भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 805, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 805

७५८ कथासरित्सागर

तच्छ्रुत्वा सा तथेत्युक्त्वा व्योम्ना सद्यः सखीयुता। तेन देवजयोत्सङ्गारोपितेन समं ययौ॥१२८॥ प्राप्ता तत्र कृतातिथ्या मकरन्दिकया तया। दृष्ट्वा सोमप्रभं कोऽयमिति स्वैरमपृच्छ्यत॥१२९॥ तयोक्ततद्वृत्ता च ततः सा मकरन्दिका। सोमप्रभेण तेनाभूत् सद्योऽपहृतमानसा॥१३०॥ सोऽपि तां मनसा प्राप्य रुक्मीं रूपवतीमिव। स तु कः सुकृती योऽस्या वरः स्यादित्यचिन्तयत्॥१३१॥ ततः स्वैरं कथासङ्गात् तामाह मकरन्दिकाम्। मनोरथप्रभा चण्डि कस्मान्नोद्वाहमिच्छसि॥१३२॥ तच्छ्रुत्वा साऽप्यवोचत्तां त्वयानङ्गीकृते वरे। कथं विवाहमिच्छेयं त्वं शरीराधिका हि मे॥१३३॥ एवं तया सप्रणयं मकरन्दिकयोदिते। मनोरथप्रभावादीद्वृतो मुग्धे मया वरः॥१३४॥ तत्सङ्गमप्रतीक्षा हि तिष्ठामीत्युदिते तया। करोमि तर्हि त्वद्वाक्यमित्याह मकरन्दिका॥१३५॥ मनोरथप्रभा साधु ज्ञातमित्य जगाद ताम्। सखि सोमप्रभः पृथ्वीं भ्रान्त्वा प्राप्तोऽतिथिस्तव॥१३६॥ तदस्यातिथिसत्कारः कर्त्तव्यः सुन्दरि त्वया। इत्याकर्ण्यैव जगदे मकरन्दिकया तया॥१३७॥ आ शरीरान्मया सर्वमिदमेतस्य साम्प्रतम्। अर्घपात्रीकृतं कामं स्वीकरोतु यदीच्छति॥१३८॥ एवं तयोक्ते तत्प्रीतिं ज्ञात्वाथ स्वपितुः। मनोरथप्रभा चक्रे तयोरुद्वाहमिष्टदम्॥१३९॥ ततः सोमप्रभो लब्धधृतिस्तुष्टो जगाद ताम्। त्वदाश्रममहं यामि साम्प्रतं स्वं जातु न॥१४०॥ हित्वा न पदवीं सैन्यमागच्छेन्मदधिष्ठितम्। मामप्राप्याहिताशङ्कि तच्च गच्छेत् पराङ्मुखम्॥१४१॥ तद्गत्वा सैन्यवृत्तान्तं बुद्ध्वागम्य ततः पुनः। निर्विशङ्कः परिणेष्यामि शुभेऽह्नि मकरन्दिकाम्॥१४२॥