हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
११६ श्रीहम्मीरमहाकाव्ये [सर्गः वारिदेन तदासिक्ता रराजे भूरि भूरियं । कांतक्रांतोपभुक्तायाः छायान्येव मृगीदृशः ॥ ६० ॥ अंभोधरस्य ग्रीष्मर्तुं निर्जित्य विशतः सतः । स्फूर्जद्गज्जिच्छलात्प्रादु—रासंस्तूर्यस्वना इव ॥ ६१ ॥ अंगानि कानि सिक्तानि कानि सेच्यानि वा भुवः । इति विद्युतप्रकाशेन ददर्शैव घनाघनः ॥ ६२ ॥ मालतीकुटजामोद—हारी सृष्टपयःकणः । लतालास्यकलाचार्यो ववौ वर्षासमीरणः ॥ ६३ ॥ क्षेत्प्रं च सरःप्रं च गात्रस्त्राणमपि क्वचित् । चेलत्कोपं तदा वर्ष न्नाहो वंध्यं व्यधाद्धनः ॥ ६४ ॥ यथा यथा जगर्जायं स्तनयित्नुस्तथा तथा । प्रियाः शकानां चक्रंदुर्बाहुजैर्विधवीकृताः ॥ ६५ ॥ इलामधःकर्दमीलां धारा उपरिपातिनीः । विलोक्य यवनाः सेवा-व्रते वैराग्यमासदन् ॥ ६६ ॥ अमुंचंस्तुरगारंग मगच्छन्कृशतां द्विपाः । अक्षुभ्यन् स्यंदना धात्र्यां जनान्दंशा उपाद्रवन् ॥ ६७ ॥ इत्यालोक्यांबुमुक्कालं साक्षात्कालमिवागतम् । यथाकथंचित्संधान मचिकीर्षच्छकाधिपः ॥ ६८ ॥ आजुहाव ततो दूतै रतिपालं शकाधिपः । शकेशः किंकिमाहेति हम्मीरोप्यन्वमन्यत ॥ ६९ ॥ रतिपाले गते जाते संधाने चलिते शके । वृथा नो दोषभृतेत्याप रणमल्लस्तदा रुषं ॥ ७० ॥ आयाते रतिपालेऽथ स मायावी शकेश्वरः । उपावीविशदेतं स्वा—सनेभ्युत्थानपूर्वकं ॥ ७१ ॥ अरंजयच्च कूटेन मानैर्दानैरनेकधा । कूटोपजीविनः किंवा कूटे मुह्यंति कुत्रचित् ॥ ७२ ॥
१३] रतिपालशकसंवादः ११७ अपवार्य सभास्तारान् भ्रातृमात्रद्वितीयकः । रतिपालं जगादैष विस्तार्याग्रे सिचाँचलं ॥ ७३ ॥ अल्लावदीनं इत्याख्यः सोहं शककुलाधिपः । दुर्गाण्यनेकशो येन दुर्ग्राह्याण्यपि जिग्यिरे ॥ ७४ ॥ इदानीमस्वसात्कृत्वा यदि दुर्गं व्रजाम्यदः । ज्वलदग्न्युत्सवलीव तन्मे कीर्तिः कियच्चिरं ॥ ७५ ॥ स्वसात्कर्तुं बलेनैतत्सहस्राक्षोपि न क्षमः । परं भाग्यात् त्वमायासीः सिद्धमस्मत्समीहितं ॥ ७६ ॥ तद्यतस्व तथा तूर्णं यथा स्यां सत्यसंगरः । एतद्राज्यं तवैवास्तु जयेच्छुः केवलं त्वहं ॥ ७७ ॥ दुराचारो यदाचारो माया यत्सहचारिणी । अनृतं यत्पदं न्यासः क्रोधो यत्पारिपार्श्वकः ॥ ७८ ॥ अत्रांतरे कलिर्नाम लोभं कृत्वा तमग्रतः । विविशे रतिपालस्य मनोदुर्गं सुदुर्ग्रहं ॥ ७९ ॥ युग्मं रतिपालमनोदुर्गं बलाद्गृहंस्तदा कलिः । शकुन्यभूच्छकेशस्य रणस्तंभं जिघृक्षतः ॥ ८० ॥ अंतरंतःपुरं नीत्वा शकेशस्तमभोजयत् । अपीप्यत्तद्भगिन्या च प्रतीत्यै मदिरामपि ॥ ८१ ॥ प्रतिश्रुत्य शकेरोक्तं ततः सर्वं स दुर्मतिः । विरोधोद्बोधिनीर्वाचो गत्वा राज्ञे न्यरूपयत् ॥ ८२ ॥ देवाहंकारलंकेशो निजगाद शकेश्वरः । हम्मीरः किमयं मूढः पुत्रीं मे न प्रयच्छति ॥ ८३ ॥ यद्वा मापादसौ किं त्व—ल्लावदीनोस्मि नो तदा । पुत्रीमयच्छतोमुष्य नाददे यदि वल्लभाः ॥ ८४ ॥ किंवातं यद्यगुर्वीरा भूयांसोपि परासुतां । किं द्वित्रिपदभंगेपि खर्जूरो याति खंजतां ॥ ८५ ॥
११८ श्रीहम्मीरमहाकाव्ये [सर्गः किं जातं नीयते कोशो यदि निःकोशतां व्ययैः । किं शुष्यति समुद्रोपि वारिभिर्वारिदाहृतैः ॥ ८६ ॥ खरे प्रयाहि यत्कर्त्ता कर्त्ता तद्भवित्ता ध्रुवं । भर्त्सनापरसेवं तं निर्भर्त्स्याहमपीयिवान् ॥ ८७ ॥ विशंके रणमल्लोसौ रुष्टः केनापि हेतुना । तेनाज्ञायि ध्रुवं येन दृढां प्रौढिं वहत्यसौ ॥ ८८ ॥ तत्पंचषैर्जनैर्युक्तो गत्वा सायं तदालयं । तं प्रसादय सद्योपि किमात्रोसौ शकेश्वरः ॥ ८९ ॥ खरायिलेति भूकांतं रणमल्लारुरंजने । वीरमं निकषाभूय रतिपालो विनिर्ययौ ॥ ९० ॥ तदा चास्य मुखाद्गन्धः प्रससार मदोद्भवः । अंगादन्यप्रियाश्लेषसंशील्यी इवानिलः ॥ ९१ ॥ दाक्ष्यात् विज्ञायते नैनं संगतं शत्रुभूफ्तेः । नृपं विज्ञापयामास वीरमो रहसि स्थितं ॥ ९२ ॥ निर्यतोस्य मुखाद्राजन् मदगंधस्तथा ययौ । जाने यथैष पापीयान्निश्चितं संगतो द्विषः ॥ ९३ ॥ कुलं शीलं मतिर्लज्जाऽभिमानः स्वामिभक्तता । सत्यं शौचं च न क्वापि जृंभते मद्यपायिनि ॥ ९४ ॥ अकृत्यकरणागम्य—गमनाभक्ष्यभक्षणात् । मद्यं विशिष्यते यस्मादस्मात्संपद्यते त्रयं ॥ ९५ ॥ तथा हि स ऋषिः पीत्वा मधु वेश्यामरीरमत् । असिस्वदच्च गोमांसं लिंगभंगमरीरचत् ॥ ९६ ॥ असिसात् क्रियते स्वामिंस्ततो यद्येवमेव तत् । स शकेशो निष्फलांभःसद्यस्तर्हि प्रयात्यसौ ॥ ९७ ॥ वाचमाचम्य तस्येत्थं विश्रम्य क्षणमायतौ । उपाददे नृपो वाचं वंचितामृतचंचुतां ॥ ९८ ॥
१३ ] रतिपालविज्ञप्तिः ११९ उदेति काले कस्मिंश्चित्प्रतीच्यामपि भास्करः । भज्यमानं परं दुर्गं न तिष्ठेदिति मे मतिः ॥ ९९ ॥ तदस्मिन्निहते जाते दुर्गभंगे च दैवतः । लोकानिति प्रजल्पाकान्निरोद्धुं कतमः क्षमः ॥ १०० ॥ ध्रुवं सपरिवारोपि दुर्मतिर्विभुरेष नः । यदेवमविमृश्यैव रतिपालं प्रजघ्निवान् ॥ १०१ ॥ जीवत्यत्र दुर्गेस्मिन् विलसंतीति किं शकाः । पारीन्द्रे सति किं तस्य गुहायां कोपि दीव्यति ॥ १०२ ॥ हनूमदयनं यद्व दभविष्यज्जितेऽमुना । हतेत्र भविता तद्व द्रतिपालायनं क्षितौ ॥ १०३ ॥ विरम्यतां तदेतस्मा द्भाव्यमस्ति यदस्तु तत् । रावणादिभिरप्युच्चै र्न भाव्यं रुरुधे यतः ॥ १०४ ॥ उक्तेति विरते राज्ञि प्रससार पुरांतरे । वार्ता नृपं शकाधीशो यत्पुत्रीमेव याचते ॥ १०५ ॥ इतश्च राजपत्नीभि रनुशास्य प्रणोदिता । पुत्री देवलदेवीति नत्वा भूपं व्यजिज्ञपत् ॥ १०६ ॥ हाहा तात मदर्थं किं राज्यं विप्लावयस्यदः । किं कीलिकार्थं प्रासादं प्रपातयति कश्चन ॥ १०७ ॥ प्रभूता अपि पुत्राः किं कुर्युः पूर्वे तमौगजाः । परार्थमेव वर्धेत या क्षुद्रश्रीरिवान्वहं ॥ १०८ ॥ मत्प्रदानेन साम्राज्यं चिरं यत्क्रियते स्थिरं । तत्काचखंडदानेन रक्षा चिंतामणेर्न किं ॥ १०९ ॥ परासोर्येत्र कुत्रापि जीवंति तनुजा वरं । दृष्टाहि पुनरावृत्तिर्जीवतां न गतायुषां ॥ ११० ॥ नीतिः स्वहितमालोच्य व्ययं कुर्याद्विचक्षणः । तत्तात् मयि दत्तायां किं किं भावि न ते हितं ॥ १११ ॥
१२० श्रीहम्मीरमहाकाव्ये [सर्गः जामाता भूपतिस्तादृक्सुखं स्वक्षितिरक्षणं । खलूक्त्वा बहु सर्वेषां वयमेव किलोपरि ॥ ११२ ॥ त्यजेदेकं कुलस्यार्थे नीतिरित्याह वाक्पतिः । त्रातुमावर्धितं क्ष्मा मां ददतस्तव का क्षतिः ॥ ११३ ॥ तन्निधेहि धियं तत्त्वे विधेहि समयोचितं । पिधेहि मा च मद्वाक्यं शकेंद्राय प्रदेहि मां ॥ ११४ ॥ अयशःपटनिर्माणतुरीं तच्चातुरीमिति । श्रुत्वा भृशं स जज्वल नृपतिस्तर्पिताग्निवत् ॥ ११५ ॥ जगाद च सुते नैत त्ध्रुवं त्वन्मतिवल्गितं । अस्पृष्टपापपंकानां कुमारीणामधीरिरिति ॥ ११६ ॥ शिक्षयित्वेति पापिन्या त्वमिह प्रेषिता यया । छिनद्मि रसनां तस्या बिभेमि स्त्रीवधान्न चेत् ॥ ११७ ॥ त्वद्दानेन यदिष्येत प्राज्यराज्यसुखासिका । त त्किं न जीवितव्याशा पुत्रकालेयभक्षणैः ॥ ११८ ॥ त्यजेदेकं कुलस्यार्थे इति नीतिं यदभ्यधाः । शैशवात्तन्न तेद्यापि तत्परार्थे समर्थता ॥ ११९ ॥ त्याज्य एकः कुलस्यार्थे तस्माद्धीनतरः स चेत् । अहिटष्टो यथांगुष्ठः छेद्यो जिव्हापि किं तथा ॥ १२० ॥ सत्यामप्यासमुद्रोव्यां कुले सारं त्वमेव नः । न चेच्छकोपि तां हित्वा कथं त्वामेव याचते ॥ १२१ ॥ यदूचे मयि दत्तायां किंकिं भावि.न ते हितं । तदेतदपि ते बाल—लीलोन्मीलितमंगजे ॥ १२२ ॥ सर्वात्मना निकृष्टाय प्रकृष्टाय गवाशिने । शकाय त्वयि दत्तायां कुतो हंत हितार्जनं ॥ ॥ १२३ ॥ अयशःपटहो लोके परलोके च दुर्गतिः । स्वकुलाचारविध्वंसो धिक् नृणां जीवितं ततः ॥ १२४ ।
[१३] देवलदेवीकन्यासम्वादः १२१
