत्य उभोनेषद्दुरिता यानि चकृम ॥ ८ ॥ सूरिर्माताऽदितिर्नो जनित्रं भ्राताऽन्तरिक्षमभि शस्त एनः । द्यौर्नः पिता पितृयाच्छं भवाति जामिमित्वा मा विवित्सि लोकान् ॥ ९ ॥ यत्र सुहार्दस्सुकृतो मदन्ते विहाय रोगं तन्वाँस्वायाम् । अश्रोणाङ्गै रह्रुतास्स्वर्गे तत्र पश्येम पितरं च पुत्रम् ॥ १० ॥ यदक्षमद्यमघमृतेन देवा दास्यन्नदास्यन्नुत वा करि- ष्यन् । यद्देवानां चक्षुष्यागो अस्ति यदैव किञ्च प्रतिजग्राहमग्निर्मा तस्मादनृणं कृणोतु ॥ ११ ॥ यदसमद्मि बहुधा विरूपं वासो हिरण्यमुत गामजामविम् । यद्देवानां चक्षुष्यागो अस्ति यदैव किञ्च प्रतिजग्राहमग्निर्मातस्मादनृणं कृणोतु ॥ १२ ॥


२. यन्मे मनसा वाचा...। सर्वस्मान्मेदितो मोग्धि" इत्येव 'इ' भिन्नेषु सर्वेषु मूलपुस्तकेषु पाठः ।
२५ बौ०गृ०

Page 390Permalink
३३८बौधायन-धर्मसूत्रम्[ कूष्माण्डहोमः

पुनर्नो नष्टमा कृषि पुनर्नो रयिमा कृषि”, “पुनरुर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाहि विश्वतः ॥” “सहस्रथ्या निवर्तस्वाग्ने पिन्वस्व धारया । विश्वाप्सिन्या विश्वतस्परि” ( तैत्तिरीय संहिता ४.२.१.२ ) के चार मन्त्रों से चार अभ्यावर्तिनी आहुतियाँ करे यजमान के आसन पर बैठकर हाथ में समिध् लेकर “वैश्वानराय प्रतिवेदयाम आदि बारह ऋचाओं वाले सूक्त से अग्नि की पूजा करे “यन्मे मनसा वाचा कृतमेनः कदाचन । सर्वस्मान्मेळितो मोग्धि त्वं हि वेत्थ यथातथम्, स्वाहा” ( मैंने मन से, वाणी से जो कुछ पाप कभी किए हैं उन सभी से तुम मुझे मुक्त करो । मैं तुम्हारी प्रार्थना करता हूँ, तुम सभी को सही रूप में जानते हो ) इस मन्त्र से अग्नि पर समिध् रखे और उत्तम गौ दक्षिणा के रूप में प्रदान करे ॥ ११ ॥

पाकयज्ञधर्मग्रहणादाहवनीयो निवर्तते । अग्निमुखात्कृत्वाऽनाम्नातया पक्वहोमं कृत्वा सौविष्टकृतं च । यद्देवादेव उपहोमाः । यजमानलोके दक्षिणतोऽग्नेः । अन्यत्राऽप्युपस्थानचोदनायां समित्पाणिता समिदभ्याधानं च द्रष्टव्यम् । 'यन्मे मनसेत्यस्य वामदेवर्षिः कण्वर्षिर्वा । अनुष्टुप्छन्दः । अग्निदेवता यद्वाङ्मनसाभ्यां कृतमेनः कस्यां चिदवस्थायां तस्मात् सर्वस्मात् मा मां ईळितः स्तुतः त्वं मोग्धिं मोचय; हि यस्मात् वेत्थ त्वमेव सर्वं यथातथं वेत्सि परितः । वरः वरिष्ठा गौः ॥ ११ ॥

जयप्रभृति सिद्धमा धेनुवरप्रदानात् ॥ १२ ॥

एक एवाऽग्नौ परिचर्यायाम् ॥ १३ ॥

अनु०— मन्त्रों के जप से लेकर दक्षिणा में गौ का दान करने तक की क्रियाएँ ज्ञात ही हैं ॥ १२ ॥

अनु०— केवल एक ही व्यक्ति अग्नि की परिचर्या का कर्म करे ॥ १३ ॥

येयमग्नौ परिचर्या उक्ता, तस्यामेक एव स्वयं कर्ता स्यात् नाऽन्यं कर्तारं वृणीते । तस्मादन्यत्र पापक्षपणेषु परकर्तृकताऽपि भवतीति गम्यते । अग्नावित्येकवचननिर्देशाच्चाऽस्मिन्नेतत्स्वयं कर्तव्यम्, न त्वाहवनीयेऽपि । तत्र ह्यानादिष्टेऽध्वर्युणैव होतव्यमित्येतदेव ॥ १३ ॥

एवं तावत्पुरुषार्थतया होमविधिरुक्तः । अथेदानीं ‘कर्मादिष्वेवैतैर्जुहुयात्’ इत्येतद्व्याख्यास्यान्नाह—

अग्न्याधेये यद्देवोदेवमहेलनम् । यद्दीव्यन्नृणमहं बभूव । आयुष्टे विश्वतो दधदिति पूर्णाहुतिम् ॥ १४ ॥


१. “यन्मे मनसा” इति ख. ग घ. पु. पाठः ।

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३९

Page 391Permalink

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३९

अनु०—अग्न्याधेय में "यदद्वो देवहेलनम् । यददीव्यन्नृणमहं बभूव आयुष्टे विश्वतो दधत्" मन्त्र से पूर्णाहुति करे ॥ १४ ॥

जुहुयादिति शेषः ॥ १४ ॥

अग्निहोत्रं दर्शयितुमाह—

'हुत्वाऽग्निहोत्रमारप्स्यमानो दशहोत्रा हुत्वा दर्शपूर्णमासावार- प्स्यमानश्चतुर्होत्रा हुत्वा चातुर्मास्यान्यारप्स्यमानः पञ्चहोत्रा हुत्वा पशुबन्धे षड्ढोत्रा सोमे सप्तहोत्रा ॥ १५ ॥

