गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 562, कुल 600 में से
संदर्भ में पढ़ें५९४ गोपथब्राह्मणे उत्तरभागे प्र० ६ । क० ११ सामातिच्छन्दश्छन्दो यथादैवतमनेन यथास्तोमं यथासाम यथाछन्दः समृध्नोति, य एवं वेद । यद्वै समानोदर्कं, तत् षष्ठस्याह्नो रूपम् । यच्चैव प्रथममहः, तदुत्तममहः, तदेवैतत् पदम् । पुनर्यत् षष्ठं, यदश्ववद्रथवद्यत् पुनरावृत्तं, यत् पुनर्निर्वृत्तं, यदन्तरूपं, यदसौ लोकोऽभ्युदितः, यन्नाभानेदिष्ठं, यत् पारुच्छेपं, यन्नराशंसं, यद् द्वैपदा, यत् सप्तपदा, यत् कृतं, यद्रैवतं, तत्तृतीयस्याह्नो रूपम् । एतानि वै षष्ठस्याह्नो रूपाणि छन्दसामु ह षष्ठेनाह्नाक्तानां रसो निनेजत्, तं प्रजापतिरुदानए नाराशं१स्या गायत्र्या रैभ्या त्रिष्टुभा पारिक्षित्या जगत्या गाथया अनुष्टुभा एतानि वै छन्दांसि षष्ठेऽहनि शस्तानि भवन्ति अयातयामानि, छन्दसामेव तत् सरसताया अयातयामतायै । सर- सानि हास्य छन्दांसि षष्ठेऽहनि शस्तानि भवन्ति, सरसैः छन्दोभिरिष्टं भवति, सरसैः छन्दोभिर्यज्ञं तनुते य एवं वेद ॥ ११ ॥ कण्डिका ११ ॥ देवासुर सङ्ग्राम की आख्यायिका, यज्ञों में छठे दिन के कर्म ॥ ( देवासुराः वै एषु लोकेषु समयतन्त ) देवता और असुर इन लोकों में युद्ध करने लगे । ( ते देवाः षष्ठेन अह्ना एभ्यः लोकेभ्यः असुरान् पराणुदन्त ) उन देव- ताओं ने छठे दिन [ के यज्ञ ] द्वारा इन लोकों से असुरों को निकाल दिया । ( तेषां यानि अन्तर्हस्तानि वसूनि आसन्, तानि आदायन् समुद्रं प्रारूप्यन्त ) उन [ देवताओं ] के जो हाथों में धन थे, उन्हें वे [ असुर ] ले गये और समुद्र में फेंक दिया । ( देवाः वै तेषाम् अनुहाय एतेन एव छन्दसा अन्तर्हस्तानि वसूनि आददत ) देवताओं ने उनका पीछा करके इस ही [ पारुच्छेप ] छन्द से [ उनके ] हाथ में के धनों को ले लिया । ( तत् एव एतत् पदं, पुनःपदम् ) वह ही यह पाद है, [ जो ] पुनःपद [ छह पाद के बोले जाने के पीछे सातवां पाद ] है । ( सः वा अंकुशः आकुञ्चनाय, द्विषतः वसु आ दत्ते, एनम् एभ्यः सर्वेभ्यः लोकेभ्यः एव निर् नुदते, यः एवं वेद ) वह ही समेटने के लिये अंकुश है, वह बैरी के धन को ले लेता है, और इसको इन सब लोकों से ही निकाल देता है, जो ऐसा विद्वान् है ॥ ( द्यौः वै देवता षष्ठम् अहर्वहति, त्रयस्त्रिंrequest/word त्रयस्त्रिंशः स्तोमः, रैवतं साम अतिच्छन्दः छन्दः, अनेन यथादैवतम्, यथास्तोमम्, यथासाम, यथाछन्दः समृध्नोति, यः एवं वेद ) प्रकाशमान सूर्य देवता [ यज्ञ के ] छठे दिन को ले चलता है, त्रयस्त्रिंश स्तोम, रैवत साम और अतिछन्द छन्द होता है । इस [ विधान ] से देवता के अनुसार, स्तोम के अनुसार, ११—( समयतन्त ) सग्रामं कृतवन्तः ( पराणुदन्त ) परा—अनुदन्त । निःसारितवन्तः ( अन्तर्हस्तानि ) हस्तगतानि । अधिकारप्राप्तानि ( आदायन् ) आ+अदायन् । गृहीतवन्तः ( प्रारूप्यन्त ) प्र-अरूप्यन्त । रूह बीजजन्मनि प्रादुर्भावे च—णिच् । प्रक्षिप्तवन्तः ( अनुहाय ) अनु+ओहाङ् गतौ—ल्यप् । पृष्ठतो गत्वा ( आददत ) आ—अददत । गृहीतवन्तः ( तत् ) तत्र । पारुच्छेपीषु ऋक्षु ( पुनः- पदम् ) षट्सु पादेषु समाप्तेषु पुनः पश्चात् उच्चार्यमाणः सप्तमः पादः ( अङ्- कुशः ) वक्राग्रलौहास्त्रभेदः ( आकुञ्चनाय ) आकर्षणाय ( आ दत्ते ) गृह्णाति