हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 179, कुल 185 में से
संदर्भ में पढ़ें] हम्मीरराजवर्णनम् १३१ निःशंकं यवना विगंधिवसनास्तत्र प्रविश्याधुना कूर्दंते महिषा इव क्षितिफ्ते हम्मीर हा त्वां विना ॥ १२ ॥ ईदृक्षं नरमौलिमंडनमणिं हत्वा हहा हेलया दुःसाधं यदसाधि नाम भवता धातस्तदाचक्षतां । नीचानां यदि चेदृशी स्थितिरहो यत्ते प्रयोगं विना- प्यन्येषां हितवस्तुराहृतिविधौ शश्वद्यतंतेतमां ॥ १३ ॥ नेत्रे निष्फलतां नितांतबधिरीभावं भजेतां श्रुती नो कार्यं युवयोरतःपरमहो किंचित् काचिद्गल्हति । याभ्यामेष समीक्षितो गुणगणस्तस्याथ वा संश्रुतो लज्जेतामितरं हहा किमु न ते श्रोतुं तथा वीक्षितुं ॥ १४ ॥ लोको मूढतया प्रजल्पतुतमां यच्चाहमानः प्रभुः श्रीहम्मीरनरेश्वरः स्वरगमत् विश्वैकसाधारणः । तत्त्वज्ञत्वमुपेत्य किंचन वयं ब्रूमस्तमां स क्षितौ जीवन्नेव विलोक्यते प्रतिपदं स्तैस्तैर्निजैर्विक्रमैः ॥ १५ ॥ धिग्धिक् त्वां रतिपाल याहि विलयं श्रीसूरवंशाधम द्राग्वक्त्रं रणमल्ल कृष्णय निजं पापिंस्तमप्युच्चकैः । एको नंदतु जाज एव जगति स्वाभाविकप्रीतिभृत् येनात्रायि दिवंगतेपि नृपतौ दुर्गं किलाहर्द्वयीं ॥ १६ ॥ राधेयः कवचं ददौ शिबिरहो मांसं बलिर्मेदिनीं जीमूतोधर्वपुस्तथापि न समा हम्मीरदेवेन ते । येनोच्चैः शरणागतस्य महिमासाहेर्निमित्तं क्षणा- दात्मा पुत्रकलत्रभृत्यनिवहो नीतः कथाशेषतां ॥ १७ ॥ द्वौ नञौ प्रस्तुतार्थं प्रवदत इतिवत् क्ष्माभृता द्विः प्रयुक्ता- मौचित्याद्याहि याहीति वचनरचनां स्वार्थसंस्थां विधाय । यस्तिष्ठन्नप्यलुंपन्न खलु निजविभोः शासनं स्वामिभक्तः ख्यातस्तेनैव नाम्नापि च जयतु चिरं चाहमानः सजाजा ॥ १८ ॥