अनु०—इस पूर्णाहुति के बाद जो अग्निहोत्र आरम्भ करने वाला हो वह 'चित्तिस्स्रुक्' आदि अनुवाक के दशहोतृ नाम के मन्त्रों से पूजन करे। इस आहुति के बाद दर्शपूर्णमास आरम्भ करने वाला 'पृथिवी होता' आदि चतुर्होतृ मन्त्रों से पूजन करे। इस आहुति के बाद चातुर्मास्य यज्ञ आरम्भ करने वाला 'अग्निर्होता' आदि पञ्चहोतृ मन्त्रों से पूजन करे। इस आहुति के बाद पशुबन्ध यज्ञ में करने वाले 'वाग्घोता' आदि षड्ढोता मन्त्रों से पूजन करे और सोम यज्ञ में 'महाहविः' सप्तहोतृ मन्त्र से पूजन करे ॥ १५ ॥

^२दशहोता 'चित्तिस्स्रुक्' इत्यनुवाकः ^३'पृथिवी होता' चतुर्होता । ^४'अग्नि-


१. सूत्रस्याऽस्य मूलभूतानि श्रुतिवाक्यानि—तैत्तिरीयब्राह्मणे द्वितीयाष्टके ( काण्डे ) द्वितीयानुवाके—"तेनैवोद्धृत्याऽग्निहोत्रं जुहुयात्" । "दर्शपूर्णमासावा- लभमानः चतुर्होतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्" । "चातुर्मास्यान्यालभमानः पञ्चहोतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्" । "पशुबन्धेन यक्ष्यमाणः षड्ढोतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्" । "दीक्षिष्यमाणः सप्तहोतारं मनसाऽनुद्रुत्याऽऽह- वनीये जुहुयात्" इति वाक्यान्यनुसन्धेयानि ।

२. चित्तिस्स्रुक् । चित्तमाज्यम् । वाग्वेदः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाऽध्वर्युः । वाच- स्पते विधे नामन् । विधेस्त्वमस्माकं नाम । वाचस्पतिस्सोमं पिबतु । अस्मासु नृम्णन्धास्स्वाहा ॥ इति दशहोता ॥

३. पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता । वाचस्पते वाचो वीर्येण । सम्भृततमेनाऽऽयक्ष्यसे । यजमानाय वार्यम् । आसुवस्करस्मै । वाचस्पतिस्सोमं पिबति । जजनदिन्द्रमिन्द्रियाय स्वाहा ॥ इति चतुर्होता ॥

४. अग्निह्रोता । अश्विनावध्वर्यू । त्वष्टाऽग्नीत् । मित्र उपवक्ता । सोमस्सो- मस्य पुरोगाः । शुक्रश्शुक्रस्य पुरोगाः । आतास्त इन्द्र सोमाः वातापेहंवनश्शुतस्स्वाहा ॥ इति पञ्चहोता ।

Page 392Permalink
३३८बौधायन-धर्मसूत्रम्[ कूष्माण्डहोमः

पुनर्नो नष्टमा कृषि पुनर्नो रयिमा कृषि", "पुनरूर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाहि विश्वतः ॥" "सहस्रथ्या निवर्तस्वाग्ने पिन्वस्व धारया । विश्वाप्सिन्या विश्वतस्परि" ( तैत्तिरीय संहिता ४.२.१.२ ) के चार मन्त्रों से चार अभ्यावर्तिनी आहुतियां करे यजमान के आसन पर बैठकर हाथ में समिध् लेकर "वैश्वानराय प्रतिवेदयाम आदि बारह ऋचाओं वाले सूक्त से अग्नि की पूजा करे "यन्मे मनसा वाचा कृतमेनः कदाचन । सर्वस्मान्मेळितो मोग्धि त्वं हि वेत्थ यथातथम्, स्वाहा" ( मैने मन से, वाणी से जो कुछ पाप कभी किए हैं उन सभी से तुम मुझे मुक्त करो । मैं तुम्हारी प्रार्थना करता हूँ, तुम सभी को सही रूप में जानते हो ) इस मन्त्र से अग्नि पर समिध् रखे और उत्तम गौ दक्षिणा के रूप में प्रदान करे ॥ ११ ॥

पाकयज्ञधर्मग्रहणादाहवनीयो निवर्तते । अग्निमुखात्कृत्व¹ अनाम्नातया पकहोमं कृत्वा सौविष्टकृतं च । यद्देवाद्य उपहोमाः । यजमानलोके दक्षिणतोऽग्नेः । अन्यत्राऽप्युपस्थानचोदनायां समित्पाणिता समिदभ्याधानं च द्रष्टव्यम् । 'यन्मे मनसेत्यस्य वामदेवर्षिः कण्वर्षिर्वा । अनुष्टुप्छन्दः । अग्निर्देवता यद्वाङ्मनसाभ्यां-कृतमेनः कस्यां चिदवस्थायां तस्मात् सर्वस्मात् मा मां ईळितः स्तुतः त्वं मोग्धिं मोचय; हि यस्मात् वेत्थ त्वमेव सर्वं यथातथं वेत्सि परितः । वरः वरिष्ठा गौः ॥ ११ ॥

जयप्रभृति सिद्धमा धेनुवरप्रदानात् ॥ १२ ॥

एक एवाऽग्नौ परिचर्यायाम् ॥ १३ ॥

अनु०— मन्त्रों के जप से लेकर दक्षिणा में गो का दान करने तक की क्रियाएं ज्ञात ही हैं ॥ १२ ॥

अनु०— केवल एक ही व्यक्ति अग्नि की परिचर्या का कर्म करे ॥ १३ ॥

येयमग्नौ परिचर्या उक्ता, तस्यामेक एव स्वयं कर्ता स्यात् नाऽन्यं कर्तारं वृणीते । तस्मादन्यत्र पापक्षपणेषु परकर्तृकत्वाडपि भवतीति गम्यते । अग्नावित्येकवचननिर्देशाच्चाऽस्मिन्नेतत्स्वयं कर्तव्यम्, न त्वाहवनीयेऽपि । तत्र ह्यनादिष्टेऽध्वर्युणैव होतव्यमित्येतदेव ॥ १३ ॥

