कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 155, कुल 1079 में से
संदर्भ में पढ़ें१३२ कथासरित्सागर सर्वाः प्रकृतयोऽप्यत्र तस्य शृङ्गभुजस्य तम्। गुणातिशयमालोक्य दधुस्तद्बहुरागिताम् ॥२३९॥ ततोऽन्यदुर्गुणज्येष्ठ तज्ज्येष्ठेष्वपि सत्सु सः। पिता वीरभुजो राजा यौवराज्येऽभिषिक्तवान् ॥२४०॥ स च प्राप्ताभिषेकः सन् दिग्विजयाय ययौ ततः। विज्ञाप्य पितरं सर्वबलैः शृङ्गभुजः सह ॥२४१॥ बाहुवीर्यजिताशेषवसुधाधिपमण्डलम् । आदाय जायतौ दिक्षु प्रविकीर्य यशःश्रियम् ॥२४२॥ ततो वहन् राज्यभारं प्रणतैर्भ्रातृभिः सह। निश्चिन्तभोगसुखितौ रञ्जयन् पितरौ कृती ॥२४३॥ दानं ददद् ब्राह्मणेभ्यस्तस्थौ शृङ्गभुजः सुखी। रूपवत्यार्थसिद्धयेश स रूपशिखया सह ॥२४४॥ इत्यनया पतिं साध्व्यः सर्वकारमुपासते। एते गुणवरारूपशिखे श्वश्रूसूनू यथा ॥२४५॥ इति नरवाहनदत्तो हरिशिखमुखात् कथामिमां श्रुत्वा। रत्नप्रभासमेतः साध्विति जल्पंस्तुतोष परम् ॥२४६॥ उत्थाय चाह्निकमथाशु विधाय गत्वा वत्सेश्वरस्य निकटं स पितुः सभायाम्। भुक्त्वापराह्णमतिवाह्य च गीतवाद्यैः स्वान्तःपुरे सदयितो रजनीं निनाय ॥२४७॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके पञ्चमस्तरङ्गः।
षष्ठस्तरङ्गः मघवद्गवियोगदुःखयोः परस्परं वाग्विलासः ततः प्रातः पुनर् रत्नप्रभासद्मनि तं स्थितम्। नरवाहनदत्तं ते गोमुखाद्या उपागमन् ॥१॥