पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 960, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ४१. सू - ६४. ] दीपिकासहितम्. ९१३ अङ्गदेवतानां यथा यथा परमेश्वराङ्गाश्रयत्वम् । ' च- क्षोस्सूर्यो अजायत ' (ऋ. १०-९०-१३.) इत्यादि, तथा भावना कर्तव्या ॥ ६३ ॥ ( २ ) सू—ॐ ॥ शिष्टेश्च ॥ ॐ ॥ ६४ ॥ यस्मिन्यस्मिन् यो हि चाङ्गे निविष्टः चेति । तत्राद्यं सर्वमुमुक्षुसाधारणं ' अङ्गावबद्धाः ' इत्यत्रोक्तम् । द्वि- तीयं देवतामात्राधिकारिकमत्र समर्थ्यते इति विवेकस्तत्त्वप्रदीपेऽभि- हितः । ब्रह्मादिदेवानामीश्वराङ्गाश्रितत्वेनोपासनं न कर्तव्यम्, नि- राधिकारिकत्वात् । न तावत्तत्सर्वाधिकारिकम् । ' आनन्दादयः ' इत्युक्तचतुर्गुणनियमव्याघातात् । नापि देवाधिकारिकम्, ' ब्रह्मा शि- रसि ललाटे रुद्रः ' इत्यादितत्प्रकरणेषु देवानामेतदुपासनमित्यनु- क्तेरिति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—अङ्गेष्विति ॥ अ- त्राङ्गेष्वित्यावर्तते । तत्रैकं षष्ठ्यन्ततया विपरिणतं देवतावाचि । द्वि- तीयं प्रकृतपरमाङ्गवाचि । यथेत्यप्यावर्तते । तथा तथेति च लभ्यते । उक्त इति कर्तव्य इति शेषः । भाव इतिशब्दो बुद्ध्या विविक्त उपा- सनापर्यायभावनावाची । तथा च ' चक्षोः सूर्यो अजायत ' इत्या- दीनामङ्गानां सूर्यादिदेवानामाश्रयिणां भगवतोऽङ्गेषु ' आश्रयभावः ' आश्रयत्वं यथा यथोक्तः ' तथा तथा ' तेन तेन प्रकारेण तेषां ' भावः ' उपासनं कर्तव्य इति योजनामभिप्रेत्य सूत्रं व्याचष्टे—अङ्गेति । परमे- श्वराङ्गाश्रयत्वमिति बहुव्रीहिः । अङ्गदेवतानामित्यस्य परमेश्वराङ्गाश्र- यत्वमित्यनेन भावनेत्यनेन च सम्बन्धः । उक्तमिति शेषः । इत्यादीति लुप्तविभक्तिकं निर्देशः । इत्यादिनेत्यर्थः । यद्यपि श्रुतावङ्गजत्वमे- वोक्तं, न तु तदाश्रितत्वं, तथाऽपि 'ददाश्रिताश्च ते सर्वे' इति वचना- द्यत्र जन्म तत्रैव स्थितिरिति न दोषः । कर्तव्येति सावधारणम् । अ- त्र हेतुस्तु उत्तरसूत्रे चशब्देन अत्रापि उक्त इत्याध्याहृतपदेन च सू- चितः अन्यथा तदुक्तिवैयर्थ्य प्रसङ्गादित्येवंरूपो द्रष्टव्यः ॥ ( २ ) अत्रैव युक्त्यन्तराभिधानाय सूत्रम्—शिष्टेश्चेति ॥ तद्वयाच- ष्टे—यस्मिन्निति । यो यो देवः ' परस्य ' विष्णोः यस्मिन् यस्मिन् अ- ङ्गे 'निविष्टः' प्रविष्टः आश्रितः । 'हि' प्रसिद्धः । स सः 'तथा तथा' तत्तदङ्गनिविष्टत्वेन 'चिन्त्यः' उपास्य इत्यर्थः । 'शिष्टेः' शिक्षावि- धायकश्रुतिरिति फलितार्थ इति भावेनाह—श्रुतेरिति । श्रुतेरित्यनन्त- ११५