दुर्लभं नृभवं प्राप्य द्वयमेवार्ज्जयेत्सुधीः । कीर्त्तिं धर्मं च तौ सम्य—कुलाचारप्रपालनात् ॥ १२५ ॥ पूर्वाचारं निहत्याच्चैः सुखं हंत चरंति ये । आज्ञालोपान्न किं पापै र्हतास्तैः पूर्वजा निजाः ॥ १२६ ॥ आचाहमानमप्यादौ यैर्न्नाकृत्यं कृतं पुरा । तत्कुर्वन्नधुनाऽहं तान् कथं वक्ता स्वपूर्वजान् ॥ १२७ ॥ [यतः]पितुर्युपरते यस्तु नोद्वहेत्पैतृकीं धुरं । तेन नैवोपदेष्टव्याः स्वस्य वंशस्य पूर्वजाः ॥ १२८ ॥ बद्धवाचं विधायेति प्रतीपोक्तितरंगितैः । स्वावासं प्रेषयामास सदस्यां क्षितिवासवः ॥ १२९ ॥ इतः स रतिपालोपि तूर्णं गत्वा तदालयं । कलयन्नाकुलीभावं रणमल्लमभाषत ॥ १३० ॥ भ्रातः किं सुखमासीन त्वरस्व प्रपलायितुं । सेवाहेवाकिनां शत्रुर्बद्धुमभ्येति यद्विभुः ॥ १३१ ॥ सुधांशौ विषवत्त्वस्मि न्नैतत्संभाव्यते कथं । इत्याक्षिप्तवचास्तेन रतिपालः पुनर्जगौ ॥ ॥ १३२ ॥ स पंचपैर्जनैर्युक्तो यदि सायं त्वदालयं । एति तन्मे वचः सत्य मित्युक्तासावगाद्गृहं ॥ १३३ ॥ अथ दृष्ट्वा यथादिष्ट मायांतं स क्षितीश्वरं । जातप्रतीतिरुत्तीर्य दुर्गाद्भीत्यामिलद्रिपोः ॥ १३४ ॥ उत्तीर्य रतिपालोपि दुर्गात् स्वर्गादिवोच्चकैः । शिश्राय निरयावासमिवावासं शकेशितुः ॥ १३५ ॥ तयोस्तच्चेष्टितं दृष्ट्वा कलिं धिकलयन्नयं । कोशेऽन्नं कियदस्तीति नृपः पप्रच्छ जाहडं ॥ १३६ ॥ वदामि यदि नास्तीति तदा संधिर्भवेद्ध्रुवं । भाव्यर्थभावाद्वचालेति जगौ न कियदित्यसौ ॥ १३७ ॥ 16 k
१२२ श्रीहम्मीरमहाकाव्ये [ सर्गः कुर्वन्नपि हितं मूर्खोऽहितायैव प्रगल्भते । अत्रोदाहरणं व्यक्तं किन्न पश्यत जाहडं ॥ १३८ ॥ तद्गिरा चिंतयाचांतो भूकांतोभ्येत्य मंदिरं । उच्चेंद्रे विगलत्तंद्र श्चेतसीति व्यचिंतयत् ॥ १३९ ॥ अमानैरपि सन्मानै र्दानैस्तैस्तैरनेकधा । पूजितौ सत्कृतौ शश्व द्वौ मया भ्रातराविव ॥ १४० ॥ यदि तावप्यहो स्वामिद्रोहमेवं प्रचक्रतुः । तदा स्वभावनीचानां परेषां गणनास्तु का ॥ १४१ ॥ साजात्यात्तस्य संगम्य रिपोश्चेन्मुद्गला अमी । परः प्रेममदुस्तस्य महद्भावि विडंबनं ॥ १४२ ॥ यथा कथंचिदर्हास्त द्विसृष्टुं स्वपुरादमी । परः प्रेमपरोऽप्युच्चैः परत्वं यन्न मुंचति ॥ १४३ ॥ एतस्मिन्नंतरे द्वास्थो विदग्धः कोपि मागधः । प्रत्यूषोन्मेषकं काव्य-द्वयमेतदपीपठीत् ॥ १४४ ॥ कोकीनिश्वासवातज्वलिततमतमौंगारवैभातरागा- र्चिष्मत्स्वर्व्योममूषाजठरविनिहितेपास्तनिःशेषदोषे । क्षित्वा प्रत्यूषकल्कं शशभृति विशदे पारदे कालयोगी भास्वंतं निर्मिमीते नवमिव कनकं भूषणार्थं दिनस्य ॥ १४५ ॥ आयातेन वितन्वता हृदि करस्पर्शं भृशं प्रेयसो- न्निद्रत्वं गमितापि तिग्मरुचिना यांतीव निद्रालुतां । अप्रौढेव सरोजकोशविगलद्भृंगावलीझंकृतैः सोत्कंपं वितनोति पश्य नलिनी प्रौढाप्यहो हुंकृतिं ॥ १४६ ॥ प्रीतस्तदर्थचारिणा नृपस्तत्पारितोषिकं । दत्वा क्षणमुपाक्रांस्त ब्राह्ममौहूर्तिकीं क्रियां ॥ १४७ ॥ अथ प्रातरधिश्रित्य सभां स क्षितिवल्लभः । स्वतत्सोदराध्यक्षं महिमासाहिमब्रवीत् ॥ १४८ ॥
१३] हम्मीरस्वर्गगमनवर्णनम् १२३ प्राणानपि मुमुक्षामो वयमात्मक्षितेः कृते । क्षत्रियाणामयं धर्मो न युगांतेपि नश्वरः ॥ १४९ ॥ - स एव क्षत्रियः प्राणां-तेपि यो हुंकृतौ क्षमः । कि नोदाह्रियते व्यक्त मिह राजा सुयोधनः ॥ १५० ॥ - यूयं वैदेशिकास्तद्वः स्थातुं युक्तं न सापदि । यियासा यत्र कुत्रापि ब्रूत तत्र नयामि यत् ॥ १५१ ॥ नृपस्य वचसा तेन प्रासेनेव हतो हृदि । मूर्छया प्रपतन्मुच्चै रवष्टब्ध इव क्रुधा ॥ १५२ ॥ एवमस्त्विति जल्पाको महिमाभ्येत्य मंदिरं । कुटुंबमसिसात्कृत्वा नृपं गत्वेदमब्रवीत् ॥ १५३ ॥ पाणिगृहीती त्वद्भातु र्गंतुमुत्कंठिताप्यसौ । इलाविलासिनी कांतं मामाहेति सगद्गदं ॥ १५४ ॥ कातैतावंति वर्षाणि तस्थिवांसो यदोकसि । अप्यात्मानुभवं नैवा स्माष्मं शत्रुपराभवं ॥ १५५ ॥ यस्य प्रसादैः संप्राप्त—सौख्यलक्षैर्निरंतरं । अबोधि नापि तिग्मांशुरुदितोस्तमितोपि वा ॥ १५६ ॥ - तमिदानीमदृष्ट्वैव यद्येवं नाथ गम्यते । पश्चात्तापहृतं तर्हि मनः केनोपशाम्यति ॥ १५७ ॥ प्रसाद्यागत्य तत्सद्यो मंदिरं मेदिनीपते । स्वदर्शनामृतैः पश्चा तापतप्तां निर्षिंचतां ॥ १५८ ॥ एवमभ्यर्थितस्तेन महिमासाहिना विभुः । आलंब्य तद्भुजादंडं सादरं सानुजोचलत् ॥ १५९ ॥ - आसाद्य तद्गृहं भूपो यावदंतर्विशत्यसौ । कुरुक्षेत्रमिवाद्राक्षी त्तावत्सर्वं तदंगणं ॥ १६० ॥ - अस्रक्पूरे शिरांसीह शिशूनां योषितामपि । तरंत्यवेक्ष्य मूर्च्छालः क्ष्मापालः क्ष्मातलेऽपतत् ॥ १६१ ॥ -
१२४ श्रीहम्मीरमहाकाव्ये [सर्गः
बंधूनां वीरमादीनां विमूर्छोत्थाश्रुसेवनैः । लगित्वा महिमासाहेः कंठे व्यलपदित्यसौ ॥ १६२ हा कंबोजकुलाधार हा कीर्तिकुलमंदिर । हानन्यजन्यसौजन्य हा धन्यतमविक्रम ॥ १६३ ॥ हा क्षत्रैकव्रतागार हा विश्वजनवत्सल । कथंकारं भविष्यामि प्राणदोप्यनृणस्तव ॥ १६४ ॥ मत्तो नैवाधमः कोपि त्वत्तो नैवोत्तमः परः । अद्यायं मंदधी स्तादृग्दृग्प्रेम्ण्यपि यत्त्वयि ॥ १६५ ॥ प्रातिकूल्याद्विधेर्जाता ममेयं यदि दुर्मतिः । आश्चक्रियेतत्तत् किं त्वं यदा भाव्यं हि नान्यथा ॥ १६६ ॥ पुमानात्महितं कर्तुं धियं—त्यनेकधा । सा सतीव पतिं क्वापि भवितव्यं जहाति न ॥ १६७ ॥ अन्यथैव विचार्यंते पुरुषेण मनोरथाः । दैवादाहितसद्भावा कार्याणामन्यथा गतिः ॥ १६८ ॥ विनिवृत्तस्ततो मान मन्नमालोक्य कोष्ठगं । किमेतदिति पप्रच्छ जाहडं जगतीपतिः ॥ १६९ ॥ उक्तायामथ तेनात्म-बुद्धौ प्रोवाच पार्थिवः । खन्मतौ पतताद्वज्रं यया जज्ञे कुलक्षयः ॥ १७० ॥ ततः प्रदाय पौराणां मुक्तिद्वारं स युक्तिवित् । प्रवेष्टुं ज्वलने शिष्टमतिरादिष्टवान् प्रियाः ॥ १७१ ॥ स्वयं च कृतदानादि-धर्मोऽर्चितजनार्दनः । क्षणं पद्मसरस्तीरे निषसाद विषादमुक् ॥ १७२ ॥ आरंगदेविप्रमुखो अथ ता दिव्यभूषणाः । तत्र स्नात्वा नृपं नत्वा तस्थुरूर्ध्वदमाः पुरः ॥ १७३ ॥ कस्याश्चित् कर्णयोः स्वर्ण—कुंडले रेजतुस्तमां । चक्रे इव जगज्जैत्रे रतितत्प्राणनाथयोः ॥ १७४ ॥
१३] हम्मीरराजस्वर्गगमनम् १२५ बभौ परस्याः कस्तूरी--तिलकं कलिकाकृति । स्मरेण त्रिदिवं जेतुं संहितं धनुषीष्विव ॥ १७५ ॥ नासावंशाग्रतोऽन्यस्या मुक्तं मुक्ताफलं बभौ । तिलपुष्पायतो यस्या वारिबिंदुरिव स्फुरन् ॥ १७६ ॥ कस्याश्चिदुरसि स्फारा मुक्ताहारलता बभौ । वितता हासधारेव निर्याता सृक्किणीद्वयात् ॥ १७७ ॥ रेणुसंगभयात्काम--स्पंदनांगमिवावृतं । बभौ नीलदुकूलेन कस्याश्चिच्छ्रोणिमंडलं ॥ १७८ ॥ करद्वयांगुलीयानां मयूखैर्वृत्तवर्तिभिः । परीता हरिचापाभ्या मिव काचिदराजत ॥ १७९ ॥ आच्छिद्याहितचक्रांग--याननाशभयादिव । रेजे नियंत्रणान्यस्याः पादयोनूपुरच्छलात् ॥ १८० ॥ ततस्तुष्टो नृपश्चिह्नं कबरीं स्वां वरीयसीं । मूर्त्तशृंगारसर्वस्व मिव तासां व्यशिश्रणत् ॥ १८१ ॥ पुत्रीं देवलदेवीं च दोर्भ्यामालिग्य निर्भरं । नितरां निःश्वसन् क्रंदन् कष्टेन महता जहौ १८२ ॥ ऊचे च चेद्भवेत्पुत्री भूयात्तर्हि भवादृशी । परां कोटिं ययानायि गौर्येव जनको निजः ॥ १८३ ॥ स्वर्न्नारीस्पृहलुब्धोऽसौ यदि न स्वीकरोति नः । तदास्मै प्राक् प्रतीत्यर्थ मिमां दर्शयितास्महे ॥ १८४ ॥ इति ध्यात्वेव तां वेणीं हृदि विन्यस्य सुभ्रुवः । ज्वलद्धनंजयज्वाला--करालां प्राविशंश्चितां ॥ १८५ ॥ स्वःस्त्रीरूपवशीकृतो यदि कदाप्यस्मानयं स्वप्रियाः स्वीकर्त्ता न तदा प्रतीतिमनयास्योत्पादयिष्यामहे । ध्यात्वेवेति निधाय तां स्वहृदये वेणिं विभोस्ता ज्वलत्- श्रीखंडागरुसारचंदनचितां सद्योप्यविशंश्चितां ॥ १८६ ॥