एवं तावत्पुरुषार्थतया होमविधिरुक्तः । अथेदानीं 'कर्मादिष्वेवैतैर्जुहुयात्' इत्येतद्व्याख्यातुमाह—

अग्न्याधेये यद्देवोदेवमहेलनम् । यद्दीव्यन्नृणमहं बभूव ।
आयुष्टे विश्वतो दधदिति पूर्णाहुतिम् ॥ १४ ॥


१. "यन्मे मनसा" इति ख. ग घ. पु. पाठः ।

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३९

Page 393Permalink

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३९

अनु०—अग्न्याधेय में "यद् वो देवहेलनम् । यददीव्यन्नृणमहं बभूव आयुष्टे विश्वतो दधत्" मन्त्र से पूर्णाहुति करे ॥ १४ ॥

जुहुयादिति शेषः ॥ १४ ॥

अग्निहोत्रं दर्शयितुमाह—

'हुत्वाऽग्निहोत्रमारप्स्यमानो दशहोत्रा हुत्वा दर्शपूर्णमासावारप्स्यमानश्चतुर्होत्रा हुत्वा चातुर्मास्यान्यारप्स्यमानः पञ्चहोत्रा हुत्वा पशुबन्धे षद्धोत्रा सोमे सप्तहोत्रा ॥ १५ ॥

अनु०—इस पूर्णाहुति के बाद जो अग्निहोत्र आरम्भ करने वाला हो वह 'चित्तिस्स्रुक्' आदि अनुवाक के दशहोतृ नाम के मन्त्रों से पूजन करे। इस आहुति के बाद दर्शपूर्णमास आरम्भ करने वाला 'पृथिवी होता' आदि चतुर्होतृ मन्त्रों से पूजन करे। इस आहुति के बाद चातुर्मास्य यज्ञ आरम्भ करने वाला 'अग्निर्होता' आदि पञ्चहोतृ मन्त्रों से पूजन करे। इस आहुति के बाद पशुबन्ध यज्ञ में करने वाले 'वाग्घोता' आदि षद्धोता मन्त्रों से पूजन करे और सोम यज्ञ में 'महाहविः' सप्तहोतृ मन्त्र से पूजन करे ॥ १५ ॥

२दशहोता 'चित्तिस्स्रुक्' इत्यनुवाकः ३'पृथिवी होता' चतुर्होता । ४'अग्नि-


१. सूत्रस्याऽस्य मूलभूतानि श्रुतिवाक्यानि—तैत्तिरीयब्राह्मणे द्वितीयाष्टके ( काण्डे ) द्वितीयानुवाके—"तेनैवोद्धृत्याऽग्निहोत्रं जुहुयात्” । "दर्शपूर्णमासावालभमानः चतुर्होतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्” । "चातुर्मास्यान्यालभमानः पञ्चहोतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्” । "पशुबन्धेन यक्ष्यमाणः षद्धोतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्” । "दीक्षिष्यमाणः सप्तहोतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्" इति वाक्यान्यनुसन्धेयानि ।

२. चित्तिस्स्रुक् । चित्तमाज्यम् । वाग्वेदः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाऽध्वर्युः । वाचस्पते विधे नामन् । विधेस्त्वमस्माकं नाम । वाचस्पतिस्सोमं पिबतु । प्रास्मासु नृम्णन्धास्स्वाहा ॥ इति दशहोता ॥

३. पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । वृहस्पतिरुपवक्ता । वाचस्पते वाचो वीर्येण । सम्भृततमेनाऽऽयक्ष्यसे । यजमानाय वार्यम् । आसुवस्करस्मै । वाचस्पतिस्सोमं 'पिबति । जजनदिन्द्रमिन्द्रियाय स्वाहा ॥ इति चतुर्होता ॥

४. अग्निर्होता । अश्विनावध्वर्यू । त्वष्टाऽग्नीत् । मित्र उपवक्ता । सोमस्सोमस्य पुरोगाः । शुक्रश्शुक्रस्य पुरोगाः । आतास्त इन्द्र सोमाः वातापेहंवमश्रुतस्स्वाहा ॥ इति पञ्चहोता ।

Page 394Permalink

३४० बौधायन-धर्मसूत्रम् [ कूष्माण्डहोमः

होता' पञ्चहोता । "वाग्धोता' षड्ढोता व्याख्यानेषु प्रायणीयायां च ² 'सूर्यं ते' । ³'महाहविः' सप्तहोता । एते कूष्माण्डप्रदेशाः ॥ १५ ॥

विज्ञायते कर्मादिष्वेत्तैर्जुहुयात् पूतो देवलोकान् समश्नुते इति हि ब्राह्मणमिति हि ब्राह्मणम् ॥ १६ ॥

इति तृतीयप्रश्ने सप्तमः खण्डः ।

**अनु०—**वेद मे यह कहा गया है कि कर्मों के प्रारम्भ में कूष्माण्ड मन्त्रों से हवन करे । इससे यजमान पवित्र होकर देवलोक प्राप्त करता है । ऐसा ब्राह्मण का वचन है ॥ १६ ॥

**टि०—**यहाँ तैत्तिरीय आरण्यक २.७.५ की ओर निर्देश किया गया है ।

ब्राह्मणग्रहणं तु कर्मादिषु ब्राह्मणोक्तमेव कर्तव्यम् । अतश्चाऽग्निमुखस्य वरदानादेश्च निवृत्तिः ॥ १६ ॥

इति बोधायनीयधर्मसूत्रविवरणे तृतीये प्रश्ने सप्तमोऽध्यायः ॥


१. 'वाग्धोता । दीक्षा पत्नी । वातोऽध्वर्युः । आपोऽभिगरः । मनो हविः । तपसि जुहोमि । सुभुर्वस्सुवः । ब्रह्म स्वयंभु । ब्रह्मणे स्वयम्भुवे स्वाहा ॥ इति षड्ढोता ।

