भारतकोश
संग्रह पर लौटें

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

] हम्मीरराजवर्णनम् १३१ निःशंकं यवना विगंधिवसनास्तत्र प्रविश्याधुना कूर्दंते महिषा इव क्षितिफ्ते हम्मीर हा त्वां विना ॥ १२ ॥ ईदृक्षं नरमौलिमंडनमणिं हत्वा हहा हेलया दुःसाधं यदसाधि नाम भवता धातस्तदाचक्षतां । नीचानां यदि चेदृशी स्थितिरहो यत्ते प्रयोगं विना- प्यन्येषां हितवस्तुराहृतिविधौ शश्वद्यतंतेतमां ॥ १३ ॥ नेत्रे निष्फलतां नितांतबधिरीभावं भजेतां श्रुती नो कार्यं युवयोरतःपरमहो किंचित् काचिद्गल्हति । याभ्यामेष समीक्षितो गुणगणस्तस्याथ वा संश्रुतो लज्जेतामितरं हहा किमु न ते श्रोतुं तथा वीक्षितुं ॥ १४ ॥ लोको मूढतया प्रजल्पतुतमां यच्चाहमानः प्रभुः श्रीहम्मीरनरेश्वरः स्वरगमत् विश्वैकसाधारणः । तत्त्वज्ञत्वमुपेत्य किंचन वयं ब्रूमस्तमां स क्षितौ जीवन्नेव विलोक्यते प्रतिपदं स्तैस्तैर्निजैर्विक्रमैः ॥ १५ ॥ धिग्धिक् त्वां रतिपाल याहि विलयं श्रीसूरवंशाधम द्राग्वक्त्रं रणमल्ल कृष्णय निजं पापिंस्तमप्युच्चकैः । एको नंदतु जाज एव जगति स्वाभाविकप्रीतिभृत् येनात्रायि दिवंगतेपि नृपतौ दुर्गं किलाहर्द्वयीं ॥ १६ ॥ राधेयः कवचं ददौ शिबिरहो मांसं बलिर्मेदिनीं जीमूतोधर्वपुस्तथापि न समा हम्मीरदेवेन ते । येनोच्चैः शरणागतस्य महिमासाहेर्निमित्तं क्षणा- दात्मा पुत्रकलत्रभृत्यनिवहो नीतः कथाशेषतां ॥ १७ ॥ द्वौ नञौ प्रस्तुतार्थं प्रवदत इतिवत् क्ष्माभृता द्विः प्रयुक्ता- मौचित्याद्याहि याहीति वचनरचनां स्वार्थसंस्थां विधाय । यस्तिष्ठन्नप्यलुंपन्न खलु निजविभोः शासनं स्वामिभक्तः ख्यातस्तेनैव नाम्नापि च जयतु चिरं चाहमानः सजाजा ॥ १८ ॥

