रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 173, कुल 735 में से
संदर्भ में पढ़ें| ११४ | रघुवंशमहाकाव्ये |
|---|
भावार्थ—मदोद्धत वृहत्स्कन्ध, नदी-तटों को खोदने वाले बैलों ने उस रघु की विहार-क्रीडा का अनुकरण किया ॥ २२ ॥
प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः ।
असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥ २३ ॥
अन्वयः—सप्तपर्णानां मदगन्धिभिः प्रसवैः आहताः तन्नागाः असूयया इव सप्तधा एव प्रसुस्रुवुः ।
प्रसवैरिति । मदस्येव गन्धो येषां तैर्मदगन्धिभिः । 'उपमानाच्च' इतीकारः समासान्तः । सप्तपर्णानां वृक्षविशेषाणाम् । 'सप्तपर्णो विशालत्वक् शारदो विषमच्छदः' इत्यमरः । प्रसवैः पुष्पैराहतास्तस्य रघोर्नागा गजाः । 'गजेऽपि नागमातङ्गौ' इत्यमरः । असूययेवाहितनिमित्तया स्पर्धयेव सप्तधैव प्रसुस्रुवुर्मदं ववृषुः । प्रतिगजगन्धाभिमानादिति भावः । 'करात्कटाभ्यां मेढ्राच्च नेत्राभ्यां च मदस्रुतिः' इति पालकाप्ये । कराक्षासारन्ध्राभ्यामित्यर्थः ।
भावार्थ—रघु के मद गन्ध सप्तपर्ण-पुष्पाहत हाथी मानो डाह से सातों अङ्गों से मद बरसाने लगे ॥ २३ ॥
सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् ।
यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥ २४ ॥
अन्वयः—सरितः गाधाः कुर्वती च पथः आश्यानकर्दमान् (कुर्वती) शरत् शक्तेः प्रथमं तं यात्रायै चोदयामास ।
-सरित इति । सरितो गाधाः सुप्रतराः कुर्वती । पथो मार्गान्वाश्यानकर्दमाञ्छुष्कपङ्काङ्कुर्वती । 'संयोगादेरातो धातोर्यण्वतः' इति ष्यतो निष्ठातस्य नत्वम् । शरच्छरदृतुस्तं रघुं शक्तेरुत्साहशक्तेः प्रथमं प्राग्यात्रायै दण्डयात्रायै चोदयामास प्रेरयामास । प्रभावमन्त्रशक्तिसम्पन्नस्य शरदस्यमुत्साहमुत्पादयामासेत्यर्थः ।
भावार्थ—नदियों को घटाती हुई और मार्ग के कीचड़ को सुखाती हुई शरद् ऋतु ने रघु को उत्साहशक्ति के पहले प्रेरणा की ॥ २४ ॥
तस्मै सम्यग्घुतो वह्निर्वाजिनीराजनाविधौ ।
प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ ॥ २५ ॥
अन्वयः—वाजिनीराजनाविधौ सम्यक् हुतः वह्निः प्रदक्षिणार्चिर्व्याजेन हस्तेन इव तस्मै जयं ददौ ।
तस्मा इति । वाजिनामश्वानां नीराजनविधौ नीराजनाऽऽख्ये शान्तिकर्मणि सम्यग्विधिवद् हुतो होमसमिद्धो वह्निः प्रागतो दक्षिणं प्रदक्षिणम् । तिष्ठद्गुप्रभृति