बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
by महर्षि बौधायन
Source: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (origin)
पञ्चमः खण्डः] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३९३
पञ्चमः खण्डः] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३९३
अन्यतमवेदपक्षे त्रिः । इतरथा सकृदेव ॥ २९ ॥
अथ चेत्त्वरते कर्तुं दिवसे मारुताशनः ।
रात्रौ जले स्थितो व्युष्टः प्राजापत्येन तत्समम् ॥ ३० ॥
**अनु०—**जो व्यक्ति शीघ्रता करना चाहे वह दिन में केवल वायु का आहार करे (अर्थात् बिना कुछ खाये-पिये रहे) और रात्रि को जल में खड़ा रहकर ही सवेरा कर दे, तो वह प्राजापत्य कृच्छ्र के समान व्रत होता है ॥ ३० ॥
गायत्र्याऽष्टसहस्रं तु जपं कुर्वोत्थिते रवौ ।
मुच्यते सर्वपापेभ्यो यदि न भ्रूणहा भवेत् ॥ ३१ ॥
**अनु०—**जो व्यक्ति सूर्य के उगने पर एक सहस्र और आठ बार गायत्री मन्त्र का जप करता है, वह यदि विद्वान् ब्राह्मण की हत्या का दोषी नहीं है, तो सभी पापों से मुक्त हो जाता है ॥ ३१ ॥
त्वरते कर्तुं कर्म सामर्थ्यजुरथर्वेणामिति शेषः । प्राणायामविशेषेण जानुद्वयसजलस्थितस्याऽपि शाखार्थासिद्धयतीति मन्तव्यम् । व्युष्टः उषोन्तरितः । श्वोभूते अष्टौ च सहस्रं सावित्र्या जपं कुर्यात् । अत्र प्राजापत्येन तत्सममिति वचनादिदमन्यत् स्मृत्यन्तराद्वेदितव्यम्, प्राजापत्यादौ प्रवृत्तस्याशक्तस्य विप्रभोजनेनाऽपि तत्सिद्धिर्भवतीति । प्राजापत्ये तावदशक्यदिनेषु प्रतिदिनं विप्रान् पञ्चावरान् शुद्धान् भोजयेत् । एवं विधानेनैवाऽतिकृच्छ्रे पञ्चदशावरानशक्यदिनेषु प्रतिदिनं वा विप्रमेकम् । एतत्सर्वत्र समानम् । कृच्छ्रातिकृच्छ्रे त्रिंशतम्, तप्तकृच्छ्रेषु चत्वारिंशतम्, पराकनिर्णये पञ्चाशतम्, चान्द्रायणे षड्विंशतिम्, तुलापुंसि तु त्रयोविंशतिम्, महासान्तपने षड्विंशतिम्, तथैकाहोपवासे पञ्च । त्रिरात्रे प्रत्यहं दशदशेत्यादि ॥ ३०-३१ ॥
किं वाऽत्र बहुनोक्तेन—
योऽन्नदस्तसत्यवादी च भूतेषु कृपया स्थितः ।
पूर्वोक्तयन्त्रशुद्धेभ्यस्सर्वभ्यस्सोऽतिरिच्यते ॥ ३२ ॥
इति चतुर्थप्रश्ने पञ्चमः खण्डः ।
**अनु०—**जो अन्न का दान करता है, सत्यभाषण करता है तथा प्राणियों पर दया करता है वह पूर्वोक्त व्रतों से शुद्ध हुए सभी व्यक्तियों से बढ़कर होता है ॥ ३१ ॥
एवंविधवृत्तस्थ इत्यभिप्रायः ॥ ३२ ॥
इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते चतुर्थप्रश्ने पञ्चमोऽध्यायः ।
३९४ बौधायन-धर्मसूत्रम् [पापविनाशकजपविधिः
षष्ठोऽध्यायः
षष्ठः खण्डः
उक्तानि तन्त्राणि, जपा वक्तव्या इत्यत आह—
समाधुच्छन्दसां रुद्रा गायत्री प्रणवान्विता ।
सप्तव्याहृतयश्चैव जाप्यः पापविनाशनाः ॥ १ ॥
अनु०— मधुच्छन्दा नाम के ऋषि द्वारा दृष्ट (शाकलसंहिता के आरम्भिक दस) सूक्तों के साथ, 'नमस्ते रुद्र' आदि ग्यारह अनुवाकों, ओंकार से युक्त गायत्री मन्त्रों, तथा सात व्याहृतियों का जप करना चाहिए। ये पाप को नष्ट करते हैं ॥ १ ॥
मधुच्छन्दा यासामृचामृषिः। ताश्च सकलसंहिताया आदितो दशसूक्तानि। ताभिस्सह रुद्राः 'नमस्ते रुद्र' इति एकादशाऽनुवाकाः। अन्यत्प्रसिद्धम्। जपादिभिः प्रतिपूरणे कर्तव्ये सति एभिः प्रतिपूरणं वेदितव्यम् स्वातन्त्र्येण चैषामुपयोगः। तत्र कालगणना मन्त्रावृत्तिमणना च विशेषापेक्षया विज्ञेया ॥ १ ॥
मन्त्रजपौ वृत्तौ। काः पुनस्ता इष्टयः ? इत्याह—
मृगारेष्टिः पवित्रेष्टिस्त्रिहविः पावमान्यपि ।
इष्ट्यः पापनाशिन्यो वैश्वानर्या समन्विताः ॥ २ ॥
अनु०— मृगारेष्टि, पवित्रेष्टि, त्रिहविः पावमानी इष्टि वैश्वानरी इष्टि से संयुक्त ये सभी इष्टियाँ पाप का विनाश करती हैं ॥ २ ॥
'मृगारं' 'अग्नयेऽंहोमुचेऽष्टाकपालः'^१ इति दशहविरिष्टिः। तथा पवित्रेष्टिरपि 'अग्नये पवमानाय' इति दशहविरेव। त्रिहविस्सचनेष्टिः। पावमानी पाषमानेष्टिः। वैश्वानरो द्वादशकपालो वैश्वानरी। तथा समन्विता एताः पापनाशिन्यः, नैकैकशः ॥ २ ॥
आचार्य इमान् न्त्रनान् प्रत्याह—
इदं चौवाऽपरं गुह्यमुच्यमानं निबोधत ।
मुच्यते सर्वपापेभ्यो महतः पातकादृते ॥ ३ ॥
पवित्रैर्मार्जनं कुर्वन् रुद्रैकादशिकां जपन् ।
पवित्राणि घृतैर्जुह्वत् प्रयच्छन् हेमगांतिलान् ॥ ४ ॥
१. २७५. पृष्ठे द्रष्टव्यम्।
षष्ठः खण्डः ] चतुर्थप्रश्ने षष्ठोऽध्यायः ३९५
षष्ठः खण्डः ] चतुर्थप्रश्ने षष्ठोऽध्यायः ३९५
अनु०—यह जो दूसरी अत्यन्त गोपनीय विधि बतायी जा रही है उसे भी ध्यान देकर समझो । इस विधि से व्यक्ति बड़े पातक दोष को छोड़कर अन्य सभी पापों से मुक्त हो जाता है। पवित्र क.रने वाले मन्त्रों से (सुरभिमती आदि मन्त्रों से ) जल का मार्जन करते हुए, रुद्र के ग्यारह अनुवाकों का जप करते हुए, पवित्र मन्त्रों के उच्चारण के साथ घृत की आहुति करते हुए तथा सुवर्ण, गो तथा तिल का दान कर मनुष्य बड़े पातक के दोष को छोड़कर अन्य सभी पापों से मुक्त होता जाता है ॥ ३-४ ॥
टि०--गोविन्दस्वामी की व्याख्या के अनुसार यहाँ भी सात दिन-रात्रि की अवधि समझनी चाहिए ।
अल्पप्रयासेन बहुपापक्षयलाभात् गुह्यमित्युक्तम् । प्रथमस्सर्वशब्द एकैकस्मिन् पापाभ्यासार्थः । द्वितीयः पापभेदापेक्षः । पवित्राणि 'सुरभिमत्यादयो मन्त्राः । रुद्रैकादशिका 'नमस्ते रुद्र' इत्येकादशाऽनुवाकाः । पूर्वं जपन् जुह्वत् प्रयच्छन् मुच्यत इति सम्बन्धः । अत्राऽपि वक्ष्यमाणस्सप्तरात्रः कालो भवति ॥ ३, ४ ॥
योऽश्नीयाद्यावकं पक्वं गोमूत्रे सशकृद्रसे ।
सदधिक्षीरसर्पिष्के मुच्यते ऽसोंऽहसः क्षणात् ॥ ५ ॥