२. सूर्यं ते चक्षुः । वातं प्राणः । द्यां पृष्ठम् । अन्तरिक्षमात्मा । अङ्गैर्यज्ञम् । पृथिवीँ शरीरैः । वाचस्पतेऽच्छिद्रया वाचा। अच्छिद्रया जुह्वा । दिवि देवा वृधैँहोत्रा मेरयस्व स्वाहा । इति द्वितीयषड्ढोतृमन्त्रोऽत्रोल्लिखितः । अत्रेदं वक्तव्यम्—तैत्तिरीयारण्यके तृतीयप्रपाठके "चित्तिस्स्रुक्" इत्यादिना दशहोत्रादयो मन्त्राः पठिताः । तत्राऽऽदितः पञ्चस्वनुवाकेषु दशचतुःपञ्चषट्सप्तहोतृमन्त्राः । तदनन्तरं षष्ठेऽनुवाके पुनरपि षड्ढोतृसंज्ञकं मन्त्रान्तरमाम्नातम् 'वाग्धोते' त्यादि । तथा च तस्यैव पशुबन्धारम्भाङ्गत्वमिष्यते व्याख्यात्रा । परन्तु तदीयब्राह्मणपर्यालोचनया तत्रत्यभाष्यपर्यालोचनया च "सूर्यं ते" इत्यस्यैव पश्वारम्भाङ्गत्वं प्रतीयते । "वाग्धोता" इत्यस्य तु चातुर्होत्रीयचयन एव विनियोग इति ॥ 'यत्र सोमयागादौ 'षड्ढोतारं व्याख्याय' इति व्याख्यानं विहितं तत्र प्रायणीयहविरासादने च यष्षड्ढोता विहितः तदुभयत्र 'सूर्यं ते' इति मन्त्र इत्यर्थः ।

३. महाहविर्होता । सत्यहविरध्वर्युः । अच्युतपाजा अग्नीत् । अच्युतमना उपवक्ता । अनाधृष्यञ्चाऽप्रतिधृष्यञ्च यज्ञस्याऽभिगरौ । अयास्य उद्गाता । वाचस्पते हृद्विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिस्सोममपात् । मा

अष्टमः खण्डः ] तृतीयप्रश्ने अष्टमोऽध्यायः ३४१

Page 395Permalink

अष्टमः खण्डः ] तृतीयप्रश्ने अष्टमोऽध्यायः ३४१

तृतीयप्रश्ने अष्टमोऽध्यायः

अष्टमः खण्डः

अयमपि पापनिबर्हणोपाय इत्याह—

अथाऽतश्चान्द्रायणकल्पं व्याख्यास्यामः ॥ १ ॥

**अनु०—**अब यहां से हम चान्द्रायण व्रत की विधि का विवेचन करेंगे ॥ १ ॥

चन्द्रस्यायनं गमनं यथा वृद्धिह्रासाभ्यां युक्तं भवति तद्वत् ग्रासवृद्धिह्रासवशाच्चरतीति चान्द्रायणम् ॥ १ ॥

शुक्लचतुर्दशीमुपवसेत् ॥ २ ॥

**अनु०—**शुक्ल पक्ष की चतुर्दशी को उपवास करे ॥ २ ॥

केशादीनि वापयित्वोपवसेदिति क्रमः । उपवसेदिति वचनात् औपवसथ्यमेतदहरिति गम्यते । अत उत्तरेद्युर्होमः । तथा च लिङ्गम्—'पञ्चदश ग्रासान्' इति ॥ २ ॥

प्रायश्चित्तार्थे चान्द्रायणे एतत् । अथाऽप्युदाहरन्ति—

केशश्मश्रुलोमनखानि वापयित्वा अपि वा श्मश्रूण्येव ॥ ३ ॥
अहतं वासो वसानः सत्यं ब्रुवन्नावसथमभ्युपेयात् ॥ ४ ॥

**अनु०—**सिर के केश, दाढी-मूँछ, शरीर के रोओं और नखों को कटवाकर अथवा केवल दाढी-मूँछ ही कटवाकर, नये वस्त्र पहन कर सत्य भाषण करते हुए उस स्थान में प्रवेश करे जहाँ यज्ञिय अग्नि रखी गयी हो ॥ ३-४ ॥

**टि०—**पुराने धुले हुए वस्त्र भी हो सकते है। आवसथ होम का स्थान है, जहाँ यज्ञिय अग्नि स्थापित होती है ।

तथा च गौतमः—'कृच्छ्रे वपनं व्रतं चरेत्' इति ॥ ३ ॥
अहतं वस्त्रं नवं केशादिरहितं प्रक्षालितोपवातं च । सत्यवचनमपि चान्द्रायणाङ्गमेव । आवसथो होमस्थानम् ॥ ४ ॥

तस्मिन्नस्य सकृत्प्रणीतोऽग्निररण्योर्निर्मन्थ्यो वा ॥ ५ ॥


दैव्यस्तन्तुश्छेदि मा मनुष्यः । नमो दिवे । नमः पृथिव्यै स्वाहा ॥ इति सप्तहोता ॥ मन्त्राणामेषामेतत्संज्ञकत्वं तैत्तिरीयब्राह्मणे ( तै. ब्रा. २. ३. ११ ) स्पष्टं विवृतं तत एवाऽवगन्तव्यम् ।

Page 396Permalink
३४२बौधायन-धर्मसूत्रम्[ चान्द्रायणकल्पः

**अनु०—**एक बार किसी प्रयोजन से लाये गये लौकिक अग्नि को ही सदा स्थापित रखे अथवा दो अरणियों का मन्थन कर अग्नि उत्पन्न करे ॥ ५ ॥

**टि०—**जब तक चान्द्रायण व्रत करे तब तक अग्नि को बनाये रखे। इसी अग्नि में चान्द्रायण व्रत की समाप्ति पर होम किया जाता है।

