गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 75, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे पूर्वभागे प्र० १ । क० २२ ॥ ३७ भावार्थः—परमात्मा के सामर्थ्य से शब्द तथा बोलने और सुनने आदि के सामर्थ्य और साधन संसार में उत्पन्न हुये हैं ॥ २१ ॥ विशेषः—तैंतीस देवता हैं—८ वसु अर्थात् अग्नि, पृथिवी, वायु, अन्तरिक्ष, आदित्य, द्यौः वा प्रकाश, चन्द्रमा और नक्षत्र, — ११ रुद्र अर्थात् प्राण अपान, व्यान, समान उदान, नाग, कूर्म, कृकल, देवदत्त और धनञ्जय—यह दस प्राण और ग्यारहवां जीवात्मा— १२ आदित्य अर्थात् महीने, १ इन्द्र अर्थात् बिजुली, १ प्रजापति अर्थात् यज्ञ—महर्षि दयानन्द कृत ऋग्वेदादिभाष्यभूमिका, वेद विषय पृष्ठ ६६-६८ ॥ कण्डिका २२ ॥ सैषेकाक्षराऋग् ब्रह्मणस्तपसोऽग्रे प्रादुर्बभूव ब्रह्म वेदस्याथर्वणं शुक्रमत एव मन्त्राः प्रादुर्बभूवुः स तु खलु मन्त्राणामतपसाशुश्रूषाऽनध्यायाध्ययनेन यदूनञ्च विरिष्टञ्च यातयामञ्च करोति तदथर्वणां तेजसा प्रत्याप्याययेन्मन्त्राश्च मामभि- मुखीभवेयुर्गर्भा इव मातरमभिजिघांसुः पुरस्तादोङ्कारं प्रयुङ्क्त एतयैव तदृचा प्रत्याप्याययेदेषैव यज्ञस्य पुरस्ताद्युज्यत एषा पश्चात् सर्वत एतया यज्ञस्तायते । तदप्येतदृचोक्तम् । या पुरस्ताद्युज्यत एषा ऋचोऽक्षरे परमे व्योमन्निति । तदेतदक्षरं ब्राह्मणो यं काममिच्छेत् त्रिरात्रोपोषितः प्राङ्मुखो वाग्यतो बर्हिष्युपविश्य सहस्रकृत्व¹ आवर्त्तयेत् ²सिध्यन्त्यस्यार्थाः सर्वकर्माणि चेति ब्राह्मणम् ॥ २२ ॥ कण्डिका २२ ॥ ओम् को सहस्र बार जपने की महिमा ॥ ( सा एषा एकाक्षरा ऋग् ) वह यह एक अक्षर [ अविनाशी ओम् ] वाली ऋचा [ स्तुति योग्य वाणी ] ( ब्रह्मणः ) ब्रह्मा [ परमात्मा--क० १६ ] के ( तपसः ) तप से ( अग्रे ) पहिले ही पहिले ( प्रादुर्बभूव ) प्रकट हुआ । ( ब्रह्म ) ब्रह्म [ ओम् ] ताडनविद्याः ( चैत्ररथम् ) चित्ररथ—अण् । विचित्ररमणीयगुणयुक्तम् ( दैवतम् ) देव एव देवता, समूहे—अण् । देवानां दिव्यपदार्थानां समूहम् ( वैद्युतम् ) विद्युत्— अण् । विविधद्युतियुक्तम् ( वार्हतं ) वृहती—अण् । वृहतीभिर्वेदवाणीभिर्विहितम् ( तृणवत्तत्रयस्त्रिंशौ ) नूयत इति नवत् । वर्तमाने पृषद्वृहन्मह० ( उ० २ । ८४ ) नु स्तुतौ—अतिः । त्रयस्त्रिंशत् संख्या यस्मिन् स त्रयस्त्रिंशः । बहुव्रीहौ संख्येये डजबहु- गणात् ( पा० ५ । ४ । ७३ ) बहुव्रीहौ डच् । त्रिषु कालेषु नवद्भिः स्तूयमा- नैर्वसुरुरुद्रादित्येन्द्रप्रजापतिभिः त्रयस्त्रिंशद्देवैर्युक्तम् ( स्तोमौ ) स्तुत्यव्यवहारौ सृष्टिप्रलयौ ॥ २२—( आथर्वणम् ) अथर्वन्—अण् । अथर्वणो निश्चलाद् ब्रह्मणः प्राप्तम् । ( शुक्रम् ) वीर्यं सामर्थ्यम् ( अतः ) अस्मात् परमात्मनः ( अशुश्रूषा ) श्रु श्रवणे १. "सहस्रकृत्वा" इति पू० सं० पाठः । २. सिद्धन्ति इति पू० सं० पाठः ॥ सम्पा० ॥