१३२ श्रीहम्मीरमहाकाव्ये [सर्गः श्रीक्रांबोजकुलांबुधिवर्धनविधुर्निर्व्याजवीरव्रतो हंकारैकनिकेतनं स महिमासाहिः कथं वर्ण्यते । हित्वैकं तमलक्ष्यमक्षितनयं हम्मीरवीरं तथा प्राणांतेपि पुरः परस्य न पुनर्यो नानमत्स्वं शिरः ॥ १९ ॥ नैव स्वं स्वेन हन्यादिति कुलचरितं पालयन् यो गृहीतो जीवन् म्लेच्छाधिपाये सदसि पदतलं दर्शयंश्च प्रविष्टः । कर्त्ता त्वं जीवितः किं मयि च तदुदितः प्रोक्तवान् यद्धमीरे कार्षीस्त्वं तेन साम्यं कलयति महिमासाहिना कोत्र वीरः ॥ २० ॥ आजौ पादतलेन दर्शितवतो हम्मीरभूभृच्छिरः पृष्टस्तेन तदर्पितांश्च गदतस्तांस्तान् प्रसादानपि । खलुंते रतिपाल यच्छकपतिर्निष्कासयामासिवान् तद्युक्तं त्वमिवान्यथा कतिपुनर्द्रुह्यंति न स्वामिने ॥ २१ ॥ जयति जनितपृथ्वीसंपदः कृष्णगच्छो विकसितनवजातीगुच्छवत् स्वच्छमूर्तिः ॥ विविधबुधजनालीभृंगसंगीतकीर्तिः कृतवसतिरजस्रं मौलिषु छेकिलानां ॥ २२ ॥ तस्मिन्विस्मयवासवेश्मचरितश्रीसूरिचके क्रमात् जज्ञे श्रीजयसिंहसूरिसुगुरुः प्रज्ञालचूडामणिः । षड्भाषाकविचक्रचक्रमखिलप्रामाणिकाग्रेसरं सारंगं सहसा विरंगमतनोद्यो वादविद्याविधौ ॥ २३ श्रीन्यायसारटीकां नव्यं व्याकरणमथ च यः काव्य कृत्वा कुम्भारनृपतेः ख्यातस्त्रैविद्यवेदिचक्रीति ॥ २४ तदीयगणनायकः क्रमनमज्जनत्रायकः प्रसन्नशशभृत्प्रभुर्जयति वादिभेदिप्रभः । यदीयपदपंकजे भ्रमिरभृंगलीलायितं श्रयंति महतामपि क्षितिभृतां सदा मौलयः ॥ २५

१४] कविवाक्यवर्णनम् १३३ तत्पट्टांभोजचंचत्तरखरकिरणः सर्वशास्त्रैकबिंदुः सूरींदुः श्रीनयैदुज्जयति कविकुलोदन्वदुल्लासनेंदुः । तेने तेनैव राज्ञा स्वचरिततनने स्वप्रनुन्नेन कामं चक्राणं काव्यमेतन्नृपतिततिमुदे चारुवीरांकरम्यं ॥ २६ ॥ पौत्रोप्ययं कविगुरोर्जयसिंहसूरेः काव्येषु पुत्रतितमां नयचंद्रसूरिः । नव्यार्थसार्थघटनापदपंक्तियुक्ति- विन्यासरीतिरसभावविधानयत्नैः ॥ २७ ॥ श्रीहर्षामरयोः कविप्रवरयोर्वाक्कल्पवल्लीं निजा- मुद्यांतीमभिवर्षतोर्नवनवैः पीयूषधारारसैः । मद्भाग्यानिलखेलनैरणहता या विप्रुषः काश्चिद- प्यासामेव निषेकशाद्वलतमः सोयं मदुक्तिश्रमः ॥ २८ ॥ जल्पंत्येके कवींद्राः सरसमनुभवादेव कुर्वंति काव्यं तन्मिथ्या हंत नोचेत्तदिह विदधतां तद्गतां येपि धुर्याः । एषोस्माकं प्रसादः सततमपि गिरां देवताया - - - धत्ते लालित्यमुच्चैः खलु चपलदृशां पुण्यतारुण्यमेव ॥ २९ ॥ काव्ये काव्यकृतां न चास्यनुभवः प्रापः प्रमाणं नचेत् प्राहुस्ते कविधर्म एष इति किं प्रत्याहतास्तार्किकैः । को नामानुबभूव चंद्रसुरभिं कुंदोज्ज्वलां कौमुदी सीतां कीर्तिमतोन्थेदिंतगुणस्फीतामकीर्ति च कः ॥ ३० ॥ वाणीनामधिदेवता स्वयमसौ ख्याता कुमारी ततः प्रायो ब्रह्मवतां स्फुरंति सरसा वाचां विलासा ध्रुवं । कुक्कोकः सुकृती जितेंद्रियचयो हर्षः सवात्स्यायनो ब्रह्मज्ञप्रवरो महाव्रतधरो वेणीकृपाणोमरः ॥ ३१ ॥ शृंगारेनुभवो व्यतर्क्यततमां मूढैरिहोच्चैर्यकः सुप्तः किंतु स कः परेषु यदयं नैकप्रकाशीप्रभा ।