लौकिक एवाऽग्निः कर्मान्तरार्थं प्रणीतो यथा न नश्येत् तथा धार्य इत्येवमर्थं सकृद्ग्रहणम्। यावच्चान्द्रायणं नित्यं धारणमित्यर्थः। तदसम्भवेऽरण्योस्समारोपणम्। चान्द्रायणापवर्गे करिष्यमाणाय होमाय मन्थनं च। यस्य पुनररणी न स्तस्तस्याऽपि यस्मात्कस्माच्चित् काष्ठद्वयात् निर्मन्थ्योऽग्निः ॥ ५ ॥

ब्रह्मचारी सुहृत्प्रैषायोपकल्पी स्यात् ॥ ६ ॥

**अनु०—**शुद्ध हृदय वाला ब्रह्मचारी उसकी सहायता के लिए तथा उसके आदेश का पालन करने के लिए उसके समीप रहे ॥ ६ ॥

ब्रह्मचारी अनृतौ। सुहृत् शोभनं हृदयं यस्य स तथोक्तः। असहायेन न हि शक्यते एतावन्महत्कर्म कर्तुमित्यात्मनः प्रैषकरणायोऽन्यमुपकल्पयते इत्युपकल्पी। उक्तं च—
'अपि यत्सुकरं कर्म तदप्येकेन दुष्करम्। विशेषतोऽसहायेन' इति। योऽसावन्यः प्रेषितार्थकरणायोपकल्पितः असावृृत्विग्धर्मेति केचिदाहुः। अन्ये लौकिकार्थधर्माऽसग्विति। तत्पुनर्युक्तायुक्ततया विचारणीयम् ॥ ६ ॥

हविष्यं च व्रतोपायनम् ॥ ७ ॥

**अनु०—**व्रत के आचरण की अवधि में यज्ञ की हवि ही व्रत करने वाले का मुख्य भक्ष्य होता है ॥ ७ ॥

हविष्यमक्षारलवणं व्रतोपायनं प्रधानद्रव्यम्। यथाऽन्नादिद्रव्यम्, नोपदंशादि ॥ ७ ॥

अग्निमुपसमाधाय सम्परिस्तीर्याऽऽग्निमुखात्कृत्वा पक्काज्जुहोति ॥८॥

**अनु०—**अग्नि पर समिध् रखकर उसे प्रज्वलित कर, उसके चारो ओर कुश फैलाकर अग्निमुख तक की क्रियाएं कर, पकाए गए अन्न में से लेकर हवन करे ।८।

अवदानधर्मेणाऽदायेति शेषः ॥ ८ ॥
अग्नये या तिथिस्यान्नक्षत्राय सदैवताय"अत्राह गोरमन्वते'"ति


१. अत्राह गोरमन्वत नाम त्वंष्टुरपीच्यम् । इत्या चन्द्रमसो गृहे ॥

अष्टमः खण्डः ] तृतीयप्रश्ने अष्टमोऽध्यायः ३४३

Page 397Permalink

अष्टमः खण्डः ] तृतीयप्रश्ने अष्टमोऽध्यायः ३४३

चान्द्रमसीं पञ्चमीं द्यावापृथिवीभ्यां षष्ठीमहोरात्राभ्यां सप्तमीं रौद्रोमष्टमीं सौरीं नवमीं वारुणीं दशमीमैन्द्रीमेकादशीं वैश्वदेवीं द्वादशीमिति ॥ ६॥

अनु०—पहली आ ति अग्नि के लिए, दूसरी आहुति जो तिथि हो उसके लिए, तीसरी और चौथी आहुतियाँ नक्षत्र और नक्षत्र के देवता के लिए 'अत्राह गोरमन्वत नाम स्वष्टुरपीच्यम् । इत्या चन्द्रमसो गृहे' मंत्र से पाँचवी आहुति चन्द्रमा के लिए, छठीं आहुति आकाश और पृथ्वी के लिए, सातवीं आहुति दिन और रात्रि के लिए, आठवीं रुद्र के लिए, नवीं सूर्य के लिए, दसवीं वरुण के लिए, ग्यारहवीं इन्द्र के लिए तथा बारहवीं आहुति विश्वेदेवाः के लिए अर्पित करे ॥ ६ ॥

एते द्वादशहोमा एतस्मादेव चरोरवदाय कर्तव्याः । तत्र 'अग्नये स्वाहा' इति प्रथमाऽऽहुतिः । या तिथिस्स्यात् या तदानीं वर्तमाना तिथिस्स्यात् तस्यै द्वितीया । प्रतिपच्चेद्द्वर्तते 'प्रतिपदे स्वाहा' इति, द्वितीया चेत् द्वितीयास्यै, तृतीया चेत्तृतीयास्यै, इत्यादि । तस्यै द्वितीयेति सूत्रयितव्ये या तिथिरिति वचनं यतिशिशुचान्द्रायणे यथाकथंचिदित्येतस्मिंश्चैतद्विधानमस्तीति दर्शयति । नक्षत्रााय तृतीया । यच्च नक्षत्रं कृत्तिकादि वर्तते तस्यैव तृतीयाऽऽहुतिः—कृत्तिकाभ्यस्स्वाहा रोहिण्यै स्वाहेति । सदैवताय यस्य नक्षत्रस्य या देवता स्यादिन्द्रादिका तस्यै चतुर्थ्याहुतिः—अग्नये स्वाहा, प्रजापतये स्वाहा, सोमाय स्वाहेत्यादि । चान्द्रमसीति 'सास्य देवते'ति तद्धितः । एवं रौद्रीमित्यादिषु द्रष्टव्यम् । षष्ठीप्रभृतिष्वपि तद्देवत्याभिः ऋग्भिर्होम इति केचित् । अपरे विधिशब्दैरेव मन्त्रभूतैरिति । वयं तु ब्रूमः—षष्ठीसप्तम्यावाहुती चतुर्थीचोदिते सत्यौ विधिशब्दमन्त्रके । अष्टम्याद्यास्तद्धितोदिताः ऋङ् मन्त्रका इति । एवं च सति सूत्रवैचित्र्यं साभिप्रायमुपपादितं भवति ॥ ९ ॥

किमेतावतय एवाऽन्नाहुतयः ? नेत्याह—

अथाऽपरास्समामनन्ति— दिग्भ्यश्च सदैवताभ्यः उरोरन्तरिक्षाय सदैवताय '"नवो नवो भवति जायमान" इति ॥ १० ॥

अनु०—इनके अतिरिक्त दूसरी आहुतियों का भी उल्लेख किया जाता है जो ( चार ) दिशाओं के लिए, उनके देवताओं के लिए, अन्तरिक्ष के मध्य भाग के लिए और उसके देवता के लिए ।

'नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे । भागं देवेभ्यो विदधात्यायन् प्रचन्द्रमास्तिरति दीर्घमायुः ।' ( तैत्तिरीयसंहिता २.४.१४.१ ) मन्त्र से ॥ १० ॥


१. नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे । भागं देवेभ्यो विदधात्यायन् प्रचन्द्रमास्तिरति दीर्घमायुः । तै. सं. २. ४. १४. १.