१२६ श्रीहम्मीरमहाकाव्ये [सर्ग विसृष्टौल्यांजलीन् तासां दत्वा जाजः सभूबुजा । अगात् छित्त्वा द्रुतं क्षित्वा—ष्टरुयेकां गजमस्तकः ॥ १८७ ॥ किमेतदिति राज्ञोक्ते सोऽवक्राजन् यथा पुरा । रावणः शंभुमानर्च तथाहमर्चयाम्यहं ॥ १८८ ॥ तच्छिरांसि नवैतानि रक्षोहस्तपदे पुनः । शिरो ममेदमित्युक्त्वा स्वं च शीर्षमदीदृशत् ॥ १८९ ॥ राज्यार्थी सोदरं हित्वा वीरमः स्थितवानिति । जनापवादभीतेन वीरमेण तिरस्कृतं ॥ १९० ॥ वितीर्य जाजदेवाय ततो राज्यं मुदा नृपः । द्रव्यं क्व निक्षिपामीति चिंतयन् निद्रयादृतः ॥ १९१ ॥ तदा पद्मसरः स्वप्ने ऽभ्येत्य भूपमदो वदत् । म्लेंच्छा धनं मयि क्षिप्तं लप्स्यंते नाप्यसुव्यये ॥ १९२ ॥ सर्वेऽपि रतिपालाद्या नीचा द्रोहमयासिषुः । एते भटा अहं दुर्गस्तुभ्यं द्रुह्यांति नो पुनः ॥ १९३ ॥ अथापनिद्रभूपाला—देशात्सर्वं स जाहडः । प्रक्षिप्य सारं कासारे तमूचे किं करोम्यहं ॥ १९४ ॥ उक्तो निदेशं देहीति श्रीहम्मीरेण वीरमः । कूष्मांडवच्छिरस्तस्य छित्त्वा भूमौ व्यलोडयत् ॥ १९५ ॥ अथ श्रावणमासस्य सितषष्ठ्यां रवौ निशि । दिवि कीर्तिं कलंतीं स्वां विलोकितुमिवोत्सुकः ॥ १९६ ॥ अहंकारैरिवाध्यक्षै मूर्त्तेर्वीररसैरिव । अन्वितो नवभिर्वीरै रणं शिश्राय पार्थिवः ॥ १९७ ॥ आगाद्धम्मीर इत्युक्ति—श्रुत्या व्यंजितविक्रमः । ससैन्यः शकराज्ञोऽपि भेजे तत्राभ्यमित्रतां ॥ १९८ ॥ एकस्तस्य नृपस्याग्रे वीरमौलिः स वीरमः । बभौ चंपाधिपः प्रौढः कौरवाधिपतेरिव ॥ १९९ ॥
१३] हम्मीरराजस्वर्गगमनम् १२७ विशिखान् विकिरन् भूरीन् ध्वानयंश्चापमंडलं । क्षणात्स वीरकोटीरो व्याकुलं द्विद्कुलं व्यधात् ॥ २०० ॥ श्वेडानादैर्द्विषच्चक्रं त्रासयन्नेणयूथवत् । सिंहः सिंह इवाध्यक्षो जघ्ने यन्नेत्र वैरिणां ॥ २०१ ॥ नयन्नग्निशिरोल्काभिः प्रतिवीराननंगतां । टाको गंगाधरः स्वाख्यां सत्याख्यामिह तेनिवान् ॥ २०२ ॥ चबारोपि व्यराजंत मुद्गलास्ते स्फुरद्बलाः । चतुरंगमपि द्वेषि—बलं जेतुमिवोद्यताः ॥ २०३ ॥ परान् परः शतान् प्रेत—पतेरतिथितां नयन् । परमारान्वयं चक्रे क्षेत्रसिंहोत्र सार्थकं ॥ २०४ ॥ रिपुप्राणापहाराय दंडभृत् दूतिकास्रिव । श्वेडासु वीरैर्मुक्तासु चकितं दधिरे शकाः ॥ २०५ ॥ सा कीदृगस्ति स्वःश्री यां नृपः परिणिनीषते । इति द्रष्टुमिवायासीद्वीरमः प्राग् नृपात् दिवं ॥ १०६ ॥ वीराः परेपि हम्मीरा निर्विण्णा इव जीविते । प्रभोः पूर्वं ययुः स्वर्गं स्थितिरेषा भुजाभृतां ॥ २०७ ॥ मूर्च्छितं महिमासाहिं विभाव्य रिपुपत्रिभिः । युद्धाय स्वयमुत्तस्था—वय हम्मीरभूपतिः २०८ ॥ अतिधारानिपुनस्य वर्षतः शुचिनाऽमुना । शंके द्वेषो भवेन्नोचे त्कथमस्यायमंतकृत् ॥ २०९ ॥ संयत्सेकोपि हम्मीरः परो लक्षलमाश्रयन् । व्योमासिक्तैर्द्विद्वक्त्रैः पद्माकरमिवाकरोत् ॥ २१० ॥ हम्मीराग्निशरश्रेणिपरीताः परितः शकाः । अमंसत प्रविष्टं स्वं मंडलं चंडदीधितेः ॥ २११ ॥ एकोप्यसौ जिगायाशु प्रभूतानपि वैरिणः । एणव्यूहं जयन् सिंहः किं सहायमपेक्षते ॥ २१२ ॥
श्रीहम्मीरमहाकाव्ये [सर्गः निषादी पदगः सादी रथी वा यो यथाऽमुना । निहतः स तथैवास्थात् चित्रन्यस्त इवोच्चकैः ॥ २१३ ॥ वरीवर्षन् शरासारै स्तपालयपयोदवत् । नृपः कदर्थयामास वक्त्रांभोजानि वैरिणां ॥ २१४ ॥ भृशं शरप्रपातेना-कुलयन्मत्तवारणं । तदारोदुश्च तस्यापि मदं स उदतीतरत् ॥ २१५ ॥ रतिपालंवदेतेपि जाता इत्यपवादतः । भीता इवास्याराख्यंगं भित्वा दूरं ययुः शराः ॥ २१६ ॥ अयर्जुनं धनुर्विद्यावेदिनामपि विद्विषां । कोदंडस्थं करस्थं च गुणं चिच्छेद पार्थिवः ॥ २१७ ॥ धनुर्गुणटणत्कार-श्रुत्यैव त्यक्तजीविताः । द्विषो नान्वभवंस्तस्य शरप्रहरणव्यथां ॥ २१८ ॥ नृपेण मध्यतश्छिन्ने भूगताग्रैर्द्विषच्छिरैः । रणांगणमभाल्लून-तिलक्षेत्रमिवातंकं ॥ २१९ ॥ शरौघान् क्षिपतस्तस्य शकराजवरूथिनी । वसुहीनस्य वेश्येव क्षणेनासीत्पराङ्मुखी ॥ २२० ॥ नृपः कांश्चिद्दुरःपूरं पूरयामास सायकैः । दूर्वालावं लुलाबोच्चैः कांश्चित्खङ्गेन मध्यतः ॥ २२१ ॥ वीरोसौ समरेऽरीणां तथात्र कदनं व्यधात् । यथामीभिर्यमस्यापि संकीर्णमभवद्गृहं ॥ २२२ ॥ सध्वजान् खंडयन् दंडान् व्यध्यन्नश्वांन् ससादिनः । द्विधापि विग्रहं भिन्दन् सोऽरेश्चक्रे चिरं रणं ॥ २२३ ॥ अतिधारानिषून्वर्षन् रिपुक्षेत्रेषु भूरिषु । चाक्षुषः श्रावणो जज्ञे चित्रं हम्मीरभूपतिः ॥ २४ ॥ श्रीहम्मीरोथ वीरव्रजमुकुटमणिम्लेंच्छबाणप्रहारैः सर्वांगेषु प्ररूढैः क्षितितलमभितो भावितो भीष्मकर्मा ।
