कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 245, कुल 876 में से
संदर्भ में पढ़ें२४ कथासरित्सागर प्रातः सेनापतिश्चास्य रुमन्वन्नापदान्तिकम्। यौगन्धरायणं प्राग्दूतं सम्प्रेष्य योषितः ॥४४॥ आगाञ्च कटकं सञ्च तया व्याप्तदिगन्तरम् । यथा विन्ध्याटवीं प्राप सा सम्बाधरसङ्गताम् ॥४५॥ प्रविश्यकटकं तस्मिंस्तस्यामेवाटवीभुवि । तस्यावुज्जयिनीवासां त्रास वत्सेश्वरोऽथ सः ॥४६॥ तत्रस्थं च समभ्यागादुज्जयिन्या वणिक्तया। योगन्धरायणसुहृत्स वागत्याब्रवीदिदम् ॥४७॥ देव चण्डमहासेनः प्रीतो जामातरि त्वयि । प्रेषितश्च प्रतीहारस्तेनेह भवदन्तिकम् ॥४८॥ स नागच्छन् स्थितः पश्चादहमग्रत एव तु। प्रच्छन्नः सत्वरं देवि! विज्ञापयितुमात्मनः ॥४९॥ एतच्छ्रुत्वा स वत्सशो जहर्ष च शशंस च। सर्वं वासवदत्तायाः सापि हर्षमगात्परम् ॥५०॥ कृतबन्धुपरित्यागा विवाहविधिसत्वरा । अथ वासवदत्ता सा सलज्जा चोत्सुका तया ॥५१॥ ततः स्वान्तविनोदाय निकटस्थं वसन्तकम्। सा जगाद कथा काचित्त्वया मे कथ्यतामिति ॥५२॥ स च मुग्धदृशस्तस्या भर्तृभक्तिविवर्धिनीम् । वसन्तकस्तदा धीमानिमामकथयत्कथाम् ॥५३॥ गुहसेनदेवस्मितयोः कथा अस्तीह नगरी लोके ताम्रलिप्तीति विश्रुता । तस्यां च धनदत्ताख्यो वणिगासीन्महाधनः ॥५४॥ स चापुत्रो बहून्विप्रान्मुकुटश्च प्रणतोऽब्रवीत् । तथा कुरुत पुत्रो मे यथा स्यादचिरादिति ॥५५॥ ततस्तमूचुर्विप्रास्त नैतत्किञ्चन दुष्करम् । सर्वं हि साधयन्तीह द्विजः धोतेन कर्मणा ॥५६॥ तथा च पूर्वमभवद्राजा कश्चिदपुत्रकः । पञ्चोत्तरं शतं धामुसन्यान्तं पुण्योषिताम् ॥५७॥ पुत्रोत्पद्या च सम्यक्तो जन्तुर्नाम सुतोऽजनि । तत्पत्नीनामगणनां मृतगम्भूय्या इति ॥५८॥