Page 398Permalink
३४४बौधायनधर्मसूत्रम्[ चान्द्रायणकल्पः

एता एकादश । दिग्भ्यः चतसृभ्यः । 'प्राच्यै दिशे स्वाहा, दक्षिणायै दिशे' इत्यादि मन्त्रकल्पना । कुत एतत् चतसृभ्य एव दिग्भ्य इति ? नन्वष्टदिक्पाला इति प्रसिद्धिरस्ति, तथा क्वचिद्दश दिश इति । सत्यम्— तथापि 'दिग्भ्यः स्वाहाऽवान्तरदिशाभ्यस्स्वाहा' इति व्यपदेशभेदाच्चतस्र एव दिग्ग्रहणेन गृह्यन्ते । देवताभ्योऽपि तावतीभ्यः 'इन्द्राय स्वाहा, यमाय' इत्यादि । अथ वा 'प्राची दिगग्निर्देवता' इत्यादि दर्शनात्^१ 'अग्नये, इन्द्राय' इत्यादि द्रष्टव्यम्। उरोरिति चतुर्थ्यन्तस्य ग्रहणम्, अन्तरिक्षविशेषणत्वात् । ततश्च 'उरवेऽन्तरिक्षाय स्वाहा' इति मन्त्रः । अन्तरिक्षदेवता तु वायुः 'वायुरन्तरिक्षस्याऽधिपतिः' इति दर्शनात् । आत्मत्यन्ते । उत्तमः प्रसिद्धः ॥ १० ॥

सौविष्टकृतीं हुत्वाऽथैतद्धविरुच्छिष्टं कंसे वा चमसे वा व्युद्धृत्य हविष्यैर्व्यञ्जनैरुपसिच्य पञ्चदश पिण्डान् प्रकृतिस्थान् प्राश्नाति ॥ ११ ॥

अनु०— स्विष्टकृत् अग्नि के लिए हवन कर अवशिष्ट हविष्य को कंस या चमस में निकालकर साधारण मात्रा के पन्द्रह ग्रास भक्षण करे ॥ ११ ॥

हविरुच्छिष्टं हुतशेषं हविष्याणि व्यञ्जनानि क्षीरादीनि, शाकफलादीनि च क्षारलवणरहितानि । अत्र व्यञ्जनशब्दप्रयोगात् 'हविष्यं च व्रतोपायनम्' इत्यत्र प्रधानद्रव्यमेव गृह्यते । तथैव च व्याख्यातमस्माभिः । आस्यविकाराकारिणः पञ्चदशग्रासा अपि । एतदपि लिङ्गं पर्वणि होमस्य तत्र पञ्चदश ग्रासास्समन्त्रकाः । तूष्णीका इतरे । तत्रैते मन्त्रा नित्यानां विकारकाः ॥ ११ ॥

प्राणाय त्वेति प्रथमम् । अपानाय त्वेति द्वितीयम् । व्यानाय त्वेति तृतीयम् । उदानाय त्वेति चतुर्थम् । समानाय त्वेति पञ्चमम् ॥ १२ ॥

अनु०— 'प्राणाय त्वा' कहकर पहले पिण्ड का भक्षण करे, 'अपानाय त्वा' कहकर दूसरे का 'व्यानाय त्वा' कहकर तीसरे का, 'उदानाय त्वा' कहकर चौथे का तथा 'समानाय त्वा' कहकर पाँचवे पिण्ड का भक्षण करे ॥ १२ ॥

प्राश्नातीति सम्बन्धः । एवमेकैकस्य ग्रासस्यैकैको मन्त्रः संख्याने भवति ॥ १२ ॥

अथ यदा पञ्चभ्यो न्यूना ग्रासाः तदाऽऽह—

यदा चत्वारो द्वाभ्यां पूर्वम् ॥ १३ ॥


१. अस्मिन् पक्षे अग्निः, इन्द्रः विश्वेदेवाः, मित्रावरुणौ इति चतस्रो देवताः द्रष्टव्याः ।

अष्टमः खण्डः ] तृतीयप्रश्ने अष्टमोऽध्यायः ३४५

Page 399Permalink

अष्टमः खण्डः ] तृतीयप्रश्ने अष्टमोऽध्यायः ३४५

अनु०—यदि केवल चार ग्रास हों तो दो मन्त्रों से पहले ग्रास का भक्षण करे॥१३॥

यदा चत्वारो ग्रासाः प्राशितव्यास्तदा प्रथमो ग्रासो द्वाभ्यां मन्त्राभ्याम्, ग्रसनीयः; तदुत्तरेषामेकैकेनैकेकः ॥ १३ ॥

यदा त्रयो द्वाभ्यां द्वाभ्यां पूर्वौ ॥ १४ ॥

अनु०—यदि केवल तीन ग्रास हों तो पहले दो ग्रासों का दो-दो मन्त्रों से भक्षण करे ॥ १४ ॥

यदा तु त्रयाणां ग्रसनं तदा द्वौ द्वाभ्यां द्वाभ्यां मन्त्राभ्यां ग्रसनीयौ । तृतीयस्तु पञ्चमेन ॥ १४ ॥