अनु०—जो व्यक्ति गाय की मूत्र, गोबर के रस, दधि, दूध, घृत से मिश्रित पके हुए यावक का भक्षण करता है वह शीघ्र ही पाप से मुक्त हो जाता है ॥ ५ ॥
प्रसूतो यश्च शूद्रायां येनाऽगम्या च लङ्घिता ।
सप्तरात्रात्प्रमुच्येते विधिनेतेन तावुभौ ॥ ६ ॥
अनु०—जिस व्यक्ति ने शूद्रा स्त्री से पुत्र उत्पन्न किया है, जिस व्यक्ति ने ऐसी स्त्री से मैथुन किया है, जिससे मैथुन करना वर्जित है-वे दोनों ही प्रकार के दोषी व्यक्ति उपर्युक्त विधि से सात दिन में पाप से मुक्त हो जाते हैं ॥ ६ ॥
यावकं पक्वं यवौदनो यवागूर्वा । शकृद्रसोऽपि गोरेव । तत्सहिते गोमूत्रे पक्वमित्यर्थः । तदेव दध्ना क्षीरेण सर्पिषा च संयुक्तं भवति । प्रसाङ्गात्पापं तद्वक्ष्यमाणम्-प्रसूतो यश्चेत्यादि । सप्तरात्रादिति कालनिर्देशविरोधात् क्षणादित्ययमर्थवादः । सप्तरात्राभिप्रायो वा । 'क्षणः क्षणोतेः प्रक्ष्णतः कालः' इति निर्वचनात् । क्रमोढायामपि शूद्रायामपत्योत्पादनं यः करोति
१. 'दधिक्राव्ण' इति सुरभिमती । तस्या सुरभिशब्दश्रवणात् ॥
३९६ बौधायन-धर्मसूत्रम् [ परिवेत्रादिप्रायश्चित्तम्
येन वाऽगम्या पितृष्वसेय्यादिका लंघिता भवति, लंघनं गमनम्, तावुभाव- नेन पूर्वोक्तेन विधिना मुच्येते ॥ ५, ६ ॥
न केवलमत्र—
रेतोमूत्रपुरीषाणां प्राशनेऽभोज्यभोजने । पर्याधानेज्ययोरेतत् परिवित्ते च भेषजम् ॥ ७ ॥
**अनु०—**वीर्यं मूत्र और मल खा लेने पर, जिन व्यक्तियों का अन्न खाना निषिद्ध है उनका अन्न खाने पर अथवा बड़े भाई से पहले ही छोटे भाई के अग्नि का आधान करने, श्रौत यज्ञ करने और विवाह करने पर भी उपर्युक्त व्रत ही पाप दूर करने का उपचार है ॥ ७ ॥
अभोज्यानां परिग्रहदुष्टानां स्वभावदुष्टानां च भोजने । पर्याधानं ज्यायसि तिष्ठत्यनाहिताग्नौ कनीयस आधानम् । आह च—
दाराग्निहोत्रसंयोगे कुरुते योऽग्रजे स्थिते । परिवेत्ता सविज्ञेयः परिवित्तिस्तु पूर्वजः ॥ इति
अत्राऽग्रजशब्दस्याऽयमर्थः—अग्र एव यस्मिन् जाते सत्यात्मनो जननं सम्भवति स तं प्रत्यग्रजः । एवं च सति पितर्यनाहिताग्नौ सति पुत्रेण नाऽऽधातव्यमिति भवति । परीज्यायामपि एतदेव पूर्वोक्तं भेषजम् । इज्या यागः नित्येज्या ऐष्टिकपाशुकसौमिकाः, न नैमित्तिकाः काम्याश्च । ते पितरं ज्येष्ठं वोल्लङ्घ्य न कर्तव्याः' यदि कुर्यात्तत्राऽपि एतदेव प्रायश्चित्तं—'योऽश्नीयाद्यावकं पक्वम्' इत्यादि ॥ ७ ॥
अपातकानि कर्माणि कृत्वैव सुवहून्यपि । मुच्यते सर्वपापेभ्य इत्येतद्वचनं सताम् ॥ ८ ॥
**अनु०—**जिस व्यक्ति ने पातक कर्मों को छोड़कर अन्य बहुत से अनगिनत पाप कर्म किये हैं वह भी सभी पापों से मुक्त हो जाता है, ऐसा सज्जनों का वचन है ॥ ८ ॥
पूर्वोक्तेन प्रायश्चित्तेनेति शेषः । सतां मन्वादीनाम् ॥ ८ ॥
सर्वत्राऽत्र मूलभूतं प्रमाणमाह--
मन्त्रमार्गप्रमाणं तु विधाने समुदीरितम् । भरद्वाजादयो येन ब्रह्मणस्समतां गताः ॥ ९ ॥
**अनु०—**यहाँ जिन नियमों का विधान किया गया है वे मन्त्रों के पाठ के ऊपर
सप्तमः खण्डः ] चतुर्थप्रश्ने सप्तमोऽध्यायः ३९७
सप्तमः खण्डः ] चतुर्थप्रश्ने सप्तमोऽध्यायः ३९७
आहूत हैं और ये वे नियम हैं जिनके द्वारा भरद्वाज आदि ऋषियों ने ब्रह्म की समता प्राप्त की ॥ ९ ॥
मन्त्राणां मार्गो मन्त्रमार्गः पाठः स एव प्रमाणं यस्य विधानस्य तदुदीरितं पाठमूलत्वं स्यात्तादृशानामपि धर्माणांमुक्तं तत्, प्रजापत्यादेरपि यन्त्रस्य । विधानं मन्त्रादेर्मूलमिति । अयं किलाऽऽचार्यो मन्त्रप्रमाणक इव लक्ष्यते—'पञ्चतयेन कल्पमवेक्षते 'तच्छन्दसा ब्राह्मणेन' इति तच्छन्दसो मन्त्रात्मकस्य प्रथमनिर्देशं ब्रुवन्नन्यत्र छन्दसा न शक्नुयात् कर्तुमित्यपवावदौर्बल्यमभ्यनुजानंश्च । ब्रह्मणस्समानमिति वचनादभ्युदयार्थमित्येतद्विधानमिति गम्यते ॥ ९ ॥
तदाह—
प्रसन्नहृदयो विप्रः प्रयोगादस्य कर्मणः ।
कामांस्तांस्तानवाप्नोति ये ये कामा हृदि स्थिताः ॥ १० ॥
इति चतुर्थप्रश्ने षष्ठः खण्डः ।
अनु०—प्रसन्न चित्त वाला विप्र इन कर्मों का आचरण कर उन सभी इच्छाओं को प्राप्त कर लेता है, जो-जो इच्छाएं उसके मन में होती हैं ॥ १० ॥
क्रियत इति कर्म । तच्च मन्त्रपाठप्रमाणं विधानम् । तस्यैषा प्रशंसा ॥
इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते चतुर्थप्रश्ने षष्ठोऽध्यायः ।
सप्तमोऽध्यायः
सप्तमः खण्डः
निवृत्तः पापकर्मभ्यः प्रवृत्तः पुण्यकर्मसु ।
यो विप्रस्तस्य सिध्यन्ति बिना यन्त्रैरपि क्रियाः ॥ १ ॥
अनु०—जो विप्र पाप कर्मों से विरत है तथा पुण्य कर्मों में प्रवृत्त है उसकी क्रियाएं व्रतों का आचरण किए बिना भी सिद्ध हो जाती हैं ॥ १ ॥
प्रतिषिद्धवर्जनस्य विहितानुष्ठानस्य च प्रशंसैषा । यद्येवंविधस्य, पुरुषस्य पूर्वोक्तयन्त्राभावेऽपि सामर्थ्यादुत्तरथर्वणां कर्मण्यधिकारोऽस्तीति दर्शयति । तस्याऽपि वक्ष्यमाणो गणहोमो भवत्येव ॥ १ ॥
| ३९८ | बौधायन-धर्मसूत्रम् | [ ब्राह्मणप्रशंसा |
|---|
अथैवंविधानां ब्राह्मणानां प्रशंसा—
ब्राह्मणा ऋजवस्तस्माद्यद्यदिच्छन्ति चेतसा ।
तत्तदा साधयन्त्याशु संशुद्धा ऋजुकर्मभिः ॥ २ ॥
अनु०—अपने शुद्ध कर्मों से पवित्र सरल हृदय वाले धर्मात्मा ब्राह्मण जिस कार्य की अपने मन से इच्छा करते है उसे शीघ्र ही सफल बना लेते हैं ॥ २ ॥
ऋजुकर्माणि विहितकरणप्रतिषिद्धवर्जनलक्षणानि ॥ २ ॥
अथेदानीं निरपेक्षानैकयन्त्रोपदेशप्रयोजनमाह—
एवमेतानि यन्त्राणि तावत्कार्याणि धीमता ।
कालेन यावतोपैति विग्रहं शुद्धिमात्मनः ॥ ३ ॥
अनु०—बुद्धिमान् व्यक्ति इन व्रतों को उतने ही समय तक करे जितने समय तक करने से शरीर की शुद्धि हो जाय ।
