कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 607, कुल 1079 में से
संदर्भ में पढ़ें५२ कथासरित्सागर
तत्रावतारितः स्कन्धात्पित्रा सत्त्ववरोऽथ सः। बालोऽपि धैर्यराशिस्तौ नत्वा देवीं व्यजिज्ञपत् ॥१४६॥ देवि मूर्धोपहारेण मम जीवतु नः प्रभुः। नृपो विक्रमतुङ्गोऽत्र शास्तु च क्ष्मामकण्टकाम् ॥१४७॥ एवमुक्तवतस्तस्य साधु पुत्रेत्युदीर्य च। कृष्ट्वा कररुहां सूनोश्छित्वा वीरवरः शिरः ॥१४८॥ प्रवृत्तौ चण्डिकावेश्मे 'राज्ञः श्रेयोऽस्त्विति' ब्रुवन्। नास्त्यहो स्वामिभक्तानां पुत्रे वाऽऽत्मनि वा स्पृहा ॥१४९॥ 'साधु वीरवर दत्तं स्वामिनो जीवितं त्वया। अपि प्राणैः सुतस्येति' शुश्रुवे वाक्तदा दिवः ॥१५०॥ तच्चातिविस्मिते राज्ञि सर्वं पश्यति शृण्वति। बाला वीरवती तस्य भ्रातुर्वीरवरात्मजा ॥१५१॥ हतस्योपेत्य मूर्धानमाश्लिष्य परिचुम्ब्य च। हा भ्रातरिति चाक्रन्द्य हृत्स्फोटेन व्यपादि सा ॥१५२॥ दृष्ट्वा सुतामपि मृतां सा तं वीरवरं तदा। भार्या धर्मवती दैन्यादब्रवीत्कृताञ्जलिः ॥१५३॥ राज्ञः शिवं कृतं तावदनुज्ञां प्रयच्छ मे। यावदासन्मृताऽपत्यद्वयार्तिं प्रविशाम्यहम् ॥१५४॥ बाला मत्रेयमज्ञानाप्येष भ्रातृस्नुषा मृता। का शोभा जीवितेनात्र नष्टेऽपत्यद्वयेऽपि मे ॥१५५॥ निश्चयेमेति जल्पन्तीं तां स वीरवरोऽब्रवीत्। एवं कुरुष्व किं वच्मि नहीदानीमनिन्दिते ॥१५६॥ अपत्यशोकैकमये संसारेऽस्ति सुखं तव। तत्प्रतीक्षस्व यावत्ते रचयामि चितागृहम् ॥१५७॥ इत्युक्त्वात्र स्थितैर्वेदीक्षेत्रनिर्माणदारुभिः। न्यस्तापत्यद्वयां चक्रे दीप्ताग्निज्वलितां चिताम् ॥१५८॥ ततो धर्मवती भार्या पादौ तस्य प्रणम्य सा। 'जन्मान्तरेऽपि मे भूयादार्यपुत्र पतिर्भवान् ॥१५९॥