१३४ श्रीहम्मीरमहाकाव्ये [सर्गः तद्बन्ध्यासुतलालनामिव वृथा वैकल्पिकीं कल्पना- माकल्पं परिकल्प्य जल्पततमां धैर्यं धियां केवलं ॥ ३२ ॥ ये श्रृंगारकथां प्रथां विदधते वाचां विलासैरस- प्रोल्लासोत्र समस्तितेष्वनुभवो येष्वस्ति तेन्ये पुनः । वर्ण्या ये वदनेषु कुंदविशदास्तंबेरमाणां रदा नैते चर्वणसाधनं तदिह ये दुर्लक्ष्यरूपास्तु ते ॥ ३३ ॥ काव्यं काव्यप्रकाशादिषु रसबहलं किर्त्तयंत्युत्तमं यत् तन्नोभावैर्विभावप्रभृतिभिरनभिव्यक्तमुक्तैः कदाचित् । तेनेति व्यक्तमुक्तं सरसजनमनःप्रीतये काव्यमेतत् कश्चिच्चेन्नीरसोस्मिन् भजति बत मुदं नो तदा कस्य दोषः ॥ ३४ ॥ वदंति काव्यं रसमेव यस्मिन्निपीयमाने मुदमेति चेतः । किं कर्णतर्णर्णसुपर्णपर्णाभ्यर्णादिवर्णार्णवडंबरेण ॥ ३५ ॥ रसोस्तु यः कोपि परं स किंचिन्नास्पृष्टशृंगाररसो रसाय । सत्यप्यहो पाकिमपेशलत्वे न स्वादु भोज्यं लवणेन हीनं ॥ ३६ ॥ कविता वनिता गीतिः प्रायो नादौ रसप्रदाः । उद्गिरंति रसोद्रेकं गाह्यमानाः पुरः पुरः ॥ ३७ ॥ प्रायोपशब्दादिकृतोपि दोषो नचात्र चिंत्यो मम मंदबुद्धेः । न कालिदासादिभिरप्यपास्तो योऽध्वा कथं वा तमहं त्यजामि ॥ ३८ ॥ प्रायोपशब्देन न काव्यहानिः समर्थतार्थे रससेकिमा चेत् । वादेप्यसौ नो विदधीत किंचित् यदि प्रतिज्ञा विरमेन्न विज्ञैः ॥ ३९ ॥ वाणी वाणीविलासात्प्रसरति विदुषां तेन शब्दापशब्दौ प्रायश्चेतोविकल्पः कविमतवशगा शब्दशास्त्रेपि सिद्धिः । मत्वैवं मापशब्दं वदत सहृदया प्रौढकाव्यप्रयुक्ता द्वित्राश्चेत्तेन वृद्धिं भजति कथमसौ तर्हि वाग्ब्रह्मकोशः ॥ ४० ॥ भवंति काव्येषु महाकवीनां यद्येवभावा अशुभाः शुभा वा । प्रदर्शितास्ते कतिचित्ततीह नचेन्महाकाव्यमिदं कथं तत् ॥ ४१ ॥