कालेन कालपरिमित्रेन यन्त्रेण विग्रहं शरीरम् । उपैतिर्नयत्यर्थे । ततश्च द्विकर्मत्वाद्विग्रहमिति द्वितीयोपपत्तिः । एनस्सु गुरुषु गुरूणि लघुषु लघूनीत्ययमर्थोऽन्यत्र दर्शितः । आह—
यस्मिन् कर्मण्यस्य कृते मनसस्यादलाघवम् ।
तस्मिन् तावत्ततः कुर्याद्यावत्तुष्टिकरं भवेत् ॥ इति ॥ ३ ॥
जपहोमेष्टियन्त्रान्युक्तान्युपसंहरति—
एभिर्यन्त्रैर्विशुद्धात्मा त्रिरात्रोपोषितस्ततः ।
तदारभेत येनर्द्धिं कर्मणा प्राप्तुमिच्छति ॥ ४ ॥
अनु०—जो व्यक्ति इन तपश्चरणों से शुद्ध हो चुका है वह तीन दिन और रात्रि उपवास करे, उसके बाद उस क्रिया आरम्भ करे जिसके द्वारा अभीष्ट इच्छा की सिद्धि करना चाहता हो ॥ ४ ॥
गणहोमादर्वागेवोपसंहाराभिधानं तस्याऽपि त्रिरात्रोपवासाङ्गत्वज्ञापनाय॥
क्षापवित्रं सहस्राक्षो मृगारोऽंहोमुचौ गणौ ।
पावमान्यश्च कूष्माण्ड्यो वैश्वानर्य ऋचश्च याः ॥ ५ ॥
अनु०—क्षापवित्र ( क्षा से युक्त पवित्र मन्त्र, 'क्षां विश्वेभिः' आदि तैत्तिरीय ब्राह्मण २.८.२ ), सहस्राक्ष ( अर्थात् पुरुषसूक्त ), मृगार ( 'अग्नेर्मन्वे' आदि अनुवाक ), बंहोमुच् नाम के दो गण ( 'या वायिन्द्रावरुणा यतण्या आदि चार मन्त्र,
सप्तमः खण्डः ] चतुर्थप्रश्ने सप्तमोऽध्यायः ३९९
तथा 'यो वामिन्द्रावरुणावग्नो स्तोमस्तं वामतेनाऽव्यजे' आदि आठ मन्त्र ), पाव- मानी ( 'पवमानस्सुवर्जन' अनुवाक ), कूष्माण्डी ( 'यदद्देवा' आदि इक्कीस ऋचाएँ ), वैश्वानरी ऋचाएँ ( 'वैश्वानरो न ऊत्या' आदि आठ ऋचाएँ ) — इन सबका पाठ करे ॥ ५ ॥
१. अग्नेर्मन्वे प्रथमस्य प्रचेतसो यं पाञ्चजन्यं बहवस्समिन्धते । विश्वस्यां विशि प्रविशिखाँसमीमहे स नो मुञ्चत्वꣳहसः ॥ १ ॥ यस्येदं प्राणन्निमिषद्यदेज'ति यस्य जातं जनमानञ्च केवलम् । स्तोम्य न्नायितो जोहवीमि स नो मुञ्चत्वꣳहसः ॥२॥ इन्द्रस्य मन्ये प्रथमस्य प्रचेतसो वृत्रघ्नस्तोमा उप मामुपागुः । यो दाशुषस्सुकृतो हवमुपगन्ता स नो मुञ्चत्वꣳहसः ॥ ३ ॥ यस्संग्रामन्नयति सं वशी युधे यः पुष्टानि सꣳसृजति त्रयाणि । स्तोमेन्द्रन्नाथितो जोहवीमि स नो मुञ्चत्वꣳहसः ॥ ४ ॥ मन्वेवां मित्रावरुणा तस्य वित्तꣳसत्यौजसा दृꣳहणा यन्नुदेथे । या राजानꣳ सरथं याथ उग्रा ता नो मुञ्चतमागसः ॥ ५ ॥ योवाꣳ रथो ऋजुरश्मिस्सत्यधर्मा मिथुञ्चरन्तमुप- याति दूषयन् । स्तोमि मित्रावरुणा नाथितो जोहवीमि तो नो मुञ्चतमागसः ॥ ६ ॥ वायोस्सवितुर्विदथानि मन्महे यावात्मन्वद्बिभृतो यो च रक्षतः । यो विश्वस्य परिभू- बभूवतुस्तो नो मुञ्चतमागसः ॥ ७ ॥ उप श्रेष्ठा न आशिषो देवयोर्घर्मं अस्थिरन् । स्तोमि वायु ꣳ सवितारन्नाथितो जोहवीमि तो नो मुञ्चतमागसः ॥ ८ ॥ रथी- तमो रथीनामहू ऊतये शुभं गमिष्ठौ सुयमेभिरश्वैः । ययोर्वा देवौ देवेष्वनिशितमो- जस्तो नो मुञ्चतमागसः ॥ ९ ॥ यदयातं वहतुꣳसूर्यायास्त्रिचक्रण सूꣳसदमिच्छमानी । स्तोमि देवावश्विनो नाथितो जोहवीमि तौ नो मुञ्चतमागसः ॥ १० ॥ मरुतां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु विश्वे । आशून् हवे सुयमानूतये ते नो मुञ्च- न्त्वेनसः ॥ ११ ॥ तिग्ममायुधं वीडितꣳ सहस्वद्विद्यत्ꣳशर्धः पृतनासु जिष्णु । स्तोमि देवान्मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वेनसः ॥१२॥ देवानां मन्वे अधि नो ब्रु- वन्तु प्रेमां वाचं विश्वामवन्तु विश्वे । आशून् हुवे सुयमानूतये ते नो मुंचन्त्वे- नसः ॥ १३ ॥ यदिदं माऽभिशोचति पौरुषेयेण दैव्येन । स्तोमि विश्वान् देवात्राथितो जोहवीमि ते नो मुञ्चन्त्वेनसः ॥ १४ ॥ अनु नोऽद्यानुमतिर्यज्ञं देवेषु मन्यताम् । अग्निश्च हव्यवाहनो भवतां दाशुषे मयः ॥१५॥ अन्विदनुमते त्वं मन्यासै शञ्च नः कृ- धि । क्रत्वे दक्षाय नो हिनु प्रण आयूꣳषि तारिषः ॥ १६ ॥ वैश्वानरो न ऊत्या प्रयातु परावतः । अग्निरुक्थेन वाहसा ॥ १७ ॥ पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीराविवेश । वैश्वानरस्सहसा पृष्टो अग्निस्स नो दिवा सरिषः पातु नक्तम् ॥ १८ ॥ ये अप्रयेताममितेभिरोजोभिर्ये प्रतिष्ठे अभवतां वसूनाम् । स्तोमि द्यावापृथिवी नाथितो जोहवीमि तेनो मुञ्चतमꣳहसः ॥ १९ उर्वी रोदसी वरिवः कृणोतं क्षेत्रस्य पत्नी अधि नो ब्रूयातम् । स्तोमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमꣳहसः ॥२०॥ यत्तैं वयं पुरुषत्रा यविष्ठाऽविद्वाꣳसश्चकृमा कच्चनाऽऽगः ।
| ४०० | बौधायन-धर्मसूत्रम् | [ चान्द्रायणविधिः |
|---|
कृधी स्वस्माऽअदितेरनागा व्येनाँ सि शिश्रथो विश्वगग्ने ॥२१॥ यथा ह तद्वसवो गौर्यंचित्पदिषिताममुञ्चता यजत्राः । एवास्मस्मत्प्रमुञ्चाव्यंहो॒ प्रतार्यग्ने प्रतराण आयुः ॥ २२ ॥ ( तै. सं. ४. ७. १५. ) ॥
क्षापवित्रं क्षाशब्दवत् पवित्रं च, तच्च तैत्तिरीयाणां सूक्तपाठे 'अ- ग्नेनय' इत्यादिषडृचम् । अयमेको मन्त्रगणः तैत्तिरीयपाठसिद्धो गृहीतव्यः । सहस्राक्षस्तावत्पुरुषसूक्तं, तच्चाऽष्टादशर्चम् । मृगारो मृगाराया दृष्टेर्याज्यानु- वाक्या द्वाविंशतिर्ऋचः 'अग्नेर्मन्वे' इत्यनुवाकः । अंहोमुचो तच्छन्दवन्तौ गणौ । तयोः³ 'या वामिन्द्रावरुणा' इत्येकः चत्वारो मन्त्राःसानुषङ्गाः । अप- रो⁴ 'यो वामिन्द्रावरुणा' इत्यष्टौ । अत्र तादृश एव सामशब्दोऽहोमुचव- चनः । पावमान्योऽपि तच्छन्दवत्यः ऋचस्सप्तदश । ताश्च५ 'पवमानस्सु- वर्जनः' इत्यनुवाकः । "कूष्माण्ड्यः 'यदेवाः' इत्याद्या एकविंशतिर्ऋचः । वैश्वानर्य्य६ 'वैश्वानरो न ऊत्या' इत्यष्टौ । एतेऽष्टौ मन्त्रगणाः प्रायशो विश्वे-
