कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 517, कुल 876 में से
संदर्भ में पढ़ें४७४ कथासरित्सागर
रत्नदीपप्रभासङ्गमक्रूरविविधायुधैः । गर्भरक्षाक्षमं तेजो ज्वलद्द्भिरिवावृतम् ॥६२॥ मन्त्रिभिस्तन्त्रितानमन्त्रतन्त्रादिरक्षितम् । धातृ मातृगणस्येव दुर्गं दुरितदुजयम् ॥६३॥ तत्रासूत च सा काले कुमारं कान्तदर्शनम् । क्षीरेन्दुमित्रं निर्गच्छच्छामृतमयमद्युतिम् ॥६४॥ येन जातेन न परं मन्दिरं तत्प्रकाशितम् । यावद्धृदयमप्यस्या मातुर्निश्शोकतमासम् ॥६५॥ ततः प्रमोदे प्रसरत्यन्तःपुरवासिनाम् । वत्सेशः सुतजन्मैतच्छुश्रावाभ्यान्तराज्जनात् ॥६६॥ तस्मै स राज्यमपि यत्प्रीतं प्रियनिवेदने । न ददौ तदनौचित्यभयेन न तु तृष्णया ॥६७॥ एत्य चान्तःपुरं सद्यो बढोत्सुक्येन चेतसा । चिरात्फलितसङ्कल्पः स ददर्श सुतं नृपः ॥६८॥ रक्तायताधरदलं पलोर्वाचारुकेसरम् । मुखं दधानं साम्राज्यलक्ष्मीलीलाम्बुजोपमम् ॥६९॥ प्रायेणान्यनृपश्रोभिर्भीत्येव निजलाञ्छनैः । उज्झितरक्षितं मूर्द्धो पादयोश्छत्रचामरैः ॥७०॥ ततो हर्षभरापूर्पोत्नोत्फुल्लया दृशा । मात्रायाः स्रवतीवास्मिंस्तत्स्नेहमहीपती ॥७१॥ नन्दत्स्वपि च योगन्धरायणादिषु मन्त्रिषु । गगनादुच्चचारैष काले तस्मिन् सरस्वती ॥७२॥ कामदेवावतारोऽयं राजन् जातस्तवात्मजः । नरवाहनदत्तश्च जामीहोनेमिहाख्यया ॥७३॥ अनेन भवितव्यं च दिव्यं कल्पमतन्द्रिणा । सर्वविद्याधरेन्द्रणामधिराज्यचक्रवर्तिना ॥७४॥ इत्युक्त्वा विरते वाचा तत्क्षणं नभसः क्रमात् । पुष्पवर्षनिपतितं प्रसूतं दुन्दुभिस्वने ॥७५॥ ततः महोत्सवारम्भजनिताभ्यधिकादरम् । स राजा सुतरां हृष्टश्चकार परमुत्सवम् ॥७६॥