भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 340, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 340

३४० दशकुमारचरितम् । [ उत्तरपीठिकायां तव' इति । सोऽब्रूत—'न चेद्ब्रवीषि प्रश्नान्, अश्नामि त्वाम्' इति । मयोक्तम्—'पृच्छ तावत् । भवतु' इति । (२०) अथावयोरकयार्ययासीत्संलापः— किं क्रूरं स्त्रीहृदयं किं गृहिणः प्रियहिताय दारगुणाः । कः कामः संकल्पः किं दुष्करसाधनं प्रज्ञा ॥ तत्र धूमिनीगोमिनीनिम्बवतीनितम्बवत्यः प्रमाणम्' इत्युपदिष्टो मया सोऽब्रूत—'कथय, कीदृश्यस्ताः' इति । पर्वतप्रवरं शैलश्रेष्ठम् । यदृच्छया स्वेच्छया । भद्रं कुशलमस्तु इति शेषः । ब्रवीषि उत्तरयसि । अश्नामि भक्षयामि । (२०) अथ तदनन्तरम् । आवयोः ब्रह्मराक्षसस्य मम च । आर्यया आर्या- नामकच्छन्दसा । संलापः परस्परभाषणम् । किं क्रूरमित्यादि—संसारे क्रूरं निष्ठुरं किमिति प्रश्नः । स्त्रीहृदयं कामिनीनां चित्तमेव निष्ठुरमित्युत्तरम् । गृहिणो गृह- स्थस्य प्रियं च हितञ्च तस्मै प्रियहिताय गृहस्थानां प्रीतिकरं हितकरञ्च किमिति प्रश्नः । दारगुणाः भार्यागुणाः—गुणवद्भार्यालाभेन गृहस्थानां प्रीतिर्हितञ्च भव- तीत्यर्थ इत्युत्तरम् । कामः इष्टसाधनं क इति प्रश्नः । संकल्पो निश्चय इत्युत्तरम् । दुष्करसाधनं दुष्करस्य दुःसाध्यस्य विषयस्य साधनं साधकं किमिति पुनः प्रश्नः । प्रज्ञा बुद्धिरित्युत्तरम् । तत्र तस्मिन् विषये । धूमिनीति—तदाख्याः स्त्रियः । प्रमाणं प्रमाणभूताः । चतुर्णां प्रश्नानां यानि उत्तराणि मया दत्तानि तत्रैता धूमिनीप्रभृतयः प्रमाणमिति भावः । उपदिष्टः कथितः । स ब्रह्मराक्षसः । कीदृश्यः किम्भूताः । ताः धूमिन्यादयः । स्वेच्छासे मैंने इस तालाबपर विश्रान्ति ली । कहिये, आप तो कुशलसे हैं ?' उस राक्षसने कहा—'यदि इन प्रश्नोंके उत्तर न दोगे तो, मैं तुम्हें खा जाऊँगा ।' मैंने कहा—'कृपया पूछिये, जो होगा देखा जायगा ।' (२०) तदनन्तर हम दोनोंका सम्भाषण एक आर्यावृत्तसे प्रारम्भ हुआ ।' उस राक्षसने पूछा—'संसारमें निष्ठुर कौन है ?' मैंने उत्तरमें कहा—'स्त्रीका हृदय ।' 'गृह- स्थोंको हितकर क्या है ?' 'गुणवती स्त्री ।' 'इष्टसाधन क्या है' 'संकल्प ।' दुःसाध्य- साधनको कौन करता है ?' 'बुद्धि ।' इन उपर्युक्त उदाहरणोंके प्रमाण धूमिनी, गोमिनी, निम्बवती नितम्बवती नामक स्त्रियाँ हैं ।' मेरे ऐसे उत्तरपर वह राक्षस फिर बोला— 'कहो वे सब कैसे हुईं ?'

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · पृष्ठ 340, कुल 474 में से · BharatKosha