कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 633, कुल 1079 में से
संदर्भ में पढ़ें[Header] ५८६ कथासरित्सागर
अन्यद्युरेत्य चास्थानगतं तं वात्सवकः। शूरः समरतुङ्गाख्यो राजपुत्रो व्यजिज्ञपत् ॥१३७॥ देव सङ्ग्रामवर्षेण नाशितो गोत्रजेन मे। दशदक्षतुभिर्युक्तेन पुत्रैर्वीरजितादिभिः ॥१३८॥ तदद्य गत्वा पञ्चापि यद्ध्वा तानानयाम्यहम्। प्रभोर्विदितमस्त्वेतदित्युक्त्वा सन्न सोऽगमत् ॥१३९॥ तमल्पसैन्यं तानन्यान् भूरिसैन्यानवेत्य सः। वत्सेश्वरसुतस्तस्य विदेशानुबलं निजम् ॥१४०॥ सोऽगृहीत्वैव तन्मानी गत्वा पञ्चापि तान् रिपून्। स्वबाहुभ्यां रणे जित्वा संयम्यानीतवान्समम् ॥१४१॥ तथा जयिनमायान्तं वीरं सम्भाव्य स प्रभुः। नरवाहनदत्तस्तं प्रशशंस स्वसेवकम् ॥१४२॥ चित्तमाक्रान्तविषयान्सबलानिन्द्रियोपमान् । जित्वानन रिपून् पञ्च पुरुषार्थः प्रसाधितः ॥१४३॥ तच्छ्रुत्वा गोमुखाद्वादीच्छृणुता चम्र तद्विधौ। राज्ञश्चमरबालस्य कथां तच्छृणु वच्मि ताम् ॥१४४॥
राज्ञः चमरबालस्य कथा
हस्तिनापुरमिरथस्ति नगरं तत्र चाभवत्। राजा चामरबालाख्यः कोषदुर्गाब्धिसान्वितः ॥१४५॥ बभूवुस्तस्य समरबलाद्या भूम्यनन्तराः। राजानो गोत्रजास्ते च सम्भूयवमचिन्तयन् ॥१४६॥ अयं चमरबालोऽस्मानेकैकं बाधते सदा। तदेते मिलिताः सर्वे विदध्मोऽस्य पराभवम् ॥१४७॥ इति सम्मन्त्र्य पञ्चत तज्जयाय यियासवः। प्रस्थानलग्नं क्षितिपाः पप्रच्छुर्गणकं रहः ॥१४८॥ अपश्यन् स शुभं लग्नं पश्यंश्चशकुनानि च। जगाद गणको नास्ति लग्नं संवत्सरेऽत्र वः ॥१४९॥ यथा तथा च यातानां न युष्माकं भवेज्जयः। किं चात्र वोऽनुबन्धेन समृद्धिं तस्य पश्यताम् ॥१५०॥