१. या वामिन्द्रावरुणा यतव्या तनूस्तयेममहंसो मुञ्चतम् ॥१॥ या वामिन्द्राव- रुणा सहस्या तनूस्तयेममहंसो मुञ्चतम् ॥२॥ या वामिन्द्रावरुणा रक्षस्या तनूस्तये- ममहंसो मुञ्चतम् ॥३॥ या वामिन्द्रावरुणा तेजस्या तनूस्तयेममहंसो मुञ्चतम् ॥४॥
२. यो वामिन्द्रावरुणावग्नो स्वामस्तं वामेतेनाऽवयजे ॥ १ ॥ यो वामिन्द्रावरुणा द्विपात्सु पशुषु क्षामस्तं वामेतेनाऽवयजे ॥ २ ॥ यो वामिन्द्रावरुणा चतुष्पात्सु पशुषु क्षामस्तं वामेतेनावयजे ॥ ३ ॥ यो वामिन्द्रावरुणा गोष्ठे क्षामस्तं वा०यजे ॥ ४ ॥ यो वामिन्द्रावरुणा गृहेषु क्षामस्तं वा०यजे ॥ ५ ॥ यो वामिन्द्रावरुणाऽप्सु क्षामस्तं वा०यजे ॥ ६ ॥ यो वामिन्द्रावरुणौषधीषु क्षामस्तं वा०यजे ॥ ७ ॥ यो वामिन्द्रा- वरुणा वनस्पतिषु क्षामस्तं वामेतेनाऽवयजे ॥ ८ इत्यष्टौ ॥ ( तै. सं. २. ५. ११ )
३. २५७. पृष्ठे टिप्पण्यां द्रष्टव्यम् । ४. २३८. पृष्ठे टिप्पण्यो द्रष्टव्यम् ।
५. वैश्वानरो न ऊत्या प्रयातु परावतः । अग्निरुक्थेन वाहसा ॥ १ ॥ शृणोत्वग्निं वैश्वानरममृतस्य ज्योतिष्पतिम् । अजस्रं घर्मममिहे ॥ २ ॥ [वैश्वानरस्य दंसनाभ्यो बृहद्धरिणादेकस्स्वपस्यया कविः । उभा पितरा महयन्नजायतऽग्निर्द्यावापृथिवी भुरिरे- तसा॥३॥ पृष्टो दिविः पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीराविवेश । वैश्वानर- स्सहसा पृष्टो अग्नित्स नो दिवा स रिषः पातु नक्तम् ॥ ४ ॥ जातो यदग्ने भुवना व्यख्यः पशुं न गोपा इर्यः परज्मा। वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभि- स्सदा नः ॥५ ॥ त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणः जायमानः । त्वं देवाँअभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा ॥६॥ अस्माकमग्ने मघवत्सु धार- याऽनामिक्षममजरं सुवीर्यम् । वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोति भिः ॥ ७ ॥ वैश्वानरस्य सुमती स्याम राजा हि कं भुवनानामभिश्रीः । इतो जातो विश्वमिदं विचष्टे वैश्वानरो यतते सूर्येण ॥ ८ ॥ ( तैं. सं. १. ५. ११) ।
सप्तमः खण्डः ] चतुर्थप्रश्ने सप्तमोऽध्यायः ४०१
सप्तमः खण्डः ] चतुर्थप्रश्ने सप्तमोऽध्यायः ४०१
देवार्षाः । सहस्राक्षस्तु नारायणर्षिः । तत्राऽनुक्तच्छन्दसः त्रैष्टुभा वेदितव्याः । 'सहस्रशीर्षा' इत्याद्याः पञ्च अनुष्टुभः । मुगारण्याम्यासुकर्मणि 'अनु नोऽद्यानुमतिः, अन्विदनुमते त्वम' 'ये अप्रयेताम्, ऊर्ध्वी रोदसी' इत्येता अनुष्टुभः । 'वैश्वानरो नः' इति गायत्रो । 'यदिदं बृहतो । अंहोमुचौ तु यजुषी एव । ततश्छन्दोविशेषा- नादरः यद्यजुषाऽऽज्यं यजुषाऽप उत्पूनीयात् , छन्दसाऽप उत्पूनाति' इति यजुश्छन्दसोर्भेदनिर्देशात् । पावमानीषु पुनः प्रथमाद्वितीयाचतुर्थीपञ्चम्यष्ट- म्यो गायत्र्यः । तृतीया नवम्याद्या अन्त्यवर्जाइचाऽनुष्टुभः । कूष्माण्डीषु प्रथमाऽनुष्टुप् द्वितीयाऽतिजगती तृतीयाचतुर्थ्यो जगत्यौ, पञ्चम्यतिशक्वरी सप्तमी शक्वरो अष्टमो जगती, नवमी पंक्तिः दशम्येकादश्यौ शक्वर्यौ, त्रयोदश्य- त्यष्टिः, चतुर्दश्यनुष्टुप् । ततो गायत्र्यौ । सर्वलिङ्गोक्तदेवताः । सहस्राक्षस्तु पौरुषः ॥ ५ ॥
घृतौदनेन ता जुहुत्सप्ताहं सवनत्रयम् । मौनव्रती हविष्याशी निगृहीतेन्द्रियक्रियः ॥ ६ ॥
अनु०—प्रत्येक मन्त्र के सात घृत और ओदन की आहुती प्रातःकाल मध्याह्न और सांयकाल तीनों सवनकालों पर ( सात दिन तक मौन रहते हुए, यज्ञ योग्य अन्न का भक्षण करते हुए तथा इन्द्रियों और क्रियाओं पर नियन्त्रण रखते हुए करे ॥ ६ ॥
घताप्लुतेनौदनेन ताः प्रतिमन्त्रं हस्तेन दर्व्या वा परिभाषासिद्धया 'दर्व्या- ऽन्नस्य जुहोति' इति । "सप्ताहमिमानि व्रतान्यनुकर्षन्मौनव्रती" इत्यादीनि॥६॥
अथ प्रतिसवनहोमानन्तरम्— “सिंहे मे" इत्यपां पूर्णे पात्रेऽवेक्ष्य चतुष्पथे । मुच्यते सर्वपापेभ्यो महतः पातकादपि ॥ ७ ॥
अनु०—चौराहे पर जल से भरे हुए पात्र को 'सिंहे मे' आदि मन्त्रों का उच्चारण करते हुए देखने पर वह व्यक्ति सभी पापों से मुक्त हो जाता है, बडे दोष से भी शुद्ध हो जाता है ॥ ७ ॥
१. उपसम्भकरणं नाम—आकुञ्चितस्य सव्यजानुन उपरि दक्षिणं पादं निक्षिप्यो पवेशनम् । २. सिंहे मे मन्युः । व्याघ्रे मेऽन्तररामयः । वृके मे क्षुत् । अश्वे मे घसिः । धन्वन्ति मे पिपासा । राजगृहे मेऽशनया । अश्मनि मे तन्द्रिः । गर्दभे मेऽर्षः । पथ्य(ल्प)के मे होः ।। अश्वत्थे मे वेपथुः । कूर्मे मेऽङ्गरोगः । बस्ते मेऽपसर्या ।
२९ बौ० गृ०
४०२ बौधायन-धर्मसूत्रम् [ गणहोमाः
अप्रीये मे मृत्युः । भ्रातृव्ये मे पाप्मा । सपत्ने मे निर्ऋतिः । दुष्कीतौ मे ऽमृद्धिः । पर- स्वति मेऽसमृद्धिः । खड्गे मे भ्रातिः । गवये मे भ्रातव्यम् । गौर मे बाधिर्यम् । ऋक्षे मे शोकः । गोधायां मे स्वेदः । जरायां मे हिमः । कृष्णशकुनौ मे भीरुता । कशे मे पापो गन्धः । उलूके मे स्वभ्यषः । क्रोके मे ईर्ष्या । मर्कटे मेदुरृऋद्धिः । कुलले मे मँस्यां । खलले मे प्रभ्या । उष्ट्रे मे तृष्णा । ऋश्ये मे श्रमः । अठ्यां मे भ्राव्यम् । कोषो मे गन्धः । कुमार्यां मेऽलङ्कारः । सूकरे मे कलहशुः, पुदाखुनौ मे स्वरना (प्नः) । अजगरे मे दुस्स्वप्ना (प्नः) । विद्युति मे स्मयशः । लोभायां मे क्लेदः । शलमे मे पाप्माऽलक्ष्मीः । स्त्रीषु मेऽनृतम् । अजासु मे कर्कशः । व्रात्ये म ईत्या । शूद्रे मे स्तेयम् । वैश्ये मे कामंकृत्यम् । राजन्यबन्धुनि मेऽज्ञानम् । नैषादे मे ब्रह्महत्या । कुलिङ्गे मे क्षवथुः । उलले मे विलासः । उद्विद्रणि मे वमनिः । किंपुरुषे मे रोदः । द्वीपििन मे निष्कपन् । हस्तिनि मे किलासः । शुनि मेदुरिप्रस्खा । वन्येषु मे म्लेच्छः । विदेहेषु मे शोवधुः । महावर्षेषु मे ग्लोः । मूजवत्सु मे तप्ना । दुन्दुभो मे कासिका । इक्ष्वाकुषु मे पित्तम् । कलिङ्गेषु मेऽमेध्यम् । अभ्रतर्या मेऽप्रजस्ता । पुंश्चल्यां मे दुष्प्र- वित्रम् । आखुनि मे दन्तरोगः । मक्षिकाया मे श्लक्ष्णशः । शुके मे हरिमा । मयूरे मे जल्प्या । वृषे मे जरा । चाषे मे पापवादः । अप्सु मे क्षमः । ब्रह्मोज्झे मे किल्बिषम् ।
