मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 99, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये द्वितीयपादः ४७ तत्प्रतिपादनक्लेशमङ्गीकुर्यादिति प्रसिद्धस्वार्थसत्यत्वानां स्तुतिद्वारैकवाक्यभावेन धर्मप्रमाणशेषत्वमात्रप्रतिपत्तिसौकर्यार्थं वायव्यवाक्योपन्यासः। तत्र भाष्यकाराः प्रसिद्धेनैकवाक्यत्वेन स्तुत्यर्थोपयोगं वदन्ति। एतावत्तत्र प्रथमं वक्तव्यम्। किमर्थं रूपभङ्गे न बलादेकवाक्यता; पुरुषार्थत्वं वा वेदस्योच्यते इति। लौकिक- वाक्ये तु दृष्टत्वादिति यद्युच्येत, तत्राभिधीयते। युक्तं लोके वाक्यार्थस्य प्रमाणान्तरगम्यत्पादन्यथाऽपि कल्पनम्। इह त्वत्यन्तातीन्द्रियत्वादयथाश्रुता- दीषदप्यन्यथात्वे पौरुषेयत्वमापद्येत। लोकेऽपि च यानि प्रमाणान्तरानवगता- र्थानि आप्तप्रत्ययमात्रेण श्रोतॄणां प्रमाणानि भवन्ति, तेषां नैवान्यथात्वकल्पनं लभ्यते। तत्र केचिद्वदन्ति। ‘तुल्यं च सांप्रदायिकम्’ इति यद्वक्ष्यति, तेन समस्तो वेदः पुरुषार्थ इति साध्यते। न ह्यात्मानुपकारिणं सन्तमेनं बुद्धिपूर्वकारिणः पुरुषाः प्रयत्नेन धारयेयुः। यद्यपि च केषांचिदज्ञानं भवेत्, तथाऽप्यस्मत्पूर्वाति- क्रान्ताऽनेकपरोक्षकप्रमादकल्पना निष्प्रमाणिका। तस्माद्यथा यथा पुरुषार्थता भवति, तथा तथा भङ्क्त्वाऽपि रूपं व्याख्यायत इति। न त्वेतद्युक्तमिव। कुतः? पुरुषाधीनप्रामाण्यप्रसङ्गात्। यदि ह्यक्षरानुपात्तो- ऽप्यर्थोऽस्मदादिभिरेवं कल्प्यते, यस्माद्वयं प्रयत्नेन धारयामस्तस्मादस्य पुरुषार्थतेति। तथा सत्यात्मचेष्टितवशेन प्रामाण्यमभ्युपगतं स्यात्। अथ पुरुषा- न्तरधारणमुच्यते, एवमपि तद्वशेन, तैरप्येवमन्यवशेनेत्यनादित्वेऽपि सत्यन्ध- परम्परान्यायेन सर्वेषां परप्रत्ययान्न क्वचित्प्रामाण्यावस्थानम्। सर्वत्र ह्येवमयं पुरुषो वेदेति प्रत्ययो, नैवमयमर्थ इति। तेन यद्यपि तेषु तेष्वध्येतृषु नूनं पुरुषार्थं वेदं मन्यन्त इत्यभिप्रायोऽनुमीयते, तथाऽपि निर्मूलत्वात्तन्मात्रेणासिद्धिः। अतो यावद्वेद एव पुरुषार्थतया सकलमात्मानं न प्रतिपादयति तावदप्रमाणम्। तदुच्यते। सकलस्य तावद्वेदस्य ‘स्वाध्यायोऽध्येतव्य’ इत्यध्ययनभावना विधीयते। तत्र किं भावयेदित्यपेक्षायामध्ययनमित्यागतमपि पुरुषप्रवर्तनाशक्ति- युक्तेन विधायकेनापुरुषार्थसाध्यायां भावनायां प्रवर्तनाशक्तिप्रसक्तेस्तदंशात्क्षिप्ता- क्रियते। ततश्चाध्ययनेनेत्यविरोधात्संनिधेश्च करणांशे निविशते। तेन किमि- त्यपेक्षिते ‘यच्छक्यते’ इत्युपबन्धादक्षरग्रहणमित्यापतति। तस्याप्यपुरुषार्थ- त्वात्तेन किमिति, पदावधारणमित्युपतिष्ठते, तेनापि पदार्थज्ञानम्, तेन वाक्यार्थ- ज्ञानम्, तेन चानुष्ठानम्, अनुष्ठानेन स्वर्गादिफलप्राप्तिरित्येतावति प्राप्ते निरा- काङ्क्षीभवति। एवं सर्वविधीनां प्राक् पुरुषार्थलाभादपर्यवसानम्। न च सहसैव विधिदर्शनात्स्वर्गाद्येव फलं कल्प्यते। योग्यतया हि यस्य यत्रानन्तरभाविनि व्यापारे लक्ष्यते, तदेव तस्य कार्यमित्यवधार्यते। तत्र यदि तावत्तदनुसारेणैव कियत्यप्यध्वनि फलमासाद्यते, ततो नान्तरा कल्पनमर्हति। पारम्पर्यप्रयोजने-