रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 682, कुल 735 में से
संदर्भ में पढ़ेंएकोनविंशः सर्गः ६२३
अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् ।
मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः ॥ १७ ॥
अन्वयः—सः प्रणयिनीः वञ्चयन् अंगुलीकिसलयाग्रतर्जनं भ्रूविभंगकुटिलं वीक्षितं च असकृत् मेखलाबन्धनं च अवाप ।
अङ्गुलीति । सोऽग्निवर्णः प्रणयिनीः प्रेयसीर्वञ्चयन्नन्यत्र गच्छन्नङ्गुल्यः किसलयानि तेषामग्राणि तैस्तर्जनं भर्त्सनं भ्रूविभङ्गेन भ्रूभेदेन कुटिलं वक्रं वीक्षणं चासकृन्मेखलाभिर्बन्धनं चावाप । अपराधिनो दण्ड्या इति भावः ।
भाषार्थ—कभी-कभी जब वह राजा अग्निवर्ण इन प्रियाओं को चकमा दे जाता तब वे बिगड़ कर अपनी लाल अंगुलियों को चमका कर उसे धमकाकर भौंहें तरेरती थीं और अपनी करधनी से उसे अनेक बार बाँध देती थीं ॥ १७ ॥
तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु ।
शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः ॥ १८ ॥
अन्वयः—सुरतवाररात्रिषु दूतिविदितं प्रियजनस्य पृष्ठतः तेन विप्रलम्भ-शङ्किनः प्रियजनस्य कातरं वचः शुश्रुवे ।
तेनेति । सुरतस्य वारो वासरः तस्य रात्रिषु दूतीनां विदितं तथा पृष्ठतः प्रियजनस्य पश्चाद्भागे निषेदुषा तेनाग्निवर्णेन विप्रलम्भपरिशङ्किनी विरहशङ्किनः प्रियश्चासौ जनश्च प्रियजनः तस्य कातरं वचः प्रियाजनेन मां पाहीत्येवमादि दीनवचनं शुश्रुवे ।
भाषार्थ—जिस रात को उसे किसी स्त्री से संभोग करने जाना होता था तो दूती से सब बातें बता कर वह पास ही छिप कर बैठ जाता था । वह स्त्री जब आती थी और विप्रलब्धा नायिका के समान दूती से सब बातें करने लगती थी तब वह उन बातों को छिपे-छिपे बड़े प्रेम से सुनता था ॥ १८ ॥
कौल्यमेत्य गृहिणीपरिग्रहात्नर्तकीष्वसुलभासु तद्वपुः ।
वर्तते स्म स कथंचिदालिखन्नङ्गुलाक्षरणसन्नवर्तिकः ॥ १९ ॥
अन्वयः—गृहिणीपरिग्रहात् नर्तकीषु असुलभासु लौल्यं एत्य अङ्गुलिक्षरण-सन्नवर्तिकः सः तद्वपुः अलिखन् कथंचित् वर्तते स्म ।
कौल्यमिति । गृहिणोपरिग्रहाद्राज्ञीभिः समागमाद्धेतोर्नर्तकीषु वेश्यास्वसुलभासु दुर्लभाषु सतीषु लौल्योत्सुक्यमेत्य प्राप्य अङ्गुल्याः क्षरणेन स्वेदनेन सन्नवर्तिको विग-लितशलाकः सोऽग्निवर्णस्तासां नर्तकीनां वपुस्तद्वपुरालिखन्कथंचिद्वर्तते स्मावर्तत ।
भाषार्थ—जब कभी रानियां उसे रोक लेती थीं तब नर्तकियों के न मिलने