अपैहि पाप्मन् पुनरपनाशितो भवा नः पाप्मन्त्सुकृतस्य लोके पाप्मन्वेह्यविद्वत यो नः पाप्मञ् जहाति तमु त्वा बर्हिमो वयमन्यत्राऽस्मन्निदिशतात् । सहस्राक्षो अमर्त्यो यो नो द्वेष्टि स रिष्यतु यमु द्विष्यस्तमु जहि । सुमित्रा न आप ओषधयस्सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः पाप्मन् ॥ मान्ना इमे बौधा- यनीयश्रौतसूत्रे संहितारूपेण पठिताः (बौ. श्रौ. २. ३) तथाऽप्यध्येतृपरम्परायां पाठ- सौकर्यार्थं विहृत्यैव पाठात् तथैवाऽस्माभिरप्यत्र निवेशिताः :
उदपात्रमादाय चतुष्पथं गत्वा प्राङ् मुख १ उपस्थं कृत्वा तस्मिन्नेव उदपात्रेऽवेक्षमाणः पापं ध्यायन् विनियतन् ब्रूयात् । २ 'सिंहे मे मन्युः' इत्यन्तमैतममुवाकं निगद्य निनीयाऽपो नैर्ऋत्यां दिशि परास्य पात्रमन- वेक्षमाणो हस्तपादान् प्रक्षाल्य तेनैव मार्गेण यथैतमेत्य । तदेतदुक्तम्- 'सिंहे म इत्यपां पूर्णे' इति । अत्राऽपरे याज्ञिकाः प्रयोगज्ञंमन्यमाना दार्विहो- मिकीं परिचेष्टां कुर्वंते, आनाम्नातया च पक्वहोमवत्ते च स्विष्टकृदुपहोमा गणहोमा (?) इति वदन्तः । तत्तु युक्तायुक्ततया विचारणीयम् ॥ ७ ॥
वृद्धत्वे यौवने बाल्ये यः कृतः पापसञ्चयः ।
पूर्वजन्मसु (१) वाऽज्ञानात्तस्मादपि विमुच्यते ॥ ८ ॥
१. वाऽज्ञातः इति मूलपुस्तकेषु पाठः ।
षष्ठमः खण्डः ] चतुर्थप्रश्ने अष्टमोऽध्यायः ४०३
षष्ठमः खण्डः ] चतुर्थप्रश्ने अष्टमोऽध्यायः ४०३
अनु०—वृद्धावस्था, युवावस्था और बाल्यावस्था में, यहाँ तक कि पूर्वजन्म में भी अज्ञानवश किये गये पापों का जितना संचय होता है उन सबसे वह मुक्त हो जाता है ॥ ८ ॥
फलविधिः फलार्थवादो वायम् ॥ ८ ॥
भोजयित्वा द्विजानन्ते पायसेन सुसर्पिषा । गोभूमितिलहेमानि मुक्तवद्भूयः प्रदाय च ॥ ९ ॥ विप्रो भवति पूतात्मा निर्दग्धवृजिनेन्धनः । काम्यानां कर्मणां योग्यः तथाऽऽधानादिकर्मणाम् ॥ १० ॥
अनु०—सात दिनों के अन्त में ब्राह्मणों को भली भांति घृत से युक्त पायस (खीर) का भोजन कराकर तथा भोजन करने वालों ब्राह्मणों को गाय, भूमि, तिल और सुवर्ण दान देकर ब्राह्मण पाप रूपी इन्धन के जल भस्म हो जाने से पवित्र हो जाता है, वह मन की इच्छाओं की प्राप्ति के योग्य हो जाता है तथा अग्नि का आधान आदि याज्ञिक कर्मों के लिए भी योग्य बन जाता है ॥ ९-१० ॥
अन्ते सप्ताहस्य । ततस्सप्तम एवाऽहन्यापराहिकप्रयोगानन्तरं भोजनादि गम्यते । द्विजास्यवराः । गवादीनां समुच्चयः । स च मुक्तवद्भूयः प्रत्येकं भवति । विप्रग्रहणं द्विजातिप्रदर्शनार्थम् । वृजिनं पापम् , तदेवेन्धनम् , तन्निर्दग्धं येनेति विग्रहः । योग्यः अधिकारी । अन्यथाऽनधिकारीति गम्यते । एषा तावद्गणहोमक्रिया ह्यात्मन एव प्रयोक्तव्या नाऽन्यस्य ॥ ९-१० ॥
इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते चतुर्थप्रश्ने सप्तमोऽध्यायः ।
अष्टमोऽध्यायः
अष्टमः खण्डः
तत्र दोषमाह—
अतिलोभात्प्रमादाद्वा यः करोति क्रियामिमाम् । अन्यस्य सोऽहसाऽऽविष्टो गरगीरिव सीदति ॥ १ ॥
अनु०—जो व्यक्ति अत्यन्त लोभ से या प्रमाद से दूसरे व्यक्ति के लिए इस
| ४०४ | बौधायन-धर्मसूत्रम् | [ विविधप्रायश्चित्तानि |
|---|
( गणहोम को ) क्रिया को करता है, वह पाप से आविष्ट होकर विषभक्षण करने वाले व्यक्ति के समान कष्ट पाता है ॥ १ ॥
गोभूम्यादिषु अतिलोभात् स्नेहात्प्रमादाद्वा योऽन्यस्य वृत्त्यर्थं गणहोम-क्रियां करोति स तेनांऽहसाऽऽविष्टः सीदति गरगीः विषभुगिव विषण्णो भवति ॥ १ ॥
अन्यस्य न कुर्यादित्युकम्, तत्राऽपवदति—
आचार्यस्य पितुर्मातुरात्मनश्च क्रियामिमाम् ।
कुर्वन्भात्यर्कवद्विप्रस्सा कार्यैषामतः क्रिया ॥ २ ॥
अनु०— किन्तु जो ब्राह्मण अपने आचार्य के लिए, पिता के लिए, माता के लिए और स्वयं अपने लिए इस क्रिया को करता है वह सूर्य के समान तेजयुक्त हो प्रकाशित होता है । अतः आचार्य, पिता और माता के लिए इसे किया जा सकता है ॥ २ ॥
यस्मादेतेषां क्रियां कुर्वन्नादित्यवद्भाति तस्मादेतेषाम् । मातुः पृथग्ग्रहणात् पितरि मृते पितुर्मातुरेनोनिवृत्त्यर्थमेषा पुत्रेण कंतव्येति गम्यते । आत्मग्रहणं दृष्टार्थम् । पितृग्रहणं पुनः पुत्रस्याऽपि प्रदर्शनार्थम् ॥ २ ॥
तदाह—
क एतेन सहस्राक्षं पवित्रेणाऽकरोच्छुचिम् ।
अग्निं वायुं रविं सोमं यमादींश्च सुरेश्वरान् ॥ ३ ॥
अनु०— प्रजापति ने इस पवित्र करने वाले कर्म द्वारा अपने सहस्राक्ष पुत्रों को शुद्ध किया । अग्नि वायु, सूर्य, सोम, यम आदि देवों के स्वामियों को पवित्र किया ॥ ३ ॥
कः प्रजापतिः, तस्य पुत्राः सहस्राक्षाग्न्यादयः । पवित्रेण गणहोमेन ॥३॥
उक्तः क्रत्वर्थतया गणहोमः । अधुना स एव पुरुषार्थतयोच्यते—
यत्किञ्चित्पुण्यनामेह त्रिषु लोकेषु विश्रुतम् ।
विप्रादि तत्कृतं केन पवित्रक्रिययाऽनया ॥ ४ ॥
अनु०— तीनों लोकों में जो कुछ पवित्र नाम वाला विख्यात है जैसे ब्राह्मण आदि उन सभी की सृष्टि प्रजापति ने इसी पवित्र क्रिया द्वारा की ॥ ४ ॥
तादृशं फलमवाप्यते । उत्तमजातिप्राप्त्युपायोऽयमित्यभिप्रायः ॥ ४ ॥
अष्टमः खण्डः ] चतुर्थप्रश्ने अष्टमोऽध्यायः ४०५