यदा द्वौ द्वाभ्यां पूर्वं त्रिभिरुत्तरम् ॥ १५ ॥

एकं सर्वैः ॥ १६ ॥

अनु०—यदि केवल दो ग्रास हो तो दो मन्त्र से पहले ग्रास का तथा तीन मन्त्रों से दूसरे ग्रास का भक्षण करे । यदि केवल एक ग्रास हो तो सभी मन्त्रों का उच्चारण कर भक्षण करे ॥ १५-१६ ॥

ऋज्वर्थे सूत्रे ॥ १५-१६ ॥

'अमृतापिधानमसि' इत्यस्य स्थाने—

"निग्राभ्यास्थे"त्यपः पीत्वाऽथाज्याहुतीरुपजुहोति ॥ १७ ॥

अनु०—'निग्राभ्यास्थ देवश्रुत आयुर्मे तर्पयत' आदि मन्त्र से जल पीकर घृत की आहुतियाँ निम्नलिखित सात अनुवाकों से करे ॥ १७ ॥

टि०—निग्राभ्यास्थ देवश्रुत आयुर्मे तर्पयत प्राणं मे तर्पयताऽपानं मे तर्पयत व्यानं मे तर्पयत चक्षुर्मे तर्पयत श्रोत्रं मे तर्पयत मनो मे तर्पयत वाचं मे तर्पयताऽऽत्मानं मे तर्पयताऽङ्गानि मे तर्पयत प्रजां मे तर्पयत पशून् मे तर्पयत गृहान्मे तर्पयत गणान्मे तर्पयत सर्वगणं मा तर्पयत तर्पयत मा गणा मे मा वितृषन् । तै० सं० ३.१.८.१ ।

"निग्राभ्यास्थ देवश्रुतः' इत्यादि 'गणा मे मा वितृषन्' इत्यन्तमेकं यजुः ॥ १७ ॥


१. निग्राभ्यास्थ देवश्रुत आयुर्मे तर्पयत प्राणं मे तर्पयताऽपानं मे तर्पयत व्यानं मे तर्पयत चक्षुर्मे तर्पयत श्रोत्रं मे तर्पयत मनो मे तर्पयत वाचं मे तर्पयताऽऽत्मानं मे तर्पयताऽङ्गानि मे तर्पयत प्रजां मे तर्पयत पशून् मे तर्पयत गृहान्मे तर्पयत गणान्मे तर्पयत सर्वगणं मा तर्पयत तर्पयत मा गणा मे मा वितृषन् ॥ तै. सं. ३. १. ८. १.

Page 400Permalink
३४६बौधायन-धर्मसूत्रम्[ चान्द्रायणहोमः

अथ होममन्त्राः—

^२प्राणापानव्यानोदानसमाना मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा । ^३वाङ्मनः ^४शिरः पाणि ^५त्वक्चर्म ^६शब्दस्पर्श ^७पृथिवी ^८अन्नमयप्राणमय इत्येतैस्सप्तभिरनुवाकैः ॥ १८ ॥

अनु०—'प्राणापानव्यानोदानसमाना मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासम्' (मेरे प्राण, अपान, व्यान, उदान, समान पवित्र होवे,...) वाङ्मनश्चक्षुश्श्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकृतिसङ्कल्पा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासम् स्वाहा' 'शिरःपाणिपादपार्श्वपृष्ठोदरजङ्घाशिश्नोपस्थपायवो मे शुद्ध्यन्तां ०' 'त्वक्चर्ममांसरुधिरमेदोस्थिमज्जा मे शुद्ध्यन्तां—' 'शब्दस्पर्शरूपरसगन्धा मे शुद्ध्यन्ताम् ...' 'पृथिव्याप्तेजोवाय्वाकाशा मे शुद्ध्यन्ताम्—' 'अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासम् स्वाहा।' इन सात अनुवाकों से प्रत्येक अनुवाक के उच्चारण के साथ हवन करते हुए सात आहुति करे॥१८॥

प्रत्यनुवाकं होमः ॥ १८ ॥

जयप्रभृति सिद्धमा धेनुवरप्रदानात् ॥ १६ ॥

**अनु०—**जप से लेकर दक्षिणा में उत्तम गो के दान तक की क्रियाएँ ज्ञात ही हैं ॥ १९ ॥

उत्तरं दार्विहोमिकं तन्त्रं प्रसिद्धम् ॥ १९ ॥

सौरीभिरादित्यमुपतिष्ठते चान्द्रमसीभिश्चन्द्रमसम् ॥ २० ॥


१. तैत्तिरीयारण्यकस्था इमे मन्त्राः । अत्र मन्त्राणां पाठक्रमः तेषां पृथक् पृथगनुवाकत्वेन परिगणनं च द्राविडपाठ एव दृश्यते । नाऽऽन्ध्रपाठे । अतस्सूत्रकारोऽयं द्राविडपाठमेवाऽऽद्रियत इति भाति ।
२. वाङ्मनश्चक्षुश्श्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकृतिसङ्कल्पा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयाएँस्वाहा ।
३. शिरःपाणिपादपार्श्वपृष्ठोदरजङ्घाशिश्नोपस्थपायवो मे ० स्वाहा ॥
४. त्वक्चर्ममांसरुधिरमेदोस्थिमज्जा मे शुद्ध्यन्तां ० स्वाहा ॥
५. शब्दस्पर्शरूपरसगन्धा मे शुद्ध्यन्तां ० स्वाहा ॥
६. पृथिव्याप्तेजोवाय्वाकाशा मे शुद्ध्यन्तां ० स्वाहा ॥
७. अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुद्ध्यन्तां ० स्वाहा । इति सप्तमन्त्राः सप्तारनुवाकाः । see तै. आ. १०. (तैत्तिरीयोपनिषदि द्वितीयप्रश्ने द्राविडपाठे) ख. ५१—५९.

