कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 307, कुल 876 में से
संदर्भ में पढ़ें२६६ कथासरित्सागर वसन्तक-विकारादथ न ते व्यालोषिता मुहुः । मुखे तस्या वियोगिन्या स्मितस्यावसरं ददुः ॥४६॥ अत्रान्तरप्रविदूरतू भ्रान्त्वाखेटकभूमिषु । वत्सराजश्चिरादागात्सायं लावाणकं पुनः ॥४७॥ भस्मीभूतमपश्यच्च सप्रान्तःपुरमग्निना । देवीं दग्धां च शुश्राव मन्त्रिभ्यः सवसन्तकम् ॥४८॥ श्रुत्वैव चापतद् भूमौ मोहेन हृतचेतनः । तद्दुःखानुभव-क्लेशमपाकर्तुमिवेच्छता ॥४९॥ क्षणाच्च लब्धसंज्ञन् प्रजावाल हृदयं शुचा । आविष्ट इव सम्प्रत्य-देवी-दाहैकगाग्निना ॥५०॥ विरुरोद च दुःखार्तो देहत्यागकसम्मुखः । क्षणान्तरे स भूपतिः संस्मृत्यैतद्व्यचिन्तयत् ॥५१॥ विद्याधराधिपः पुत्रो वश्यास्तस्या भविष्यति । एतन्मे नारदमुनिर्भाषितं स्म न च तन्मृषा ॥५२॥ कश्चित्काल च दुःख मे तेनैव मुनिनोदितम् । गोपालकस्य भ्रातस्य शोकः स्वल्प इवेक्ष्यते ॥५३॥ यौगन्धरायणादीनां न चापामतिदुःखिता। दृश्यते तेन जाने सा देवी जीवत्यशङ्कन ॥५४॥ इय किमपि नीतिस्तु प्रयुक्ता मन्त्रिभिर्भवत् । अतो मम भवेज्जातु तया देव्या समागमः ॥५५॥ तत्पक्ष्याम्यत्र पर्यन्तं पर्यालोच्य स भूपतिः । निदधे हृदये धैर्यं बोध्यमानश्च मन्त्रिभिः ॥५६॥ गोपालकश्च संविश्य सद्ययावस्तु तत्क्षणम् । प्रजिघाय शतंपचार भृतिहेतोरलक्षितम् ॥५७॥ एवं गते स्ववृत्तान्ते लावाणकगतस्तदा । गत्वा मगधराजाय चारैः सर्वं निवेदितम् ॥५८॥ स तद्बुद्ध्वैव कालज्ञो वत्सराजाय तां सुताम् । दातुं पद्मावतीमेच्छत्पूर्वं सन्मन्त्रिणागिताम् ॥५९॥ ततो दूतमसन्नमभं वत्सेश्वराय सः । यौगन्धरायणायापि सन्दिवेश यधप्सितम् ॥६०॥ यौगन्धरायणोऽप्या च वत्सक्षोऽङ्गीचकार तत् । प्रच्छावितेतदर्थं स्याद्देवी जीविति चिन्तयन् ॥६१॥