१३] -हम्मीरराजस्वर्गगमनम् १२९ जीवंतं ग्राहिषुर्मां कचिदपि यवना मामिति ध्यातबुद्धिः कंठं छित्वात्मनैव स्वमटति च दिवं स्मात्तसूरातिथित्वः ॥ २२५ ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीर- महाकाव्ये वीरांक हम्मीरस्वर्गगमनवर्णनो नाम त्रयोदशः सर्गः ॥ १३ ॥ अथांतिमश्चतुर्दशः सर्गः तादृक्षस्य विभोरय प्रतिभटत्रासैकदीक्षागुरो- र्हम्मीरावनिवासवस्य जगतीलोकं पृणप्रोन्नतिं । श्रुत्वा केचन केचनापि सुतरामाकर्ण्य मृत्युं बुधा- श्चक्रुः काव्यपरंपरामिति तदा कष्टैकमुष्टिधियाः ॥ १ ॥ धर्मः शर्मपदं मुमोच करुणारण्यं शरण्यं यथा चौदार्यं विजगाल बालललितं शिश्रीय वीरव्रतं । नीतिर्भीतिमुपाजगाम कमला वैधव्यमुद्रां दधौ श्रीहम्मीर नृपालभालतिलक स्वर्गे गतेऽद्य त्वयि ॥ २ ॥ भूदेवानिदमादिकांचनचयैः कः पूजयिष्यत्यहो को वा नाम करिष्यति प्रतिपदं षट्दर्शनोपासनां । को वा पास्यति गोकुलं शककुलैराहन्यमानं रुषाऽ स्माकं का गतिरस्तु निस्तुषमते हम्मीर हा त्वां विना ॥ ३ ॥ गीर्वाणद्रुमधेनुकुंभमणयः काले कराले कलौ नैव क्वापि किल स्फुरंति धरणावेवं यदाहुर्बुधाः । तत्सर्वं निरवद्यमेव नितमां मन्यामहे सांप्रतं श्रीहम्मीर महीमहेंद्र भवति प्राप्ते यशःशेषतां ॥ ४ ॥ पाताले भुजंगेश्वराः सुमनसां व्यूहाः सुपर्वालये पुष्पौघाः प्रतिकाननं प्रतिसरस्ते राजहंसादयः । एणाक्ष्यः प्रतिमंदिरं प्रतिपुरं प्रेमातुरा नागराः शोचंत्येक महो हमीरनृपतिं हाहा त्रिलोकीपतिं ॥ ५ ॥ 17 k
१३० श्रीहम्मीरमहाकाव्ये [स०
धैर्यं मेरुगिरिं मतिः सुरगुरुं गंभीरता सागरं सौम्यत्वं शशिनं प्रतापसरणिः सूरं हरिं शूरता । चिंता रत्नमुदारता सुभगता शिश्राय कामं क्षणात् हम्मीरे सुरसुंदरीस्तनमहाशैलस्खलच्चक्षुषि ॥ ६ ॥ किं कुर्वीमहि किं ब्रवीमहि विभुं कं चानुरुंधीमहि व्याचक्षीमहि किं स्वदुःखमसमं कं वा बभाषेमहि । यन्निःकारणदारुणेन विधिना तादृग्गुणैकाकरं हम्मीरं हरताऽञ्जसा हृतमहो सर्वस्वमेवावनेः ॥ ७ ॥ लक्ष्मीर्याति ससत्वरं मुररिपोर्देवस्य वक्षस्थले वीरश्रीरपि वीरवेश्मनि हरे स्तास्ताः समस्ताः कलाः । पौलोमीकुचकुंभपत्ररचनाचातुर्य्यचिंतामणौ श्रीहम्मीर नरेश्वर त्वयि निराधारा हहा भारती ॥ ८ ॥ संति क्षोणिभुजः क्षितौ कति न ते ये स्वाप्रियाप्रीतये वाहं वाहमनैकवाहनिवहान् प्रौढिं दृढां तन्वते । म्लेंच्छा तुच्छकिरीटकोटिघटनैर्यो दंतुरं सत्वरं चक्राणः क्षितिमंडलं स तु परं हम्मीर एकः कलौ ॥ ९ ॥ एधंतां प्रबलैर्बलैः स्वबिरुदान्ध्यापयंतां जनान् गाहंतां नयवर्त्म मध्यमसमं स्फीतां वहंतां मुदं । बाधंतां युधि बाहुजेशतिकरान् प्रौढिं भजंतां तमां एकस्मिंस्त्वयि वीर नाक मयिते स्वैरं वराकाः शकाः ॥ १० ॥ भोक्तुं धांक्षमियेष विक्रमविभुः पंगुः स जैत्रो जले मज्जद्रागमलैयणराट्रिपुपुरो मार्दगिकत्वं दधौ । इत्थं स्वंस्म विडंबयंति कतिनो हम्मीरराजन् परं यत्त्वं चक्रिथ तच्चकार कुरुते कर्त्ताथवा कः कलौ ॥ ११ ॥ संध्यावंदनकर्मकर्मठधियो माद्यन्मराला इवा- मज्जन् पद्मसरोवरे श्रितमुदो यत्रानिशं वाडवाः ।