अष्टमः खण्डः ] चतुर्थप्रश्ने अष्टमोऽध्यायः ४०५
किंच—
प्राजापत्यमिदं गुह्यं पापघ्नं प्रथमोद्भवम् ।
समुत्पन्नान्यतः पश्चात्पवित्राणि सहस्रशः ॥ ५ ॥
**अनु०—**प्रजापति के इस पाप का विनाश करने वाले रहस्य का सबसे पहले उद्भव हुआ इसके बाद ही सहस्रों का अन्य पवित्र करने वाली क्रियाएँ उद्भूत हुईं ॥ ५ ॥
इदमष्टगणहोमकर्म प्राजापत्यं प्रजापतेस्सकाशात् प्रथमोद्भूतम् । अन्यानि तु यन्त्रान्यतः पश्चादुत्पन्नानि ॥ ५ ॥
अथाऽस्यैव कालविकल्पाः—
योऽब्दायनर्तुपक्षाहान् जुहोत्यष्टौ गणानिमान् ।
पुनाति चाऽऽत्मनो वंश्यान् दश पूर्वान् दशाऽपरान् ॥ ६ ॥
**अनु०—**जो व्यक्ति वर्ष, अयन, ऋतु और पक्ष के प्रथम दिनों को इन आठ गण होमों को करता है वह अपने वंश के दश पहले के तथा दश बाद के पुरुषों को पवित्र करता है ।
कर्तुस्तु कालाभिनियमात् फलविशेषः कल्प्यते । अब्दस्संवत्सरः । अयनं तदर्धः आदित्यस्य दक्षिणोत्तरायणगमनेन । ऋतुः अब्दषड्भागो वसन्तादिः । तदर्धः मासः । तदर्धः पक्षः शुक्लः कृष्णो वा । अहस्तु प्रसिद्धम् । एतद्वन्दादिभिरेव सम्बध्यत इति केचित् । कल्पान्तरमित्यपरे ॥ ६ ॥
अथ—
एतानष्टौ गणान् होतुं न शक्नोति यदि द्विजः ।
एकोऽपि तेन होतव्यो रजस्तेनाऽस्य नश्यति ॥ ७ ॥
**अनु०—**यदि कोई द्विज इन आठ गण होमों को करने में समर्थ न हो तो एक ही करे; उसी से उसका पाप नष्ट हो जाता है ॥ ७ ॥
तत्राऽप्यशक्तौ—
सूनवो यस्य शिष्या वा जुहुत्यष्टौ गणानिमान् ।
अध्यापनपरिक्रीतैरंहसस्सोऽपि मुच्यते ॥ ८ ॥
**अनु०—**जिसके पुत्र या शिष्य इन आठ गण होमों को करते हैं वह भी उनका अध्यापन कर उस पुण्य को खरीद लेता है और पाप से मुक्त हो जाता है ॥ ८ ॥
| ४०६ | बौधायन-धर्मसूत्रम् | [ गणहोमः |
|---|
अध्यापनपरिक्रीतैः तेनैवाऽध्ययनादिना ॥ ८ ॥
तदसम्भवेऽप्याह—
धनेनाऽपि परिक्रीतैरात्मपापजिघांसया ।
हावनीया ह्यशक्तेन नावसाद्यश्शरीरधृक् ॥ ९ ॥
**अनु०—**अपने पाप को नष्ट करने की इच्छा से इन गणहोमों को करने में अशक्त व्यक्ति धन से भी खरीद कर इन्हें कराये उसे (धनी होते) शरीर को कष्ट देने आवश्यकता नहीं है ।
हावनीयाः होमं कारयितव्याः । अन्येनाऽपि कारयितव्यत्वे हेतुर्नावसाद्य इति । नाऽवसाद्यो न क्लेशनीयः । धने विद्यमाने किमित्यात्मनश्शरीरशोषणं हविष्यादिभिः क्रियेतेत्यभिप्रायः । एवं च मौनव्रतान्यपि कर्तुरेव, न कारयितु; नाऽवसाद्य इति वचनात् । 'गरगिरिच सोदति' इति दोषोऽपि कर्तुरेव न कारयितुः, उपरागे वर्तमाने श्राद्धभोजनवन् ॥ ९ ॥
किञ्च—
धनस्य क्रियते त्यागः कर्मणां सुकृतामपि ।
पुंसोऽनृणस्य पापस्य विमोक्षः क्रियते क्वचित् ॥ १० ॥
**अनु०—**पुण्य कर्मों की सिद्धि के लिए भी धन का त्याग किया जाता है । कभी-कभी ऋणमुक्त होने पर भी मनुष्य अपने पाप से मुक्त हो जाता है ॥ १० ॥
अनृणस्याऽपि पुंसो ऽयं धर्मतस्त्यागः क्वचित्क्रियित इत्युच्यते । किमर्थमुक्तम् ? पुण्यानामपि कर्मणां सिद्धये । गणहोमार्थं पुनर्धनत्यागे क्रियमाणे पापस्यैव विमोक्षः क्रियते न धनस्येत्यभिप्रायः ॥ १० ॥
सोऽयं प्रशंसाप्रपञ्च आरभ्यते-द्विजः कथं रोचेत, ततोऽनुष्ठीयेतेति—
मुक्तो यो विधिनैतेन सर्वपापार्णसागरात् ।
आत्मानं मन्यते शुद्धं समर्थं कर्मसाधने ॥ ११ ॥
**अनु०—**इस विधि से पाप और ऋण के समुद्र से निकलकर वह अपने को शुद्ध मानता है और धार्मिक कर्मों के सम्पादन के लिए योग्य समझता है ॥ ११ ॥
सर्वपापसमुद्राच्चोत्तीर्णमात्मानं कर्मयोग्यं मन्यते ॥ ११ ॥
किञ्च—
'ज्ञायते चाऽमरैः द्युस्थैः पुण्यकर्मेति भूस्थितः ।
१. सूत्रमिदं सर्वेषु मूलपुस्तकेषु षष्टसूत्रानन्तरं पठितम् । परन्तु व्याख्यानानुतलेष्वत्रैव पठितमित्यत्रैव निवेशितमस्माभिः ।
अष्टमः खण्डः ] चतुर्थप्रश्ने अष्टमोऽध्यायः ४०७
अष्टमः खण्डः ] चतुर्थप्रश्ने अष्टमोऽध्यायः ४०७
देववन्मोदते भूयस्स्वर्गलोकेऽपि पुण्यकृत् ॥ १२ ॥
**अनु०—**उस व्यक्ति के पृथ्वी पर रहने पर भी स्वर्ग में रहने वाले देवता उसे पुण्यकर्मा के रूप में जानने लगते हैं। वह पुण्य करने वाले पुनः स्वर्गलोक में देवों के समान सुखों का भोग करता है ॥ १२ ॥
द्युस्थैर्देवैर्भमिष्ठोऽपि पुण्यकर्मेति ज्ञायते । तथा च श्रुतिः—'यथा वृक्षस्य सम्पुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो वाति' इति ॥१२॥
^२सर्वपापार्णमुक्तात्मा क्रिया आरभते तु याः ।
अयत्नेनैव तास्सिद्धिं यान्ति शुद्धशरीरिणः १३ ॥
**अनु०—**सभी पापों और ऋणों से मुक्त व्यक्ति जिन क्रियाओं को आरम्भ करता है, उस शुद्ध शरीर वाले व्यक्ति की वे सभी क्रियाएं बिना परिश्रम के ही स्वयं सिद्ध हो जाती हैं ।
. प्राजापत्यमिदं पुण्यं^३मृषीणां समुदीरितम् ।
इदमध्यापयेन्नित्यं धारयेच्छृणुतेऽपि वा ॥ १४ ॥ *
मुच्यते सर्वपापेभ्यो ब्रह्मलोके महीयते ॥
**अनु०—**यह प्रजापति का पवित्र धर्मशास्त्र है जिसका उपदेश ऋषियों ने किया है। इसका नित्य अध्ययन और अध्यापन करे' इसका स्मरण करे। इसको सुनने से भी मनुष्य सभी पापों से मुक्त हो जाता है और ब्रह्मा के लोक में प्रतिष्ठित होता है ॥ १४ ॥
इदमिति धर्मशास्त्रमुच्यते । गणहोममात्रमेव वेत्यर्थः । अत्राऽध्यापनधारणश्रवणानां पूर्वं पूर्वं गरीयः ॥ १३, १४ ॥
अथ मन्त्रपुरश्चरणमाह—
यान् सिषाधयिषुर्मन्त्रान् द्वादशाऽहानि तान् जपेत् ॥ १५ ॥
घृतेन पयसा दध्ना प्राश्य निश्योदनं सकृत् ।
**अनु०—**जिन मन्त्रों से अपनी इच्छाओं को सिद्ध करना चाहता हो उनका
^२ सर्वपापविशुद्धात्मा इति ग पु. ^३ ऋषिभिः ऋषिणा इति क. इ. पु.
