गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 417, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे उत्तरभागे प्र० ३ । क० १० ३७६ अथर्वा लोग [ निश्चल ब्रह्म विद्या जानने वाले ] ब्रह्मा का काम करते हैं । ( तस्मात् उ हिङ्क्रियते ) इसलिये ही यह हिङ्कार किया जाता है । ( प्रजापतिः हि तम् अभिजिन्नति ) प्रजापति [ परमात्मा ] ही उस [ हिङ्कार करने वाले ] को ग्रहण करता है । (अथो खलु आहुः, एकः गोः वै एव प्रजापतेर्व्रतं बिभर्ति, तत् उभये पशवः उपजीवन्ति, ये च ग्राम्याः ये च आरण्याः इति ) फिर अवश्य वे कहते हैं—एक ही गौ [ स्तोता वेदवेत्ता ] निश्चय करके प्रजापति के व्रत [ नियम ] को धारण करता है, दोनों प्रकार के पशु [ जीव ] उस पुरुष के आश्रय जीते हैं जो ग्राम वाले और वन वाले हैं।' ६ ॥ भावार्थः—परमेश्वर की आज्ञा मानने वाले विद्वानों के आदेश के अनुसार जो पुरुष प्रयत्न करते हैं, वे सिद्धि पाते हैं ॥ कण्डिका १० ॥ देवविशः कल्पयितव्या इत्याहुः, छन्दश्छन्दसि प्रतिष्ठाप्यमिति । शंसो३सा- वोमित्याह्वयते, प्रातःसवने त्र्यक्षरेण । शंसावो दैवेत्यध्वर्युः प्रतिगृणा१ति पञ्चाक्षरम् । तत् अष्टाक्षरं सम्पद्यते । अष्टाक्षरा वै गायत्री, गायत्रीमेवैतत् पुरस्तात् प्रातःसवनेऽ- चीक्लपताम् । उक्थं वाचीत्याह शस्त्वा चतुरक्षरमोमुक्थशा इत्यध्वर्युः प्रतिगृणाति चतुरक्षरं तत्, अष्टाक्षरं सम्पद्यते अष्टाक्षरा वै गायत्री, गायत्रीमेवैतत् । उभयतः प्रातःसवनेऽचीक्लपताम् । अध्वर्यो शंसावोमित्याह्वयते माध्यन्दिने षडक्षरेण, शंसावो दैवेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरम् । तदेकादशाक्षरं सम्पद्यते । एकादशाक्षरा वै त्रिष्टुप्, त्रिष्टुभमेवैतत् पुरस्तान्माध्यन्दिनेऽचीक्लपतामुक्थं वाचीन्द्रायेत्याह, शस्त्वा षडक्षरमोमुक्थशा यजेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरं, तदेकादशाक्षरं सम्पद्यते । एकादशाक्षरा वै त्रिष्टुप्, त्रिष्टुभमेवैतत् । उभयतो माध्यन्दिनेऽचीक्लपताम् । अध्वर्यो शंसो३शंसो३सावोमित्याह्वयते तृतीयसवने सप्ताक्षरेण, शंसो३सावो दैवेत्यध्वयुः प्रतिगृणाति पञ्चाक्षरं, तद्द्वादशाक्षरं सम्पद्यते । द्वादशाक्षरा वै जगती, जगतीमेवैतत् पुरस्तात्तृतीयसवनेऽचीक्लपताम्, उक्थं वाचीन्द्राय देवेभ्य इत्याह, शस्त्वा नवाक्षरमोमुक्थशा इत्यध्वर्युः प्रतिगृणाति त्र्यक्षरं, तद् द्वादशाक्षरं सम्पद्यते । द्वादशाक्षरा वै जगती, जगतीमेवैतत् उभयतस्तृतीयसवनेऽचीक्लपतामिति । एतद्वै तच्छन्दः, छन्दसि प्रतिष्ठापयति, कल्पयत्येव देवविशः, य एवं वेद । तदप्येषाभ्यनूक्ता, यद्गायत्रे अधिगायत्रमाहितमिति ॥ १० ॥ कथने स्तुतौ च—ण्विन् । आर्षरूपं बहुवचनस्य उक्थशासः । उक्थानां वेदमन्त्राणां कथयितारः (अथर्वाणः) निश्चलज्ञानिनः । सर्ववेदवेत्तारः ( गोः ) गमेर्डोः ( उ० २ । ६७) गै गाने स्तुतौ च—डोः । स्तोता—णिच् ० ३ । १६ ( ग्राम्याः ) ग्रामीणाः ( आरण्याः ) अरण्य—णः । अरण्ये भवाः ॥ १. पू. सं. 'प्रतिगृह्णाति' इति पाठः ॥ सम्पा० ॥