कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1008, कुल 1079 में से
संदर्भ में पढ़ें१५२ कथासरित्सागर इत्याख्याय कथां वत्सराजपुत्रं स गोमुखः। उवाच कथयाम्येतां पुनर्मूग्धकथां शृणु॥१३१॥ बभूव श्रमणः कश्चिद्वहारे क्वापि मूढधीः। स रथ्यायां भ्रमन् जातु शुना जानुन्यदश्यत॥१३२॥ श्वदष्टः स विहारं स्वमुपागत्य व्यचिन्तयत्। किं वृत्तं जानुनि तवेत्येकैकः प्रक्ष्यतीह माम्॥१३३॥ प्रत्याययिष्याम्येष च कियतोऽहं कियच्चिरम्। तदुपायं करोम्यत्र सर्वान् बोधयितुं सकृत्॥१३४॥ इत्यालोच्य समारुह्य स विहारोपरि द्रुतम्। गृहीत्वा ग्रन्थिमुसलं मूढो भिक्षुरवादयत्॥१३५॥ अकारणमकाले किं ग्रन्थिं वादयसीति तम्। श्रुत्वाश्चर्येण मिलिताः पप्रच्छुरथ भिक्षवः॥१३६॥ शुना मे भक्षितं जानु तदेकैकस्य पृच्छतः। ब्रूवेऽहं कियवित्येव यूयं सङ्कट्टिता मया॥१३७॥ तद्बुध्यध्वं समं सर्वे जानु मे पश्यतेति सः। भिक्षून् प्रत्यब्रवीदेतान् स्वदष्टं जानु दर्शयन्॥१३८॥ ततः पार्श्वोपपीडं ते समग्रा भिक्षवोऽहसन्। कियन्मात्रे कृतोऽनेन संरम्भोऽयं कियानिति॥१३९॥ डक्कमूर्खकथा आख्यातः श्रमणो मूर्खष्टक्कमूर्खो निशम्यताम्। कदर्थः कोऽप्यभूत् क्वापि मूर्खष्टक्को महाधनः॥१४०॥ सभार्यः स सदा भुङ्क्ते सक्तूत्सवणवर्जितान्। अन्यस्यान्नस्य बुबुधे नैव स्वादं स जातुचित्॥१४१॥ एकदा प्रेरितो धात्रा स भार्यामब्रवीन्निजाम्। क्षीरिणीं प्रति जाता मे श्रद्धा तामद्य मे पच॥१४२॥ तथेति तस्य सा भार्या पपाच क्षीरिणीं तदा। तस्या भाम्यन्तरे गुप्तं स टक्कः स्वयमन्वित्॥१४३॥ दृष्ट्वा प्राघुणिकः कश्चिदत्र मे मा स्म भूदिति। तावत्तस्य सुहृद्धूर्तष्टक्कस्तत्रक आययौ॥१४४॥ १ टक्को बाह्लीकदेशोद्भवः पुंस्त्वं।