भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 803, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 803

७५६ कथासरित्सागर मनोरथप्रभे मैवं कृथा भूयो भविष्यति । एतेन मुनिपुत्रेण तव कालेन सङ्गम ॥११३॥ एतच्छ्रुत्वा परावृत्य मरणात्सप्रतीक्षिणी । स्थितास्मीहैव बद्धाशा शङ्करार्चनतत्परा ॥११४॥ मुनिपुत्रसुहृत्सोऽपि गतो मे क्वाप्यदर्शनम् । इति तां वादिनीं विद्याधरीं सोमप्रभोऽभ्यधात् ॥११५॥ स्थितास्येकाकिनी तर्हि क्व सापि सखी क्व ते । एतच्छ्रुत्वा तमाह स्म सा विद्याधरकन्यका ॥११६॥ सिंहविक्रम इत्यस्ति नाम्ना विद्याधरेश्वरः । तस्यानन्यसमा चास्ति तनया मकरन्दिका ॥११७॥ सा मे सखी प्राणसमा तया सह सुस्थिता । तया सखी प्रेषितामद्वार्तां ज्ञातुमिहाद्य मे ॥११८॥ ततो मयापि तत्सख्या समं सा प्रहिता निजा । सखी तदन्तिकं तेन स्थितास्म्येकैव सम्प्रति ॥११९॥ एवं वदन्ती गगनादवतीर्णां तदैव ताम् । स्वसखीं दर्शयामास तस्मै सोमप्रभाय सा ॥१२०॥ तामथोक्तसखीवार्त्तां पर्णशय्यामकारयत् । सोमप्रभस्य तद्बाह्वोरपि वासमदापयत् ॥१२१॥ ततो नीत्वा निशां सर्वे तत्र ते प्रातरुत्थिता । व्योम्नोऽवतीर्णं ददृशुर्विद्याधरमुपागतम् ॥१२२॥ स च विद्याधरो देवजयो नाम कृतानतिः । मनोरथप्रभामेवमुपविश्य जगाद ताम् ॥१२३॥ मनोरथप्रभे राजा वक्ति त्वां सिंहविक्रमः । यावत्तव न निष्पन्नो वरस्तावन्न मत्सुता ॥१२४॥ विवाहमिच्छति स्नेहात्त्वत्सखी मकरन्दिका । तदेतां बोधयागत्य येनोद्वाहे प्रवर्त्तते ॥१२५॥ एतच्छ्रुत्वा सखीस्नेहात् विद्याधरकन्यकाम् । गन्तुं प्रवृत्तां वक्ति स्म राजा सोमप्रभोऽथ सः ॥१२६॥ द्रष्टुं विद्याधरं लोकमनघे कौतुकं मम । तत्तत्र नय मामद्यो त्सवोऽसावथ तिष्ठतु ॥१२७॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 803, कुल 1079 में से · BharatKosha