भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 51, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 51

३२ कथासरित्सागर इत्युक्तः स तया राजा प्रतिपेदे नृपतिः तत् ॥४९॥ निश्चित्य च तदन्वेद्युः शीलवत्या तया सह। तेनापि हर्षगुप्तेन समारुह्य खगामिनम् ॥५०॥ श्वेतरश्मिं स्वयं गत्वा ताम्रलिप्तीं स भूपतिः। विवेश हर्षगुप्तस्य वणिजस्तस्य मन्दिरम् ॥५१॥ तत्र पप्रच्छ तदहर्लग्नं शीलवतीस्वसुः। विवाहे राजदत्ताया गणकानातमनस्तथा ॥५२॥ गणकाश्चोभयोः पृष्ट्वा नक्षत्राण्येवमब्रुवन्। लग्नौ वां शोभनो राजन्नस्ति मासेष्वितस्त्रिषु ॥५३॥ अद्य वा विद्यते यादृक्स्तेनैषा चेद्विवाह्यते। राजदत्ता ततोऽवश्यमसाध्वी भवति प्रभो ॥५४॥ गणकैरेवमुक्तोऽपि कमनीयवधूत्सुकः। एकाकी चिरमप्यास्तु स राजा समचिन्तयत् ॥५५॥ अलं विचारेणाद्यैव राजदत्तामिहोद्वहे। शीलवत्याः स्वसा ह्येषा निर्दर्पा नासती भवेत् ॥५६॥ यतत्समुद्रमध्येऽस्ति द्वीपलब्धममानुषम्। एकशून्यचतुःशालं तत्रैतां स्थापयामि च ॥५७॥ दुर्गेऽेऽत्र परीवारं स्त्रीरेवास्याः करोमि च। पुरुषादर्शनादेवमसती स्यादियं कथम् ॥५८॥ इति निश्चित्य तदहः परिणिन्ये स भूपतिः। तां राजदत्तां सहसा शीलवत्या समर्पिताम् ॥५९॥ कृतोद्वाहः कृताचारो हर्षगुप्तेन तां वधूम्। आदाय प्रेमैव समं शीलवत्या तया च सः ॥६०॥ श्वेतरश्मिं समारुह्य क्षणेन नभसा निजम्। मार्गोन्मुखेन द्वीपं रत्नकूटं तदाययौ ॥६१॥ सविमेने च तां भूयस्तया शीलवतीं यथा। प्राप्तसाध्वीव्रतफला कृतार्था समपादि सा ॥६२॥ ततस्तमेव करिणि श्वेतरश्मौ नभश्चरे। आरोप्य तां नववधू राजदत्तां स चिन्तिते ॥६३॥ नीत्वा सप्ताब्धिमध्यस्थे द्वीपे मानुषदुर्गमे। आस्खापयच्चतुःशाले नारीमयपरिच्छदाम् ॥६४॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 51, कुल 1079 में से · BharatKosha