* 'इदमेतद्गणं होमं धारयेदथ वा जपेत् ॥ १५ ॥
शृणोतु वा विधिं स्मृत्वा सर्वपापैः प्रमुच्यते ।
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ॥ १६ ॥ इत्यधिकः सूत्रपाठः क. पु.
४०८ बौधायन-धर्मसूत्रम् [ मन्त्रपुरश्चरणम्
बारह दिन तक जप करे। और केवल एक बार रात्रि में ओदन, घृत, दध और दधि का आहार करे ॥ १५ ॥
द्वादशाऽहानि सकृत्सकृत्प्राश्य जपेदिति सम्बन्धः । स च "मुखं व्यादाय स्वपिति" इतिवत् द्रष्टव्यः । सिषाधयिषुः साधयितुमिच्छन् । घृतेनेति घृतान्नेनेत्यभिप्रायः ॥ १५ ॥
'ऋग्यजुस्सामवेदानामथर्वाङ्गिरसामपि ।
दशावरं तथा होमः सर्पिषा सवनत्रयम् ॥ १६ ॥
अनु०—( ऋक्, यजुस्, सामवेद, अथर्वाङ्गिरस् से सम्बद्ध ) होम दशवार घृत से तीनों सवनकालों में करे । मन्त्रों के द्वारा अपने अभीष्ट कार्य की सिद्धि के लिए यही आरम्भिक पूजन विधि ( पुरश्चरण ) है ॥ १६ ॥
पूर्वसेवा भवेदेषा मन्त्राणां कर्मसाधने ॥
मन्त्राणां कर्मसाधन इति ॥ १७ ॥
इति बौधायनीये धर्मसूत्रे चतुर्थप्रश्नेऽष्टमः खण्डः ॥
वेदसम्बन्धिन्या मन्त्रसम्बन्धिन्याश्च षष्ठया 'वैश्वानर्यः' ( ४. ७. ५. ) इत्यनेन सम्बन्धः स च वैदिकानामेव मन्त्राणामेषा पूर्वसेवा पुरश्चरणं, नेतरदिति ज्ञापनार्थम् । मन्त्राणां कर्मसाधन इति । मन्त्रैरिष्टानिष्टप्राप्तिपरिहारसिद्धावित्यर्थः । तथा च शौनकः—
'पुरश्चरणमादौ तु मन्त्राणां सिद्धिकारणम्' इति ॥ १७ ॥
इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते चतुर्थप्रश्नेऽष्टमोऽध्यायः ॥
अतिलोभात् प्रमादाद्वा ॥८॥ निवृत्तः पापकर्मभ्यः ॥ समाधुच्छन्दसा रुद्राः ॥ ६ ॥ अथाऽतस्संप्रवक्ष्यामि ॥ ५ ॥ प्रायश्चित्तानि वक्ष्यामः ॥ ४ ॥ प्रायश्चित्तानि वक्ष्यामः ॥३॥ प्रायश्चित्तानि वक्ष्यामः ॥ २ ॥ प्रायश्चित्तानि वक्ष्यामः ॥ १ ॥
इति बौधायनीये धर्मसूत्रे चतुर्थप्रश्नः (गृह्यसूत्रे सप्तदशः प्रश्नः) समाप्तः ।
समाप्तं चेदं बौधायनधर्मसूत्रम् ॥
१. सूत्रार्धमिदं ई. पुस्तक एवोपलभ्यते, नाऽन्येषु, परन्तु व्याख्यात्रोपात्तमिति कृत्वा परिगृहीतमस्माभिः ।
परिशिष्टम्
'विवरण' में उद्धृत वाक्यों का सन्दर्भ-निर्देश
| उद्धरण | सन्दर्भ | पृष्ठ |
|---|---|---|
| अकारं चाप्युकारं च | मनु. २. ७६ | ३०२ |
| अक्षय्यं ह व चातुर्मास्य- | आप. श्रौ. ८. १. १. | २७ |
| अर्के चेन्मधु विन्देत | शाबरभाष्य १. २. ३४. | २४९ |
| अङ्गादङ्गात्सम्भवसि | तै. मं. सं. २. १४. | १७३ |
| अङ्गुष्ठमात्रं पुरुषं | महा. भा. व. २९७. १७. | २६३ |
| अङ्गुष्ठानासिकाभ्यान्तु | हारीत. स्मृ. ४. ३७ | ५२ |
| अग्नयेऽंहोमुचे | तै. सं. ७. ५. २२. | ३९४ |
| अग्नये पवमानाय | तै. सं. २. २. ४. | ३९४ |
| अग्नये स्वाहा | तै. मं. सं. १. १. | ३४३ |
| अग्नि जलं वा | या. स्मृ. १. ९८. | ७२ |
| अग्निं होतारम् | ऋ. सं. ३. १. १९. | २७१ |
| अग्निश्च मा मन्युश्च | याज्ञिकी. ३९. | २२४ |
| अग्निहोता | तै. आ. ३. ३. | २०५ |
| अग्नेऽभ्यावर्त्तिन् | तै. सं. ४. २. १. | ३३६ |
| अग्ने नय | तै. ब्रा. २. ८. २. | ४०० |
| अग्नेर्मन्वे | तै. सं. ४. ७. १५. | ४०० |
| अग्ने युक्ष्वाहि | ऋ. सं. ४. ५. २९. | २७१ |
| अग्ने रक्षाहः | ऋ. सं. ५. २. २०. | २७१ |
| अतिथिपूजाहानाच्च | २७८ | |
| अतोऽन्यतममास्थाय | मनु. ११. ८६. | १५९ |
| अन्नाह गोरमन्वत | तै. ब्रा. १. ५. ८. | ३४७ |
| अथ ब्रह्म वदन्ति | १०० | |
| अथाऽऽचामेत् | व. ध. २३. १९. | २२४ |
| अथाऽभ्यादधातीध्मं | आप. श्रौ. ७. ६. ४. | १०६ |
| अथैते प्राहुऋक्संहितम् | शौनकः | ३५४ |
| अग्निरैव काञ्चनम् | व. ध. ३. ५७. | ५४ |
| अध्यापनयोजनप्रतिग्रहाः | गौ. ध. ७. ३. | २०१ |
| अर्धप्रसृतिमात्रा तु | दक्ष. स्मृ. ५. ७. | ६८ |
| अनाश्रमी न तिष्ठेत | दक्ष. स्मृ. १. १०. | ३४ |
| अनिश्चयो भिक्षुः | गौ. ध. ३. ११. | २५१ |
| अनुपनीतसहभोजने | गृत्समदः | १० |
३० बौ०ध०
४१० बौधायन-धर्मसूत्रम्
| उद्धरण | सन्दर्भ | पृष्ठ |
|---|---|---|
| अनुशिष्टं लोक्यम् | बृ. उ. १. ५. १७ | २८० |
| अनृतसम्मिता मनुष्याः | ऐ. ब्रा. १. ६. | २८९ |
| अनृतञ्च समुत्कर्षवति | ३३५ | |
| अन्नं प्राणमन्नमपानम् | तै. ब्रा. २. ८. ८. | २२१ |
| अन्नं ब्रह्म | तै. उ. २. २. | ३०२ |
| अन्नममृतम् | तै. आ. १०. १५. | २६१ |
| अन्विदनुमते त्वम् | तै. सं ३. ३. ११. | ४०१ |
| अपि यत्सुकरं कर्म | मनु. ७. ५२. | ३४२ |
| अपो निशि न गृह्णीयात् | ४१ | |
| अपोऽशान कर्म कुरु | तै. सं. सं. २. ६. | २६१ |
| अभावप्रत्ययालम्बना | यो. सू. १. १२. | २०४ |
| अभिचरन् दशहोतारं | तै. ब्रा. २. २. १. | १०२ |
| अभि त्वा शूर | साम. सं. ५. ३. १. | ३५९ |
| अभिहुत्य हुत्वा भक्षयन्ति | तै. सं. ६. २. ११ | २०० |
| अभ्यर्हितं पूर्वम् | व्याक. वा. २३४. | २२४ |
| अद्भि कार्ष्णायसीम् | मनु. ११. १३३ | ३६१ |
| अबद्धं मनो दरिद्रं | तै. सं. ३. १. १. | १२१ |
| अमन्त्रिका तु कार्येयं | मनु. २. ६६. | ८० |
| अमृतापिधानमसि | याज्ञिकी. ५०. | ३४५ |
| अमृतोपस्तरणमसि | याज्ञिकी. ४७. | २६१ |