अष्टमः खण्डः ] तृतीयप्रश्ने अष्टमोऽध्यायः ३४७

Page 401Permalink

अष्टमः खण्डः ] तृतीयप्रश्ने अष्टमोऽध्यायः ३४७

अनु०—सूर्यं के तीन मन्त्रों ( 'उद्वयं तमसस्परि', 'उदुत्यं', 'चित्रम्' आदि ) द्वारा सूर्यं की तथा ( 'नवो नवों भवति', सचित्र चित्सम् ऋ० ४.८.५, तथा 'अन्नाह गोरमन्वत') आदि तीन मन्त्रों से चन्द्रमा की प्रार्थना करे ॥ २० ॥

सौर्यः—^१'उद्वयं तमसस्परि, उदुत्यं, चित्रम् इति तिस्र ऋचः। चान्द्रमस्यः—'नवो नवो भवति, ^२सचित्रं चित्रम्, ^३अन्नाह गोरमन्वत' इति च ॥ २० ॥

शर्वर्यां संवेशनकाले—

^४"अग्ने त्वँ् सुजागृही"ति संविशन् जपति। ^५"त्वमग्ने व्रतपा असी"ति प्रबुद्धः ॥ २१ ॥

अनु०—सोते समय 'अग्ने त्वं सुजागृहि' वयं सुमन्दिषीमहि गोपायनस्स्वस्तये प्रबुधेन पुनर्ददः, मन्त्र का जप करे। जगने पर 'त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा त्वं यज्ञेष्वीड्यः' ( तैत्तिरीय संहिता २.१.३.१ ) मन्त्र का जप करे ॥ २१ ॥

संविशन् शयानः। प्रबुद्धः उत्तिष्ठानः। आचम्येति शेषः ॥

स्त्रीशूद्रैर्नाभिभाषेत मूत्रपुरीषे नाऽवेक्षेत ॥ २२ ॥

अनु०—स्त्रियों और शूद्रों के साथ उन्हें पहले संबोधित करते हुए भाषण न करे और मूत्र और मल के ऊपर दृष्टि पात न करे ॥ २२ ॥

अभिभाषणं पूर्वभाषणम् ॥ २२ ॥

अमेध्यं दृष्ट्वा जपत्य"बद्धं मनो दरिद्रं चक्षुस्सूर्यो ज्योतिषाᳵ श्रेष्ठो दीक्षे मा मा हासी"रिति ॥ अथ यद्येनममिवर्ष "त्युन्दतीर्बलं धत्ते"ति ॥ २३ ॥

अनु०—यदि कोई अपवित्र वस्तु देखले तो 'अबद्धं मनो दरिद्रं चक्षुस्सूर्यों ज्योतिषां श्रेष्ठो दीक्षे मा मा हासी:' ( मन अनियन्त्रित था, आँखे दरिद्र थीं, सूर्यं


१. उद्वयं, उदुत्यं, चित्रं:, नवो नवः, इति मन्त्रचतुष्टयं २६७, २०८, पृष्ठयोर्द्रष्टव्यम् ॥
२. सचित्रश्चित्रं चितयन्तमसमे चित्रक्षत्रचित्रतमं वयोधाम्। चन्द्रं रयिं पुरुवीरं बृहन्तं चन्द्रं चन्द्राभिरुप॑गते युवस्व (ऋ. सं. ४. ८. ५.) । ३. २४५. पृष्ठे द्रष्टव्यम् ।
४. अग्नेत्वꣳसुजागृहि वयꣳसुमन्दिषीमहि गोपाय नस्स्वस्तये प्रबुधे नः पुनर्ददः ॥
५. त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्यः ॥
( तै.सं. २. १. ३. १. )

Page 402Permalink

३४८ बौधायन-धर्मसूत्रम् [ यावकव्रतम्

सभी ज्योतियों में श्रेष्ठ है। हे दीक्षा, मुझे मत छोड़ो, मत छोड़ो ) का जप करे और यदि उसके ऊपर वृष्टि हो तो 'उन्दतीर्बलं धत्ते' मन्त्र का जप करे ॥ २३ ॥

व्याख्यातो मन्त्रः 'उत्तरत उपचारः' इत्यत्र । एते नियमा आ परिसमाप्तेश्चान्द्रायणस्याऽनुसरणीयाः ॥ २३ ॥

प्रथमायामपरपक्षस्य चतुर्दश ग्रासान् ॥ २४ ॥

अनु०—उत्तर पक्ष के प्रथम दिन को चौदह ग्रास भोजन करे ॥ २४ ॥

प्राश्नातोत्यनुवर्तते । अपरपक्षस्य च प्रतिपदि चतुर्दश ग्रासा प्रसनीया इत्यर्थः ॥ २४ ॥

एवमेकापचयेनाऽमावास्यायाः ॥ २५ ॥

अनु०—इसी प्रकार प्रतिदिन एक-एक ग्रास अमावास्या तक कम करता जाये ॥ २५ ॥

एवं द्वितीयाप्रभृतिषु एकैको ग्रासोऽपचीयते । द्वितीयास्यां त्रयोदश तृतीयस्यां द्वादश इत्यादि ॥ २५ ॥

एवममावास्याया नीयमाने—

अमावास्यायां ग्रासो न विद्यते ॥ २६ ॥

अनु०—अमावस्या के दिन एक भी ग्रास अवशिष्ट नहीं रहता ॥ २६ ॥

अतस्तस्यामुपवास एव ॥ २६ ॥

प्रथमायां पूर्वपक्षस्यैकः ॥ द्वौ द्वितीयस्याम् ॥ २७-२८ ॥

अनु०—पूर्वपक्ष की प्रतिपदा को एक ग्रास भक्षण करे और द्वितीया को दो ग्रास खाए ॥ २७-२८ ॥

एते अप्यृज्वर्थे ॥ २७-२८ ॥

एवमेकोपचयेनाऽऽपौर्णमास्याः ॥ २९ ॥

अनु०—इसी प्रकार पौर्णमसी तक एक-एक ग्रास बढ़ाता रहे ॥ २९ ॥

उपचयो वृद्धिः । एवमा पौर्णमास्या नीयमाने चतुर्दश्यां चतुर्दश भवन्ति ॥ २९ ॥

पौर्णमास्यां स्थालीपाकस्य जुहोति ॥ ३० ॥

तत्रैते पक्वहोममन्त्राः—

अग्नये या तिथिस्स्यात् ॥ ३१ ॥