३] कविवाक्यवर्णनम् १३५ क्षंतव्य एव कविभिः कृपया प्रमादात् काव्येऽत्र कश्चिदपि यः पतितोऽपशब्दः । प्रीतिर्यथास्तु सुहृदामयथा सुशब्दैः किं सा तथास्वसुहृदामापि मापशब्दैः ॥ ४२ ॥ काव्यं पूर्वकवेर्न काव्यसदृशं कश्चिद्विधाताधुने त्युक्ते तोमरवीरमक्षितिपतेः सामाजिकैः संसदि । तद्धूचापलकेलिदोलितमनाः शृंगारवीराद्भुतं चक्रे काव्यमिदं हम्मीरनृपतेर्नव्यं नयेंदुः कविः ॥ ४३ ॥ हंसाः संतः क्व येषां गुणपयसि रतिर्नौ रतिर्दोषवारि- ण्यादर्शाः संतु किंतु प्रतिफलति गुणो दूषणं वापि येषु । तेमी तिष्ठंतु दूरे क्वचन तितउवोदूपणं क्लीकशे ये विधृत्योच्चैरधश्चोज्ज्वलगुणसंमिता संचयं चिक्षिषंति ॥ ४४ ॥ राजानो युधिबद्धविक्रमरसाः कुर्वंतु राज्यं मुदा तेषां विक्रमवर्णने च कवयः शश्वत्कृतंत्वांतमां । अश्रांतं च समुल्लसंलिह रसैर्वाचः सुपारोक्रिमाः स्वादुंकारमिमाः पिबंतु च रसास्वादेषु ये सादराः ॥ ४५ ॥ पीत्वा श्रीनयचंद्रवक्त्रकमलाविर्भाविकव्यामृतं कोनामाऽमरचंद्रमेव पुरतः साक्षान्नपश्येद्ध्रुवं । आदावेव भवेदसावमरता चेत्तस्य नो बाधिका दुर्वारः पुनरेष धावतुतमां दर्पावलीविभ्रमः ॥ ४६ ॥ ते श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीर- काव्ये 'वीरांक' कविवाक्यवर्णनोनाम चतुर्दशः सर्गः ॥ समाप्तमिदं हम्मीरमहाकाव्यं ॥ कार्यात्कारणसंविदं विदधते नैकांतमुत्सृज्य य- त्तेषामिव नोपि कर्हिच-न किं चेतश्च मत्ताचिकीः ।

· १३६ तत्समाप्तिश्च [सर्गः १४] नैवं चेन्नयचंद्रसूरिसुकवेर्वाणीं विधायामृतं श्रीहर्षं तमथामरं तमपि तत्किं संस्मरेयुर्बुधाः ॥ १ ॥ काव्यानां त्रितयीं व्यरीरचदिमां यां कालिदासः कलां सृष्टौ गाधिसुतस्य सार्हति न चेत्कानाम तत्रास्तु सा । चकुर्यां कवयो नयेंदुरमरो हर्षश्च नानारसैः सर्गे ब्रह्मण एव सा तु घटते तस्यैव संवादतः ॥ २ ॥ नयचंद्रकवेः काव्यं रसायनमिहाद्भुतं । संतः स्वदंते जीवंति श्रीहर्षाद्याः कवीश्वराः ॥ ३ ॥ लालित्यममरस्येव श्रीहर्षस्येव वक्रिमा । नयचंद्रकवेः काव्ये दृष्टं लोकोत्तरं द्वयं ॥ ४ ॥ काव्यं काव्ययशोर्थिनां रचयतां सम्यक् कृतघ्नस्य नो मीयेतोपचयो नचाप्युपचयः कश्चित्कवीनां स्फुटं । यस्माच्छुद्धमशुद्धमाहुरनयोर्विज्ञापनाकारणं तत्तेषां मनसैव रुद्धमभितः कुत्रावकाशस्तयोः ॥ ५ ॥ यशोर्थिनां काव्यकृतां कवीनां पुण्यंच पापं च न किंचिदेव । पुण्यस्य पापस्य च यन्निदानं मनस्तदेषां यशसैवरुद्धं ॥ ६ ॥ संवत् १५४२ वर्षे श्रावणे मासि श्रीकृष्णर्षिगच्छेश्रीश्रीजयसिंहसूरिशि- ष्येण नयहंसेनात्मपठनार्थं श्रीपेरोजपुरे हम्मीरमहाकाव्यं लिलिखे कल्याणमस्तु भद्रंभूयात्संघस्य ग्रंथाग्रः १५६४

The provided image is completely blank and contains no visible text to transcribe.