| अलाबुं दारुपात्रं वा | मनु. ६. ५४. | २८५ |
| अयं वाव यः पवते | तै. ब्रा. ३. ११. ७. | २६९ |
| अहंकृत्य तृचञ्च | पा. सू. ३. ३. १४९ | २३४ |
| अव ते हेडः | तै. सं. १. ५. ११. | २२५ |
| अश्रद्धया हुतं दत्तम् | भगवद्गी. १७. २८. | ६६ |
| अश्रोत्रिया अननुवाक्याः | ब. ध. ३. १. | २१० |
| अश्मलवणमपण्यम् | ब. ध. २. २९. | ११ |
| असंस्थितो हि तर्हि | २५५ | |
| अज्ञानादिनियमपर्यवसानम् | शाबर भा. १. १. १ | ३५ |
| अहरेष मित्रः रात्रिर्वरुणः | तां. ब्रा. २५. १०. १०. | २२९ |
| अहमस्मि | साम. सं. पू. ६. १. | ३५९ |
| अविच्छिन्नब्राह्मण्यस्सुरां | तं. ब्रा. १. ३; ४. | १० |
| आकारजानामभ्युदितानां | शङ्खः | ६४ |
| आग्नावैष्णवमेकादशकपालं | तै. सं. २. २. ९. | १०२ |
| आग्नेयी वा एषा | तै. ब्रा. ३. ७. ३. | ३९ |
| आचम्याग्न्यादि सलिलं | या. स्मृ. ३. १३. | ८७ |
| आचार्यं स्वमुपाध्यायम् | मनु. ५. ९१ | १६१ |
परिशिष्टम्
४११
| उद्धरण | सन्दर्भ | पृष्ठ |
|---|---|---|
| आचार्यकुलाद्वेदमधीत्य | छा. उ. ८. १५. १. | १८ |
| आच्छाद्य चार्चयित्वा | मनु. ३. २७. | १४० |
| आच्छेत्ता ते मारिषम् | त. सं. १. १. २. | ११४ |
| आत्मा ज्ञातव्य इत्येतत् | श्लो. वा. पृ. ६६१. श्लो. १०३. | २५७ |
| आदित्यो ब्रह्म | छा. उ. ३. १९. १. | २२७ |
| आदित्योऽग्नि | ऐ. ब्रा. ४०. ५. | ४२ |
| आपद्विहितैः कर्म्मभिः | उशनाः | ३५७ |
| आस्नानं तीर्थं क इह प्रवोचत | ऋ. सं. ८. ६. १७. | ११८ |
| आपो हिष्ठा | तै. सं. ५. ६. १. | २२५ |
| आयुर्विप्रापवादेन | मनु. ४. २३७. | २७८ |
| आयुर्दा देव जरसं | तै. मं. सं. २. २. १. | ३२ |
| आयुष्ये | तै. आ. २. ५. | ३३५ |
| आशयेष्वन्नशेषान् | बो. गृ. २. ११. ४२. | २७६ |
| आश्रमसमुच्चयं द्वितीयं | २६० | |
| आसामन्यतमां गत्वा | नार. स्मृ. १२. ७५. | १७० |
| आहवनीये सभ्यावसथ्ययोः | बो. श्रौ. २. ७. | २९५ |
| आहिताग्निश्चेत् | व. ध. ४. ३०. | २०१ |
| आहिताग्नेर्विनीतस्य | व. ध. २५. २. | ३७६ |
| इतरेभ्यो बहिर्वेदि | मनु. ११. ३. | २१३ |
| इतिहासपुराणं | छा. उ. ७. १. २. | ३७७ |
| इन्द्रं नरः | साम. सं. पू. ४. १. | ३५९ |
| इन्द्राय स्वाहा यमाय | ३४४ | |
| इमं मे वरुण | तै. सं. २. १. ११. | २२५ |
| इमं स्तोममर्हते जातवेदसे | तै. मं. सं. २. ७. | ३२ |
| उताऽसि मैत्रावरुणः | ऋ. सं. ५. ३. २४. | ८६ |
| उदके मध्यरात्रे च | मनु ४. १०९. | १५१ |
| उदगयन आपूर्यमाणपक्षे | आश्व. गृ. १. ३. १. | २० |
| उदुत्यम् | तै. सं. १. ४. ४३ | ३४७ |
| उद्दीप्यस्व जातवेदः | तै. मं. सं. १. १. | ३९ |
| उद्यन्तमस्तं यन्तं | तै. आ. २. २. | २२३ |
| उद्वयं तमसस्परि | तै. सं. ४. १. ७. | ३४७ |
| उपासने गुरूणां | आप. ध. १. १५. १. | ४७ |
| उपास्मै गायता नरः | साम. सं. उ. १. २. | ३५९ |
| उभयत्र दशाऽहानि | वृद्धमनुः | ७८ |
| उरवेऽन्तरिक्षाय | ३४४ | |
| ऋतञ्च सत्यञ्च | याज्ञिकी ८. | २३९ |
| ऋतुस्स्वाभाविकस्त्रीणाम् | मनु. ३. ४६. ४७. | १८० |
४१२ बौधायन-धर्मसूत्रम्
| उद्धरण | सन्दर्भ | पृष्ठ |
|---|---|---|
| ऋषयो दीर्घसन्ध्यत्वात् | मनु. ४. ९४. | २३० |
| एका लिङ्गे गुदे तिस्रः | मनु. ५. ३६. | ६८ |
| एका लिङ्गे तिस्रो वामे | व. ध. ६. १६. | ६८ |
| एकोऽपि वेदवित् | मनु. १२. ११३. | ५ |
| एतदक्षरमेताञ्च | मनु. २. ७८. | २२७ |
| एतदेव व्रतं कुर्युः | मनु. ११. १९७. | १३४ |
| एतदेव विपरीतं | तै. आ. २. १. | ४७ |
| एतत् खलु वाव तपः | तै. सं. ६. १. ६. | २७८ |
| एनदद्युमन्तः प्रभूतः | बौ. गृ. १. १. १. | ३०९ |
| एनपा द्वितीया | पा. सू. २. ३. ३१. | ११५ |
| एनबन्यतरस्याम् | पा. सू. ५. ३. ३५ | ११५ |
| एषां त्रिरात्रमभ्यासात् | याज्ञ. स्मृ. ३. ३२२ | ३९० |
| एष्टव्या बहवः पुत्राः | बृह. स्मृ. १. २. | २७९ |
| ऐकाश्रम्यन्त्वाचार्याः | गौ. ध. ३. ३६. | २६१ |
| ओंकारश्चाथशब्दश्च | २२२ | |
| ओं भूः ओं भुवः | याज्ञिकी ४२. | २२८ |
| ओं होतः | बो. श्रौ. १२. १६. | ३०१ |
| ओमापो ज्योतिः | याज्ञिकी ४२. | २२८ |
| कराभ्यां तोयमादाय | व्यासः | २२६ |
| कवारितर्यदङ्घ्रिवोपतिष्ठते | तै. सं. १. ५. ९. | १६५ |
| कर्तृकर्मणोः कृति | पा. सू. २. ३. ६५. | ३ |
| कर्मणैव हि संसिद्धि | भगवद्गीता. ३. २०. | २५५ |
| कर्मयोग्यो जनो नैव | ४१ | |
| कर्मादिष्वेतेर्जुहुयात् | तै. आ. २. ७. | ३३८ |
| कात्यायनाय | तै. आ. १०. १. ७. | ३७८ |
| कामकारकृतेऽपि | मनु. ११. ४५. | १५५ |
| कामतो ब्राह्मणवधे | मनु. ११. ८९. | १५५ |
| कामं मातापितरौ चैनम् | १४९ | |
| कामोदकं सपिण्डता | याज्ञ. स्मृ. ३. ४. | ८० |
| कालाध्वनोरत्यन्तसंयोगे | पा. सू. २. ३. ५. | ३६१ |
| (१)कुणपरेतोऽसृङ्मूत्रपुरीष- | शङ्खः | ५६ |
| कुमारजन्मदिवसं | वृद्धमनुः | ७८ |
| कुर्वन्नेवेह कर्माणि | ई. उ. २. | २५४ |
| कुशोदकं दधि | याज्ञ. स्मृ. ३. ३१४. | ३८० |
| कुश्नक्रोशो शूद्रहत्या | १३५ | |
| कृच्छ्रे, वापनं व्रतं चरेत् | गौ. ध. २७. २. ३. | ३४१ |
| कृत्यल्युटो बहुलम् | पा. सू. ३. ४. ११३. | २५२ |