हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 164, कुल 185 में से
संदर्भ में पढ़ें११६ श्रीहम्मीरमहाकाव्ये [सर्गः वारिदेन तदासिक्ता रराजे भूरि भूरियं । कांतक्रांतोपभुक्तायाः छायान्येव मृगीदृशः ॥ ६० ॥ अंभोधरस्य ग्रीष्मर्तुं निर्जित्य विशतः सतः । स्फूर्जद्गज्जिच्छलात्प्रादु—रासंस्तूर्यस्वना इव ॥ ६१ ॥ अंगानि कानि सिक्तानि कानि सेच्यानि वा भुवः । इति विद्युतप्रकाशेन ददर्शैव घनाघनः ॥ ६२ ॥ मालतीकुटजामोद—हारी सृष्टपयःकणः । लतालास्यकलाचार्यो ववौ वर्षासमीरणः ॥ ६३ ॥ क्षेत्प्रं च सरःप्रं च गात्रस्त्राणमपि क्वचित् । चेलत्कोपं तदा वर्ष न्नाहो वंध्यं व्यधाद्धनः ॥ ६४ ॥ यथा यथा जगर्जायं स्तनयित्नुस्तथा तथा । प्रियाः शकानां चक्रंदुर्बाहुजैर्विधवीकृताः ॥ ६५ ॥ इलामधःकर्दमीलां धारा उपरिपातिनीः । विलोक्य यवनाः सेवा-व्रते वैराग्यमासदन् ॥ ६६ ॥ अमुंचंस्तुरगारंग मगच्छन्कृशतां द्विपाः । अक्षुभ्यन् स्यंदना धात्र्यां जनान्दंशा उपाद्रवन् ॥ ६७ ॥ इत्यालोक्यांबुमुक्कालं साक्षात्कालमिवागतम् । यथाकथंचित्संधान मचिकीर्षच्छकाधिपः ॥ ६८ ॥ आजुहाव ततो दूतै रतिपालं शकाधिपः । शकेशः किंकिमाहेति हम्मीरोप्यन्वमन्यत ॥ ६९ ॥ रतिपाले गते जाते संधाने चलिते शके । वृथा नो दोषभृतेत्याप रणमल्लस्तदा रुषं ॥ ७० ॥ आयाते रतिपालेऽथ स मायावी शकेश्वरः । उपावीविशदेतं स्वा—सनेभ्युत्थानपूर्वकं ॥ ७१ ॥ अरंजयच्च कूटेन मानैर्दानैरनेकधा । कूटोपजीविनः किंवा कूटे मुह्यंति कुत्रचित् ॥ ७२ ॥