] हम्मीरराजवर्णनम् १३१ निःशंकं यवना विगंधिवसनास्तत्र प्रविश्याधुना कूर्दंते महिषा इव क्षितिफ्ते हम्मीर हा त्वां विना ॥ १२ ॥ ईदृक्षं नरमौलिमंडनमणिं हत्वा हहा हेलया दुःसाधं यदसाधि नाम भवता धातस्तदाचक्षतां । नीचानां यदि चेदृशी स्थितिरहो यत्ते प्रयोगं विना- प्यन्येषां हितवस्तुराहृतिविधौ शश्वद्यतंतेतमां ॥ १३ ॥ नेत्रे निष्फलतां नितांतबधिरीभावं भजेतां श्रुती नो कार्यं युवयोरतःपरमहो किंचित् काचिद्गल्हति । याभ्यामेष समीक्षितो गुणगणस्तस्याथ वा संश्रुतो लज्जेतामितरं हहा किमु न ते श्रोतुं तथा वीक्षितुं ॥ १४ ॥ लोको मूढतया प्रजल्पतुतमां यच्चाहमानः प्रभुः श्रीहम्मीरनरेश्वरः स्वरगमत् विश्वैकसाधारणः । तत्त्वज्ञत्वमुपेत्य किंचन वयं ब्रूमस्तमां स क्षितौ जीवन्नेव विलोक्यते प्रतिपदं स्तैस्तैर्निजैर्विक्रमैः ॥ १५ ॥ धिग्धिक् त्वां रतिपाल याहि विलयं श्रीसूरवंशाधम द्राग्वक्त्रं रणमल्ल कृष्णय निजं पापिंस्तमप्युच्चकैः । एको नंदतु जाज एव जगति स्वाभाविकप्रीतिभृत् येनात्रायि दिवंगतेपि नृपतौ दुर्गं किलाहर्द्वयीं ॥ १६ ॥ राधेयः कवचं ददौ शिबिरहो मांसं बलिर्मेदिनीं जीमूतोधर्वपुस्तथापि न समा हम्मीरदेवेन ते । येनोच्चैः शरणागतस्य महिमासाहेर्निमित्तं क्षणा- दात्मा पुत्रकलत्रभृत्यनिवहो नीतः कथाशेषतां ॥ १७ ॥ द्वौ नञौ प्रस्तुतार्थं प्रवदत इतिवत् क्ष्माभृता द्विः प्रयुक्ता- मौचित्याद्याहि याहीति वचनरचनां स्वार्थसंस्थां विधाय । यस्तिष्ठन्नप्यलुंपन्न खलु निजविभोः शासनं स्वामिभक्तः ख्यातस्तेनैव नाम्नापि च जयतु चिरं चाहमानः सजाजा ॥ १८ ॥
१३२ श्रीहम्मीरमहाकाव्ये [सर्गः श्रीक्रांबोजकुलांबुधिवर्धनविधुर्निर्व्याजवीरव्रतो हंकारैकनिकेतनं स महिमासाहिः कथं वर्ण्यते । हित्वैकं तमलक्ष्यमक्षितनयं हम्मीरवीरं तथा प्राणांतेपि पुरः परस्य न पुनर्यो नानमत्स्वं शिरः ॥ १९ ॥ नैव स्वं स्वेन हन्यादिति कुलचरितं पालयन् यो गृहीतो जीवन् म्लेच्छाधिपाये सदसि पदतलं दर्शयंश्च प्रविष्टः । कर्त्ता त्वं जीवितः किं मयि च तदुदितः प्रोक्तवान् यद्धमीरे कार्षीस्त्वं तेन साम्यं कलयति महिमासाहिना कोत्र वीरः ॥ २० ॥ आजौ पादतलेन दर्शितवतो हम्मीरभूभृच्छिरः पृष्टस्तेन तदर्पितांश्च गदतस्तांस्तान् प्रसादानपि । खलुंते रतिपाल यच्छकपतिर्निष्कासयामासिवान् तद्युक्तं त्वमिवान्यथा कतिपुनर्द्रुह्यंति न स्वामिने ॥ २१ ॥ जयति जनितपृथ्वीसंपदः कृष्णगच्छो विकसितनवजातीगुच्छवत् स्वच्छमूर्तिः ॥ विविधबुधजनालीभृंगसंगीतकीर्तिः कृतवसतिरजस्रं मौलिषु छेकिलानां ॥ २२ ॥ तस्मिन्विस्मयवासवेश्मचरितश्रीसूरिचके क्रमात् जज्ञे श्रीजयसिंहसूरिसुगुरुः प्रज्ञालचूडामणिः । षड्भाषाकविचक्रचक्रमखिलप्रामाणिकाग्रेसरं सारंगं सहसा विरंगमतनोद्यो वादविद्याविधौ ॥ २३ श्रीन्यायसारटीकां नव्यं व्याकरणमथ च यः काव्य कृत्वा कुम्भारनृपतेः ख्यातस्त्रैविद्यवेदिचक्रीति ॥ २४ तदीयगणनायकः क्रमनमज्जनत्रायकः प्रसन्नशशभृत्प्रभुर्जयति वादिभेदिप्रभः । यदीयपदपंकजे भ्रमिरभृंगलीलायितं श्रयंति महतामपि क्षितिभृतां सदा मौलयः ॥ २५
१४] कविवाक्यवर्णनम् १३३ तत्पट्टांभोजचंचत्तरखरकिरणः सर्वशास्त्रैकबिंदुः सूरींदुः श्रीनयैदुज्जयति कविकुलोदन्वदुल्लासनेंदुः । तेने तेनैव राज्ञा स्वचरिततनने स्वप्रनुन्नेन कामं चक्राणं काव्यमेतन्नृपतिततिमुदे चारुवीरांकरम्यं ॥ २६ ॥ पौत्रोप्ययं कविगुरोर्जयसिंहसूरेः काव्येषु पुत्रतितमां नयचंद्रसूरिः । नव्यार्थसार्थघटनापदपंक्तियुक्ति- विन्यासरीतिरसभावविधानयत्नैः ॥ २७ ॥ श्रीहर्षामरयोः कविप्रवरयोर्वाक्कल्पवल्लीं निजा- मुद्यांतीमभिवर्षतोर्नवनवैः पीयूषधारारसैः । मद्भाग्यानिलखेलनैरणहता या विप्रुषः काश्चिद- प्यासामेव निषेकशाद्वलतमः सोयं मदुक्तिश्रमः ॥ २८ ॥ जल्पंत्येके कवींद्राः सरसमनुभवादेव कुर्वंति काव्यं तन्मिथ्या हंत नोचेत्तदिह विदधतां तद्गतां येपि धुर्याः । एषोस्माकं प्रसादः सततमपि गिरां देवताया - - - धत्ते लालित्यमुच्चैः खलु चपलदृशां पुण्यतारुण्यमेव ॥ २९ ॥ काव्ये काव्यकृतां न चास्यनुभवः प्रापः प्रमाणं नचेत् प्राहुस्ते कविधर्म एष इति किं प्रत्याहतास्तार्किकैः । को नामानुबभूव चंद्रसुरभिं कुंदोज्ज्वलां कौमुदी सीतां कीर्तिमतोन्थेदिंतगुणस्फीतामकीर्ति च कः ॥ ३० ॥ वाणीनामधिदेवता स्वयमसौ ख्याता कुमारी ततः प्रायो ब्रह्मवतां स्फुरंति सरसा वाचां विलासा ध्रुवं । कुक्कोकः सुकृती जितेंद्रियचयो हर्षः सवात्स्यायनो ब्रह्मज्ञप्रवरो महाव्रतधरो वेणीकृपाणोमरः ॥ ३१ ॥ शृंगारेनुभवो व्यतर्क्यततमां मूढैरिहोच्चैर्यकः सुप्तः किंतु स कः परेषु यदयं नैकप्रकाशीप्रभा ।
१३४ श्रीहम्मीरमहाकाव्ये [सर्गः तद्बन्ध्यासुतलालनामिव वृथा वैकल्पिकीं कल्पना- माकल्पं परिकल्प्य जल्पततमां धैर्यं धियां केवलं ॥ ३२ ॥ ये श्रृंगारकथां प्रथां विदधते वाचां विलासैरस- प्रोल्लासोत्र समस्तितेष्वनुभवो येष्वस्ति तेन्ये पुनः । वर्ण्या ये वदनेषु कुंदविशदास्तंबेरमाणां रदा नैते चर्वणसाधनं तदिह ये दुर्लक्ष्यरूपास्तु ते ॥ ३३ ॥ काव्यं काव्यप्रकाशादिषु रसबहलं किर्त्तयंत्युत्तमं यत् तन्नोभावैर्विभावप्रभृतिभिरनभिव्यक्तमुक्तैः कदाचित् । तेनेति व्यक्तमुक्तं सरसजनमनःप्रीतये काव्यमेतत् कश्चिच्चेन्नीरसोस्मिन् भजति बत मुदं नो तदा कस्य दोषः ॥ ३४ ॥ वदंति काव्यं रसमेव यस्मिन्निपीयमाने मुदमेति चेतः । किं कर्णतर्णर्णसुपर्णपर्णाभ्यर्णादिवर्णार्णवडंबरेण ॥ ३५ ॥ रसोस्तु यः कोपि परं स किंचिन्नास्पृष्टशृंगाररसो रसाय । सत्यप्यहो पाकिमपेशलत्वे न स्वादु भोज्यं लवणेन हीनं ॥ ३६ ॥ कविता वनिता गीतिः प्रायो नादौ रसप्रदाः । उद्गिरंति रसोद्रेकं गाह्यमानाः पुरः पुरः ॥ ३७ ॥ प्रायोपशब्दादिकृतोपि दोषो नचात्र चिंत्यो मम मंदबुद्धेः । न कालिदासादिभिरप्यपास्तो योऽध्वा कथं वा तमहं त्यजामि ॥ ३८ ॥ प्रायोपशब्देन न काव्यहानिः समर्थतार्थे रससेकिमा चेत् । वादेप्यसौ नो विदधीत किंचित् यदि प्रतिज्ञा विरमेन्न विज्ञैः ॥ ३९ ॥ वाणी वाणीविलासात्प्रसरति विदुषां तेन शब्दापशब्दौ प्रायश्चेतोविकल्पः कविमतवशगा शब्दशास्त्रेपि सिद्धिः । मत्वैवं मापशब्दं वदत सहृदया प्रौढकाव्यप्रयुक्ता द्वित्राश्चेत्तेन वृद्धिं भजति कथमसौ तर्हि वाग्ब्रह्मकोशः ॥ ४० ॥ भवंति काव्येषु महाकवीनां यद्येवभावा अशुभाः शुभा वा । प्रदर्शितास्ते कतिचित्ततीह नचेन्महाकाव्यमिदं कथं तत् ॥ ४१ ॥
३] कविवाक्यवर्णनम् १३५ क्षंतव्य एव कविभिः कृपया प्रमादात् काव्येऽत्र कश्चिदपि यः पतितोऽपशब्दः । प्रीतिर्यथास्तु सुहृदामयथा सुशब्दैः किं सा तथास्वसुहृदामापि मापशब्दैः ॥ ४२ ॥ काव्यं पूर्वकवेर्न काव्यसदृशं कश्चिद्विधाताधुने त्युक्ते तोमरवीरमक्षितिपतेः सामाजिकैः संसदि । तद्धूचापलकेलिदोलितमनाः शृंगारवीराद्भुतं चक्रे काव्यमिदं हम्मीरनृपतेर्नव्यं नयेंदुः कविः ॥ ४३ ॥ हंसाः संतः क्व येषां गुणपयसि रतिर्नौ रतिर्दोषवारि- ण्यादर्शाः संतु किंतु प्रतिफलति गुणो दूषणं वापि येषु । तेमी तिष्ठंतु दूरे क्वचन तितउवोदूपणं क्लीकशे ये विधृत्योच्चैरधश्चोज्ज्वलगुणसंमिता संचयं चिक्षिषंति ॥ ४४ ॥ राजानो युधिबद्धविक्रमरसाः कुर्वंतु राज्यं मुदा तेषां विक्रमवर्णने च कवयः शश्वत्कृतंत्वांतमां । अश्रांतं च समुल्लसंलिह रसैर्वाचः सुपारोक्रिमाः स्वादुंकारमिमाः पिबंतु च रसास्वादेषु ये सादराः ॥ ४५ ॥ पीत्वा श्रीनयचंद्रवक्त्रकमलाविर्भाविकव्यामृतं कोनामाऽमरचंद्रमेव पुरतः साक्षान्नपश्येद्ध्रुवं । आदावेव भवेदसावमरता चेत्तस्य नो बाधिका दुर्वारः पुनरेष धावतुतमां दर्पावलीविभ्रमः ॥ ४६ ॥ ते श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीर- काव्ये 'वीरांक' कविवाक्यवर्णनोनाम चतुर्दशः सर्गः ॥ समाप्तमिदं हम्मीरमहाकाव्यं ॥ कार्यात्कारणसंविदं विदधते नैकांतमुत्सृज्य य- त्तेषामिव नोपि कर्हिच-न किं चेतश्च मत्ताचिकीः ।