किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 134, कुल 707 में से
संदर्भ में पढ़ें९६ | किराताऽर्ज्युनीयम् । | [द्वितीय
न आच्छादितम्, गोपितमित्यर्थः अर्थात् सर्वत्रोत्साहशक्तिस्त्वया स्वकुलोचितस्वभावेन वर्णितेति भावः ॥ २७ ॥
समासः—अर्थस्य गौरवमर्थगौरवम् । पृथक् अर्थः यासां ताः पृथगार्थास्तासां भावः पृथगर्थता ॥ २७ ॥
व्याकरणम्—अपाकृता = अप + आङ् + कृ + क्तः + टाप् । स्वीकृतम् = स्वी+ च्विः कृ + क्तः । रचिता = रच् + क्तः + टाप् । अपोहितम् = अप + ऊह + क्तः ॥ २७ ॥
वाच्यान्तरम्—पदानि स्फुटतां न अपाकृतवन्ति । भवान् अर्थगौरवं न स्वीकृतवान् इति, न, गिरां पृथगर्थतां न रचितवान् । क्वचित्सामर्थ्यं न अपोहितवान् ॥ २७ ॥
कोषः—'सम्भाव्यनिषेधनिवर्त्तने द्वौ प्रतिषेधौ' इति वामनः । 'अभावे नञ् प्रनापि मा स्म माऽलं च वारणे' इत्यमरः ॥ २७ ॥
सारार्थः—हे भीम ! त्वया प्रतिपाद्येषु वचनेषु, सर्वत्र सरलतः, अर्थबहुलत्वं पुनरुक्तता पराक्रमविशेषता च प्रदर्शिता ॥ २७ ॥
भावार्थः—हे भीम ! पदों में जो सरलता, तुमने दिखाई और थोड़े शब्दों में अधिक अर्थ का प्रयोग किया, कहीं भी पुनरुक्ति ( जो एक बार वही दूसरी बार) नहीं कही और भी अपने पराक्रम को छिपाया नहीं ॥ २७ ॥
उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः ।
इदमीदृगनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः ॥ २८ ॥
उपपत्तिरिति । किञ्च बलाद् बलमाश्रित्य । कर्मणि ल्यब्लोपे पञ्चमी बलेन उपपत्तिर्युक्तिरुदाहृता । पराक्रमपक्ष एव श्रेयानिति युक्तिरुक्तेत्यर्थः उचितं चेतन्महावीरस्येति भावः । तथाऽनुमानेन युक्त्याऽऽगमः शास्त्रं च न क्षतो न दूषितः किन्त्वागमाविरुद्धमेवोक्तम् । अन्यथा तद्विरोधादनुमानस्यैव प्रामाण्यभङ्गादिति भावः ईदृगित्थं क्षत्रियुक्तमिदं वचनमविद्यमान ईदृगाशय इत्थं क्षत्रयुक्ताभिप्रायो यस्य सोऽनीदृगाशयः । 'अभिप्रायश्छन्द आशयः' इत्यमरः कः प्रसभं हठाद्वक्तुमुपक्रमेत । न कोऽपीत्यर्थः । इत्थं वक्तुमुपक्रमितैव नास्ति, वक्ता तु दूरापास्त एवेति भावः । केचित्तेतच्छ्लोकत्रयं निन्दापरत्वेनापि योजयन्ति । तदसत् हितोपदेशमात्रतत्परस्यातिवत्सलस्य राज्ञो मत्सरिण इव महावीरे भ्रातरि विधेये सर्वार्थदक्षभूतनिन्दातात्पर्य्यकल्पनाऽनौचित्यादिति ॥ २८ ॥
अन्वया—बलात्, उपपत्तिः उदाहृता । अनुमानेन, च आगमः, न क्षतः। अनीदृगाशयः, कः, ईदृक्, इदं, प्रसभं, वक्तुम् उपक्रमेत ॥ २८ ॥
सुधा—बलात् = बलमाश्रित्य, पौरुषमङ्गीकृत्येत्यर्थः । उपपत्तिः = युक्तिः, उदाहृता = उक्ता, त्वया भीमेनेति शेषः । अनुमानेन च = तर्केणापि, आगमः = शास्त्रम्, न क्षतः = न बाधितः, अर्थात्सर्वं शास्त्रानुकूलमेव वचः समुदीरितं त्वयेति भावः। अनीदृगाशयः = ईदृशाभिप्रायरहितः कः = अन्यज्जनः, शक्नुयादिति शेषः । ईदृक् = ...